सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 276, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 276

२४६ | परिभाषेन्दुशेखरः | [२ प्रकरणे-
तत्र कार्येणेत्यर्थे पररूपत्वावच्छिन्ने कार्ये आरभ्यमाणाया वृद्धेस्तद्-
बाधकत्वे निर्णीते किं शास्त्रविहितस्यैव तद्विशेषचिन्तायामाह—
पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान् ॥ ६० ॥
—: ❀ :—
अवश्यं स्वपरस्मिन् बाधनीये प्रथमोपस्थितानन्तरबाधेन चारितार्थ्ये
पश्चादुपस्थितस्य ततः परस्य बाधे मानाभाव आकाङ्क्षाया निवृत्ते-
र्विप्रतिषेधशास्त्रबाधे मानाभावाच्चेत्येतस्य बीजम् ॥ ६० ॥
'नासिकोदरोष्ठजङ्घादन्ते'त्यस्य औष्ठाद्यंशे दोषन्निषेधत्वावच्छिन्नबाध-
कत्वे निर्णीते किं विहितस्येत्याकाङ्क्षायामाह—
मध्येऽपवादाः पूर्वान्विधीन् बाधन्ते नोत्तरान् ॥ ६१ ॥
—: ❀ :—
तेन औष्ठादिषु पञ्चसु 'असंयोगोपधादि'ति प्रतिषेध एव बाध्यते, न
तु सहनञ्विद्यमानलक्षण इति 'नासिकोदरे'त्यत्र भाष्ये स्पष्टम् ।
पूर्वोपस्थितबाधेन नैराकाङ्क्ष्यमस्या बीजम् ॥ ६१ ॥
ननु 'वा छन्दसी'त्यनेन 'सेर्ह्यपिच्चे'त्यनन्तरस्यापित्त्वस्येव हेरपि
विकल्पः स्यात्, तथा 'नेटी'ति निषेधोऽनन्तरहलन्तलक्षणाया इव सिचि-
बाध्यसामान्यचिन्तायामनुगतं बाध्यत्वे बीजमुपपाद्य बाध्यविशेषचिन्ताया-
मनुगतं बीजमुपवर्णयितुं तावदाह—पुरस्तादिति । अनन्तरान् = बाध्यव्यवधानशून्यान् ।
स्वपरस्मिन्निति । अत्र स्वेत्यधिकम् ॥ ६० ॥
असंयोगोपधादिति प्रतिषेध इति । प्रसज्यप्रतिषेध एवायम्, न तु पर्युदास इति
भाष्यस्वरसः । एवम् 'ऋष्यन्धके'त्यण् इञ एवापवादो न तु ढकः । अत एव
'आत्रेय' इत्यत्र परत्वाड् ढक्सिद्धिरिति दिक् ॥ ६१ ॥
हेरपि विकल्प इति । न च सेर्हिडित्येव सिद्धेऽपिद्ग्रहणात् तावत एवोत्तरत्र
अनुवृत्त्याऽपित्त्वस्यैव विकल्पो न हेरिति वाच्यम्; सिपोऽनुदात्तत्वेनान्तरतम्याद्
ध्यादेशस्यानुदात्तत्वापत्तेः, तद्वारणाय अपित्त्वविधानस्याऽऽवश्यकत्वेन तावन्मात्रस्य
अस्याः परिभाषाया विप्रतिषेधशास्त्रबाधे मानाभावादिति मूलकृदुक्तं बीजं वस्तुत उत्तर
परिभाषाया अस्ति, उत्तरपरिभाषायाश्च बीजं पूर्वोपस्थित बाधे नैराकाङ्क्ष्य रूपमवगन्तव्यमिति-
अस्मद्गुरुचरणाः । तथा मूलपाठस्तु प्रामादिक इति बोध्यम् ॥ ६० ॥