परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
DevanagariHindipublished373 पृष्ठ
पृष्ठ 324, कुल 373 में से
संदर्भ में पढ़ेंपृष्ठ 324२९४ परिभाषेन्दुशेखरः [ ३ प्रकरणे-
समुच्चयेन विहितघटकान्यतरस्यापाये सम्भाविते तदुभयोरप्यनुत्पत्तिः कर्तव्येति
२९४ परिभाषेन्दुशेखरः [ ३ प्रकरणे-
छमात्रस्य लुग्बोधनद्वारा कुकोऽनिवृत्तिर्यथा स्यादित्यर्थम् । कृतकुगागमा
नडाद्यन्तर्गता बिल्वादय एव तत्र निर्दिष्टा बिल्वकादिशब्देन ।
समुच्चयेन विहितघटकान्यतरस्यापाये सम्भाविते तदुभयोरप्यनुत्पत्तिः कर्तव्येति
परिभाषार्थः । यथाश्रुतं तु न सम्यक् ; एकस्यापाये उभयस्याभावात् ।
वस्तुतः—एकसत्त्वे उभयाभावबुद्धावपि 'एकस्मिन्नष्टे उभयं नष्टमि'ति व्यव-
हारस्य लोके असत्त्वेन यथाश्रुतार्थेऽपि दोषविरहः ।
अत्र केचित्—इयं परिभाषा धर्मिग्राहकमानाल्लुग्विषया, तेन 'फौल्लिरि'त्यत्र
उकारनाशेऽपि न लत्वस्य निवृत्तिः । 'खेयमि'त्यत्र इकारनिवृत्तावपि क्यपो न निवृत्तिः ।
'तार्तीयीक' इत्यत्र सम्प्रसारणनाशेऽपि न प्रत्ययनाश इति वदन्ति । तन्न युक्तम् ;
'वातातीसाराभ्यामि'ति निष्पन्नवातकिशब्दादपत्येऽणि टिलोपे कुको निवृत्त्यभावापत्त्या
'वात' इति रूपासिद्धिप्रसङ्गात् । लुगितरत्र प्रवृत्तिस्वीकारादेव 'ऐनेय' इत्यत्रैतत्परि-
भाषाप्रयोजनकारनिवृत्त्यभावाय पूर्वस्य स्थितौ स्थानिवद्भावाश्रयणमाकरोक्तं
सङ्गच्छते । अस्याः परिभाषायाश्चान्यतरस्य प्रधानस्य निवृत्तौ तदितरस्याप्रधानस्य
निवृत्तिरित्यर्थ आश्रीगते, तेन 'फौल्लिरि'त्यत्र निष्ठादेशप्रकरणे लत्वस्यैव प्राधान्या-
दुत्वस्याप्रधानत्वेन तन्निवृत्तावपि न लत्वनिवृत्तिः । एवमन्यत्र प्रत्ययविधानप्रकरणेन
इत्व-सम्प्रसारणयोरप्राधान्यात् न तन्निवृत्तावनया प्रत्ययनिवृत्त्यापत्तिः । एवम् 'ऐनेय'
इत्यत्र च ङीप एव प्राधान्यात्तन्निवृत्तौ प्राप्तनकारनिवृत्त्यभावार्थं स्थानिवत्त्वमप्या-
वश्यकमिति दिक् ।
केचित्तु—'अचः परस्मि'ति सूत्रे भावसाधनविधिशब्दान्त-पूर्वविधिशब्दे-
ऽप्यविशेषात् पञ्चमीसमासाश्रयणेन 'फौल्लिरि'त्यादावपि पूर्वत्वेन दृष्टात् फकारादेः
परस्थ लकारादेः स्थितौ कर्तव्यायां स्थानिवद्भावेन अन्यतरापायाभावेन लकारादे-
र्निवृत्तिः सुलभा । न च पञ्चमीसमासपक्षेऽव्यवहितपरस्यैव ग्रहणम्, अत एव
'हे गौरि'त्यत्र सुलोपो नेति प्रकृते तदसम्भव इति वाच्यम् ; 'हे गौरि'त्यत्र पञ्चमी-
समासप्रयुक्तस्थानिवद्भावस्य अनित्यत्वेनाप्रवृत्तावपि इष्टप्रयोगे तदप्रवृत्तकल्पने
मानाभावादिति वदन्ति ।
यथा स्यादिति । एतत्परिभाषाभावे च कुको निवृत्तेरप्राप्तौ तद्वैयर्थ्यं स्पष्ट-
मेवेति भावः । कृतकुगागमा इति । व्याख्यानादिति भावः, तेन कप्रत्ययान्तबिल्वक-
सम्भावित इति । अन्यथा 'पञ्चभिरेनीभिः क्रीत, पञ्चैत' इत्यत्र नकारापायेऽपि
तकारश्रवणं न स्यात् ; 'देवदत्तहन्तृहत'न्यायेन । स्थानिनिवृत्त्याऽऽदेशस्थित्योरित्यर्थ उभयो-
रित्यस्य इति—परे ।
रूपासिद्धिप्रसङ्गादिति । ननु इष्टापत्तिरेवेति चेदाह—लुगितरेत्रेति ।
इति दिगिति । नन्वेवमन्यतरस्य अप्रधानत्वेऽन्वाचयशिष्टत्वं स्यात्, न तु समुच्चयं-
शिष्टत्वमित्यस्वरस इति समाधानान्तरमाह—केचित्त्विति ।
व्याख्यानादितीति । 'बिल्वकादिभ्यः' इति गणेन निर्देशसामर्थ्यादित्यर्थः । नहि