परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 354, कुल 373 में से
संदर्भ में पढ़ें३२४ परिभाषेन्दुशेखरः [ ३ प्रकरणे-
नन्वेवं संयोगसंज्ञासमाससंज्ञाऽभ्यस्तसंज्ञा अपि प्रत्येकं स्युरत आह—
क्वचित्समुदायेऽपि ॥ ११७ ॥
—: ॐ :—
‘गर्गाः शतं दण्ड्यन्ताम्, अर्थिनश्च राजानो हिरण्येन भवन्ती’त्यादौ
दण्डनवत् । लक्ष्यानुरोधेन च व्यवस्था ॥ ११७ ॥
ननु ‘यू स्त्र्याख्यावावि’त्यत्र व्यक्तिपक्षे दीर्घनिर्देशादनण्त्वेन ग्राहकसूत्रा-
प्राप्त्या उदात्ताद्यन्यतमोच्चारणेऽन्यस्वरकस्य संज्ञा न स्यादत आह—
अभेदका गुणाः ॥ ११८ ॥
—: ॐ :—
असति यत्ने स्वरूपेणोच्चारितो गुणो न भेदको न विवक्षित इत्यर्थः ।
अत्र च ‘अस्थिदधी’त्यादौ अनङादेरुदात्तस्यैव उच्चारणेन सिद्धे
उदात्तग्रहणं ज्ञापकम् ।
‘स्वरूपेणोच्चारित’ इत्युक्तेरनुदात्तादेरन्तोदात्तादिति उदात्तादिशब्दो-
च्चारणे विवक्षैव । ‘उञ्, ॐ’ इत्यत्राननुनासिके एवोच्चारणीये यत्नाधिक्येन
समुदायेऽपीति । अभ्यस्तसंज्ञायामुभेग्रहणात् द्वित्वम्, समाससंज्ञायां सहग्रहणात्
संयोगसंज्ञायामनन्तरेति पर्युदासाच्चानयोः साहित्यमुद्देश्यतावच्छेदकतया विवक्षित-
मिति न प्रत्येकं ताः संज्ञा इति भावः ।
अर्थिन इति । वाक्यशेषबोधितप्राधान्यवतः शतस्याप्रधानगर्गानुरोधेन न आवृत्ति-
रिति भावः । व्यवस्थेति । साहित्यस्य उपलक्षणत्वविशेषणत्वाभ्यामेतन्न्याययोर्व्यवस्थे-
त्यर्थः ॥ ११७ ॥
अन्यस्वरकस्येति । अनुनासिकादेरुपलक्षणमिदम् । संज्ञा न स्यादिति । विरूपत्वेन
‘स्वं रूपमि’त्यनेन ग्रहणासम्भवादिति भावः । परिभाषासत्त्वे तु गुणातिरिक्तवैरूप्यप्रयो-
जकधर्माभाववत एव ‘स्वं रूपमि’त्यनेन ग्रहणमिति बोध्यम् ।
स्वरूपेणेति । ‘असति यत्न’ इत्यस्यैवाव्युत्त्या अनुवादोऽयम् । ‘अनुदात्तादेरि’त्यत्र
अजादेरित्येवानुदात्तादेः सिद्ध्या तत्रानुदात्तादिपदस्यैव यत्नरूपत्वात् ।
ज्ञापकमिति । न च ज्ञापितेति तद्ध्यर्थम्, भाव्यमानत्वेनान्यगुणकस्य अप्राप्तेरिति
वाच्यम् ; भाव्यमान’परिभाषायाः स्वरत्वव्याप्यधर्मविषयेऽप्रवृत्तेः पूर्वमुपपादितत्वात् । अत
एव ‘बहुवचने झल्येदि’त्यनेन उदात्तादिगुणकेकारविधानसिद्धिरित्यन्यत्र विस्तरः ।
अनुनासिके एवोच्चारणीय इति । न च पथीयेतेः क्विपि ‘पन्था’ इत्यादौ
स्थानिनो निरनुनासिकस्यापि सम्भवादिदमसङ्गतमिति वाच्यम् ; तस्यानभिधानेन