सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 314, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 314

१८४ परिभाषेन्दुशेखरः [ ३ प्रकरणे-
सन्निपातः = द्वयोः सम्बन्धस्तन्निमित्तो विधिस्तं सन्निपातं यो
विहन्ति तस्यानिमित्तम् ।
उपजीव्यविरोधस्यायुक्तत्वमिति ।
उपजीव्येति । तथा च 'उपादास्ते'त्यत्र एज्विषयत्वमुपजीव्य जायमानात्त्वस्य
घुसंज्ञाद्वारा स्वोपजीव्यैज्विषयत्वविघातकं 'स्थाध्वोरि'त्येतद्विहित-सिज्धर्मिकत्त्वं
प्रति निमित्तत्वे उपजीव्यविरोधः स्पष्ट एवेति तदप्रवृत्तिरिति भावः । एवं 'शतानी'-
त्यत्रापि बोध्यम् । न च उपादास्ते'त्यत्र अनया आत्त्वोपजीव्यविघातककित्त्वस्याप्रवृत्ता-
वपि इत्त्वस्याप्रवृत्तौ मानाभाव इति वाच्यम् ; 'सन्नियोगशिष्टानामि'त्युत्तरपरिभाषया
प्रधानीभूतकित्त्वस्याप्रवृत्त्या तत्सन्नियोगशिष्टेत्त्वस्य अप्रवृत्तिरित्याशयात् ।
इदमत्रावधेयम्—'इको यणची'त्यादिविधिशास्त्रैः तादृशस्वविधेयघटितस्य
साधुत्वमितरस्य तदर्थकस्यासाधुत्वं बोध्यते, तेनैक्यरूपेण 'सुधी+उपास्य, सुध्यु-
पास्ये'त्यादीनामसाधुत्वं सिद्ध्यति । एवं गोशब्दस्य साधुत्वबोधनाद् गाव्यादीना-
मसाधुत्वं भवति । तथा च परिनिष्ठितस्यापि 'सुद्ध्युपास्यः' इति विसर्गान्तस्य
उपजीव्येतीति । उपजीवयतीति उपजीव्यः, ण्यन्तात् कर्तरि बाहुलकात् यत् ; येन
स्वस्योपकृतं तस्य विरोधोऽन्याय्य इति भावः ।
ननु परिभाषायां सन्निपातलक्षणविधेः तद्विघातकशास्त्रं प्रति अनिमित्तत्वबोधनेऽपि
स्वीयोद्देश्यतावच्छेदकाक्रान्ततया सन्निपातविघातकशास्त्रस्य प्रवृत्तिर्वारयितुमशक्या, विधेये तत्सं-
सर्गे वा स्वीयोद्देश्यतावच्छेदकव्यापकत्वस्य भाननियमात् ; अतस्तत्तात्पर्यं स्फोटयन्नाह – इद-
मत्रावधेयमिति । अयम्भावः—परिभाषायां यदि तद्विघातशब्दो भावव्युत्पन्नः, विधिशब्दश्च कर्म-
क्तिप्रत्ययान्तो विधेयपरः ; तदा सन्निपातविघातकशास्त्रीयविधेये सङ्कोचो भवति । येन स्वस्यो-
पकृतं तस्य विघातोऽयुक्त इति हि धर्मशास्त्रम्, तद्रीत्याऽयं सङ्कोचः । अमुमेव पक्षं "यदि तु
लाघवात् भावव्युत्पन्न" इत्यादिना ग्रन्थेन व्याख्याकारो वक्ष्यति । यथा केनचित् अधिकारिणा
राजपुरोहितेन राजसभायां प्रवेशितः कश्चित् तदतिशायिपाण्डित्यवानपि धर्मशास्त्रज्ञः तद्विघातो
मा भूदिति तद्विरोधं परिहरन्नेव व्यवहरति, तथा पूर्वप्रवृत्तशास्त्रेण साधुत्वार्थमभ्यनुज्ञातमपि
शास्त्रं पूर्वशास्त्रीयस्वोपजीव्यनिमित्तसन्निपातविघातमकुर्वदेव तत्र तन्न प्रवर्तते । यदि तु
परिभाषायां तद्विघातपदे कर्मण्यण्, विधिपदञ्च करणक्तिप्रत्ययेन शास्त्रपरम्, तदा सन्निपातलक्षण-
शास्त्रीयाभ्यनुज्ञादानवाक्ये एव सङ्कोचः । अयमेव नीतिशास्त्रप्रयुक्तः सङ्कोचः कथ्यते ।
नीतिशास्त्रज्ञो हि राज्याधिकारी स्वापेक्षया गुणवत्तरं विद्वांसं न प्रवेशयि'यति स्वोन्मूलनभिया
इति भावः । तत्रादौ तत्तच्छास्त्रैश्च स्वोत्तरप्रवृत्तिमच्छास्त्रस्य अभ्यनुज्ञानमपि विधीयते इत्यत्र
प्रमाणमाह—इको यणचीत्यादिविधीत्यादि ।
विसर्गान्तस्य असाधुत्वापत्तिरिति । ननु "साधुत्वानुशासनेऽस्मिन् शास्त्रे" इति भाष्य-
प्रामाण्येन शास्त्रैः साधुत्वमेव विधीयताम्, तथा सति न तस्यासाधुत्वापत्तिरिति चेन्न । लुग्विधायक-
शास्त्रे बोधितसाधुत्वस्यापि 'सुधी+उपास्यः' इत्यस्य साधुत्वापत्त्या याज्ञे कर्मणि प्रयोगापत्तेः ।