परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 271, कुल 373 में से
संदर्भ में पढ़ें५८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २४१
एवमत्र तत्प्रवृत्त्युत्तरं चारितार्थ्येऽपि तद्व्याप्तोऽवकाशो नास्तीति
सममेव ।
किञ्चानेन न्यायेन तत्प्रवृत्त्युत्तरमपि चारितार्थ्ये तद्बाधबोधनम् ;
अन्यथाऽनवकाशत्वेनैव बाधे सिद्धे एतत्कथनवैयर्थ्यापत्तेस्तक्रकौण्डिन्यन्याय-
प्रदर्शनस्यापि वैयर्थ्यापत्तेश्च । तथा प्रथमद्विर्वचनस्य तदुत्तरं सावकाशेनापि
द्वितीयद्विर्वचनेन बाधः । यथा वाऽऽदेरपि प्रवृत्त्या चरितार्थेन 'आदेः
परस्ये'त्यनेन 'अलोऽन्त्यस्ये'त्यस्य बाधः ।
तदुक्तम् 'मिदचोऽन्त्यादि'ति सूत्रे भाष्ये—"सत्यपि सम्भवे बाधनं
भवती"ति । अन्यथा 'ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याये'त्यत्र तक्र-
दानेन दधिदानस्य बाधो न स्यात्तद्दानोत्तरं तत्पूर्वं वा तद्दानस्य चारितार्थ्य-
सम्भवात् ।
अत एव विषयभेदेऽप्यपवादत्वम् ।
ननु शबादिप्रवृत्त्युत्तरमायादीनां चारितार्थ्येन अनवकाशत्वप्रदर्शनमयुक्तमत
आह—एवमिति । यथा सति शप्यसति वा विशेषाभावेऽपि तदप्राप्तिमात्रेण आया-
दीनामनवकाशत्वम्, एवं तत्प्रवृत्त्युत्तरं चारितार्थ्येऽपि तदप्राप्तियोग्येऽचारितार्थ्यं
निर्बाधमेवेति तस्य प्रथमबाधबीजेन बाधकत्वं सुवचमिति भावः ।
द्वितीयबाधबीजं निरूपयति—किञ्चेति । एतत्फलमाह—यथा प्रथमेति । इदं
चानभ्यासग्रहणं प्रत्याचक्षाणस्य भगवतो भाष्यकारस्य मतेन बोध्यम् ।
वस्तुतः—अस्त्वत्र प्रथमबाधबीजेनैव निर्वाह इत्युक्तं प्राक् ; इत एव वाऽरुचे-
राह—यथा वेति । अप्रधानानुरोधेन प्रधानवृत्तेरसत्त्वेन 'उदः स्था'त्यादौ पूर्वं 'अलो-
न्त्यस्ये'त्यस्य प्रवृत्तौ आकाङ्क्षायाः शान्तत्वेन 'आदेः परस्ये'त्यनेन सहैकवाक्यतया
पुनरन्वयबोधासम्भवेन कृते चारितार्थ्यस्य दुर्निरूपत्वादत्रापि निरवकाशत्वादेव बाध
उचित इतीदमप्युदाहरणं चिन्त्यमेव ।
मिदचोऽन्त्यादिति सूत्रे भाष्य इति । तत्र हि 'पयांसि, यशांसी'त्यादौ
लक्षणनुमागमस्य अन्त्याज्वधिकपरत्वाऽन्त्यव्यञ्जननिवर्तकत्वयोर्युगपद्येन सम्भवान्निर-
वकाशत्वरूपविरोधहेत्वभावेन अन्त्याचः परत्वेन स्थाने योगत्वस्य बाधो न स्यादि-
त्याशङ्क्य, "नैवेश्वर आज्ञापयति, नापि धर्मसूत्रकाराः पठन्ति, अपवादैरुत्सर्गा
बाध्यन्तामिति । किं तर्हि ? लौकिकोऽयं दृष्टान्तः, सत्यपि सम्भवे बाधनं भवतीति ।
तद्यथा सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति सत्यपि सम्भवे तक्रदानं
दधिदानस्य निवर्तकं भवती"त्युक्तम् ।
अत एवेति । विषयभेदेऽपि प्रकृतन्यायप्रदर्शनपर-'मिदचोऽन्त्यादि'सूत्रस्थ-
भाष्यप्रामाण्यादेवेत्यर्थः । न चैवं विषयभेदेऽपि बाधकत्वस्वीकारे दधिदानेन
कम्बलदानबाधापत्तिः, सुटा यासुटो बाधापत्तिश्चेति वाच्यम्; सजातीयबाध-
कत्वस्यैव लोकव्यवहारेण कल्पनात् कम्बलस्य दधिसजातीयत्वाभावेन बाधायोगात्
३१