परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 321, कुल 373 में से
संदर्भ में पढ़ें८६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९१
सिद्धत्वेऽपि वस्तुतस्तद्विघातस्य जायमानत्वेनैतत्प्रवृत्तेः । किञ्च अन्तरङ्गे
कर्तव्ये बहिरङ्गस्यासिद्धत्वेऽपि तत्र कृते तस्यासिद्धत्वे मानाभावः । किञ्च
आतिदेशिकसन्निपातविघाताभावमादाय एतत्प्रवृत्तौ ‘गौरी’त्यादौ सम्बुद्धि-
लोपेऽपि स्थानिवत्त्वेन ह्रस्वनिमित्तसन्निपातविघाताभावात् तत्रैतस्य अति-
व्याप्तिपर-‘कृन्मेजन्त’-इतिसूत्रस्थभाष्यासङ्गतिः । सन्निपातस्य अशास्त्रीयत्वा-
त्रात्र स्थानिवत्त्वमिति चेत् ; तर्ह्यत्रासिद्धत्वमपि कथमिति विभावय,
अशास्त्रीयेऽसिद्धत्वाप्रवृत्तेः, ‘ईदूदेदि’ति सूत्रे कैयटेन स्पष्टमुक्तत्वात् । एवञ्च
पूर्वत्रासिद्धीयेऽपि कार्ये एतत्परिभाषाप्रवृत्तिर्भवत्येवेति चेन्न । ‘कष्टाये’ति
निर्देशेनैतस्या अनित्यत्वात् ।
ययोः सन्निपातस्य विघातकं शास्त्रं तयोः सन्निपातनिमित्तकविधौ
उपादानमपेक्षितमिति तु नाऽऽग्रहः । अत एव ‘दाक्षिरि’त्यत्र अकारान्त-
प्रकृतीन् सन्निपातनिमित्ताङ्गसंज्ञाऽनया परिभाषयाऽल्लोपस्य निमित्तं न
स्यादित्याशङ्क्य अनित्यत्वेन समाहितं ‘कृन्मेजन्त’ इति सूत्रे भाष्ये—‘‘न-
हाङ्गसंज्ञायामदन्तस्याङ्गसंज्ञे’’त्युक्तमस्ति ।
न च ‘कुम्भकारेभ्य, आधय’ इत्यादौ अव्ययसंज्ञाया अनया परिभाषया
वारणपरभाष्यासङ्गतिः, अनया परिभाषया लुङ्मा भूत्, अव्ययत्वं तु स्या-
देव, लुका हि तदीयसन्निपातस्य विघातो नाव्ययसंज्ञया, संज्ञाफलं त्वकच्
स्यादिति वाच्यम् ; एतदुदाहरणपरभाष्यप्रामाण्येन साक्षात्परम्परया वा
वस्तुतस्तद्विघातेति । ननु शास्त्रप्रवृत्तौ च तद्बुद्धिरेव नियामिका, न तु
वास्तविकी तत्सत्ता ; अन्यथा ‘हर+एही’त्यत्र यलोपस्यासिद्धत्वेऽपि वृद्धिर्दुर्वारैत्य-
रुचेराह—किञ्चेति । ननु ‘डेर्य’ इत्यस्य प्रवृत्तेः प्रागेवाऽभ्यनुज्ञाकाले ‘मत्सन्निपात-
विघातकः क’ इति जिज्ञासायां ‘सुपि चे’त्यस्योपस्थित्या तस्य बहिरङ्गत्वमिति न
तत्कृतं विघातं पश्येदित्यरुचेराह—किञ्चेति । अशास्त्रीयत्वादिति । वस्तुतः—अत्र
प्रत्ययसत्ताबोधनमेव आवश्यकम्, सन्निपातस्त्वार्थसमाजग्रस्त एवेति चिन्त्यमेत-
दिति केचित् ।
समाहितमिति । यद्यपीदं भाष्यमेकदेशि ; तथाप्यत्रांशे मानं भवत्येवेति
बोध्यम् ।
परम्परयेति । लुग्द्वारा एत्वनिमित्तविभक्तिनाशादित्यर्थः । नन्वेवं ‘सत्यूखतुः’
इत्यत्र सवर्णदीर्घानापत्तिः, लिड्विघातक-लुक्प्रयोजका-ऽम्सम्पादकगुरुमत्वसम्पादक-
त्वेन दीर्घस्य परम्परया द्वित्वोपजीव्यलिड्विघातकत्वादिति चेन्न । विधिद्वया-
घटितपरम्पराया एव ग्रहणेनादोषात् । अत्र-चैतद्भाष्यमेव मानम् ।