परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 361, कुल 373 में से
संदर्भ में पढ़ें१२४-१२६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३३१
पर्यायशब्दानां लाघवगौरवचर्चा नाऽऽद्रियते ॥ १२४ ॥
-: ❖ :-
तत्र तत्रान्यतरस्यां विभाषा वेति सूत्रनिर्देशज्ञापितमिदम् ॥ १२४ ॥
ज्ञापकसिद्धं न सर्वत्र ॥ १२५ ॥
-: ❖ :-
स्पष्टमेव पठितव्येऽनुमानाद् बोधनमसार्वत्रिकत्वार्थमित्यर्थः, तेन
ज्ञापकसिद्धपरिभाषयाऽनिष्टं नाऽऽपादनीयमिति तात्पर्यम् । भाष्येऽपि
ध्वनितमेतत् ‘ङ्याप्’सूत्रादौ ।
ज्ञापकेति न्यायस्याप्युपलक्षणम् । न्याय-ज्ञापकसिद्धानामपि केषा-
ञ्चित् कथनमन्येषामनित्यत्वबोधनायेति भावः । यथा ‘तत्स्थानापन्ने
तद्धर्मलाभ’ इति न्यायसिद्धं स्थानिवत्सूत्रम्, ज्ञापकसिद्धं च तत्र ‘अनल्-
विधावि’ति ॥ १२५ ॥
ननु ‘द्रोग्धा द्रोग्धा, द्रोढा द्रोढे’त्यादौ घत्वादीनामसिद्धत्वात् पूर्वं
द्वित्वे एकत्र घत्वमपरत्र ढत्वमित्यस्याप्यापत्तिरत आह—
पूर्वत्रासिद्धीयमद्वित्वे ॥ १२६ ॥
-: ❖ :-
द्वित्वभिन्ने पूर्वत्र कर्तव्ये परमसिद्धमित्यर्थः । ‘पूर्वत्रासिद्धमि’त्यधि-
कारभवं शास्त्रमस्या लिङ्गम् ।
लाघवगौरवचर्चेति । लाघवगौरवविचार इत्यर्थः । तथा च पर्यायशब्देषु
उच्चारणगौरवेणार्थान्तरकल्पनाभिनिवेशो न कार्य इति भावः । बहुलशब्दस्य विकल्पार्थ-
कत्वेऽपि वाशब्दपर्यायत्वाभावेन ‘मघवा बहुलमि’त्यत्र बहुलग्रहणसामर्थ्यादर्थान्तर-
कल्पनं नैतद्विरुद्धमिति ध्येयम् ॥ १२४ ॥
असार्वत्रिकत्वार्थमिति । तेन ‘अपपरी’त्यनेन बहिरङ्गे ज्ञापिता पञ्चमी ‘करस्य
बहिरि’त्यत्र नेति बोध्यम् । ध्वनितमिति । तत्र ज्ञापकेन ‘लिङ्गविशिष्ट’परिभाषामुक्त्वा
अनया ‘द्विषतीताप’ इत्यत्र ‘द्विषत्परयोरि’ति नेति सूचितम् ।
ज्ञापकसिद्धं च तत्रेति । ल्यपि क्त्वावृत्तित्तादित्वस्य स्थानिवत्त्वादेव लाभे ‘अदो
जग्धिरि’ति ल्यब्ग्रहणमुक्तपरिभाषायां ज्ञापकम्, तेनाल्विधौ स्थानिवद्भावनिषेध-
ज्ञापने तु ल्यपि तादित्वाभावेन ‘अदो जग्धिरि’त्यस्याप्राप्त्या, ‘प्रजग्ध्ये’त्यत्र जग्ध्या-
देशार्थं ल्यब्ग्रहणमावश्यकमिति भावः ॥ १२५ ॥
द्वित्वभिन्न इति । द्वित्वे कर्तव्ये त्रैपादिकासिद्धत्वं नेति तु नार्थः, तथा सति