परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 312, कुल 373 में से
संदर्भ में पढ़ें२८२ परिभाषेन्दुशेखरः [ ३ प्रकरणे-
क्वचित्स्वाथिकाः प्रकृतिताे लिङ्गवचनान्यतिवर्तन्ते ॥ ८४ ॥
—: ❖ :—
‘णचः स्त्रियाम्’ इति सूत्रे स्त्रियामित्युक्तिरस्या ज्ञापिका ; अन्यथा
‘कर्मव्यतिहारे णच् स्त्रियाम्’ इति स्त्रियामेव विधानात् किं तेन । स्पष्टा
चेयं बहुज्विधायके भाष्ये ॥ ८४ ॥
ननु ‘सुपथी नगरी’ ति ‘युवोरनाकावि’ति सूत्राभाव्योदाहृत ‘इनः
स्त्रियामि’ति कप् स्यादत आह—
समासान्तविधिरनित्यः ॥ ८५ ॥
—: ❖ :—
‘प्रतेरंशवादयस्तत्पुरुषे’ इत्यन्तोदात्ततायांश्वादिषु राजञ्शब्दपाठो-
ऽस्या ज्ञापकः ; अन्यथा टचैवान्तोदात्तत्वे सिद्धे किं तेन ।
प्रकृतित इति । षष्ठ्यन्ताद्दाद्यादित्वात्तसिः । स्वार्थिकानां प्रकृत्यर्थबोधकत्वेन
प्रत्ययत्वात् प्रकृत्यर्थलिङ्गसंख्याबोधकत्वस्य न्याय्यतया सर्वत्र स्वार्थिकत्वेन तद्द्वा-
नस्याऽऽवश्यकत्वेऽपि तयोरर्थयोः खण्डशक्तिस्वीकारेण सति गमके एतत्त्यागाल्लोक-
सिद्धत्वाच्च तत्तल्लिङ्गभानमित्यत उक्तम्—क्वचिदिति । न च स्वार्थिकानां प्रकृत्यर्थे-
तरार्थबोधकत्वेन कथमेकार्थीभावसम्भव इति वाच्यम् ; स्वार्थिकानां प्रमेयत्वा-
वच्छिन्नबोधकत्वस्य कल्पनेन तेन सह प्रकृत्यर्थनामभेदान्वयस्वीकारेण तत्त्वस्य
सुवचत्वात्, शब्दस्यापि शाब्दबोधे भानन्नैत्येन तत्तत्प्रत्ययरूपार्थस्य प्रकृत्यर्थेतरत्वेन
एकार्थीभावस्य सूपपादत्वात्, क्विबन्तलिडादिशब्देषु अनेकपदघटितत्वाभावेऽपि
एकार्थीभावोपपत्तये स्ववृत्तित्व-स्वपर्याप्तशक्तिक्ज्ञानप्रयोज्यज्ञानविषयत्वोभयसम्बन्धेन
पदविशिष्टशक्तिपर्याप्त्यधिकरणत्वरूपैकार्थीभावस्य अभ्युपेयतया स्वार्थिकप्रत्ययान्तेषु
तत्सत्त्वेन अदोषश्चेति दिक् ।
ज्ञापकमाह—णच इति । बहुज्विधायके इति । तत्रत्येन तुशब्देनैव अयमर्थो
भाष्ये निरूपित इति बोध्यम् ॥ ८४ ॥
टचैवेति । ननु ‘प्रतेरंशवादय’ इत्यस्य ‘प्रतेः परीभूतास्तत्पुरुषघटका अन्तो-
दात्ता’ इत्यर्थात् टिलोपोत्तरमवशिष्टस्य जान्तभागस्य ‘एकदेशविकृत’न्यायेन राजन्-
शब्दत्वेन सतिशिष्टतया रेफाकारस्योदात्तविधानाय सार्थक्यात् कथं वैयर्थ्यमिति
वाच्यम् ; ‘प्रतेः पराश्वाद्युत्तरपदकस्य तत्पुरुषस्यान्त उदात्तः’ इति तदर्थेन उक्तरेफा-
कारस्य स्वरप्राप्त्यभावात् । टचो नित्यत्वे तु प्रतिराजशब्दे चित्त्वादेवान्तोदात्तत्व-
सिद्धेस्तद्वैयर्थ्यस्य सूपपादत्वात् । नागेशनये अक्तपरिमाणत्वेन राजन्शब्दत्वस्य
जान्ते तेन न्यायेनातिदेशासम्भवाच्च ।
३६