परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
DevanagariHindipublished373 पृष्ठ
पृष्ठ 282, कुल 373 में से
संदर्भ में पढ़ेंपृष्ठ 282
२५२ परिभाषेन्दुशेखरः [ २ प्रकरणे-
कैयटेन पाठात् । अत एव ‘रमे’ इत्यादौ प्रतिपदोक्तत्वात्पूर्वमेत्वे आकार-
प्रश्लेषाद्धल्ङ्यादिलोपो न प्राप्नोतीत्याशङ्क्य, ‘एङ्ह्रस्वादि’ति लोपेन
समाहितम् ॥ ६५ ॥
ननु 'अयजे इन्द्रमि'त्यादौ अन्तरङ्गस्यापि गुणास्यापवादेन सवर्ण-
दीर्घेण बाधः स्यादत आह—
अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते ॥ ६६ ॥
— ❀ —
निरवकाशत्वरूपस्य बाधकत्वबीजस्याभावात् । एवञ्च प्रकृतेऽन्त-
रङ्गेण गुणेन सवर्णदीर्घः समानाश्रये चरितार्थो यण्-गुणयोरपवादोऽपि
वाच्यम् ; ‘द्विमूर्ध’ इत्यादौ षजन्तात्कबभावार्थं तस्याऽऽवश्यकत्वात् । अत एवेति ।
पराद्यपेक्षया बलवत्त्वादेवेत्यर्थः ॥ ६५ ॥
बाधकत्वबीजस्याभावादिति