परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 263, कुल 373 में से
संदर्भ में पढ़ें५८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २३३
येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति ॥ ५८ ॥
—: ❖ :—
प्राप्त इति भावेक्तः, ‘येन नाप्राप्त’ इत्यस्य यत्कर्तृकावश्यप्राप्तावित्यर्थः,
नञ्द्वयस्य प्रकृतार्थदार्ढ्यबोधकत्वात् । एवञ्च विशेषशास्त्रोद्देश्यविशेषधर्मा-
वच्छिन्नवृत्तिसामान्यधर्मविच्छिन्नोद्देश्यकशास्त्रस्य विशेषशास्त्रेण बाधः ।
नशब्दस्य ‘अप्राप्त’ इत्यनेन ‘सुप्सुपे’ति समासः । नञो नलोपाभावः पृषोदरा-
दित्वाद्वा बोध्यः ।
अवश्यप्राप्ताविति । न चात्र ‘लम्पेदवश्यमः कृत्य’ इत्यस्याप्राप्त्या कथं मलोप
इति वाच्यम् ; अवश्यमिति मान्ताव्ययसमानार्थकावश्यशब्देनात्र समासेना-
दोषात् । अत एव आवश्यकाऽधमर्ण्ययोरि’ति सौत्रनिर्देशसङ्गतिः ; अन्यथाऽवश्यं-
शब्दस्य योपधत्वाभावेन वुञोऽप्राप्त्या तदसङ्गतिः स्पष्टैव ।
विशेषशास्त्रेति । विशेषशास्त्रोद्देश्यो यो विशेषधर्मविच्छिन्नः, तद्वृत्तिर्यः
सामान्यधर्मस्तदवच्छिन्नोद्देश्यताकशास्त्रस्य, विशेषशास्त्रेण = विशेषधर्मविच्छिन्नोद्देश्य-
ताकशास्त्रेण बाध इत्यर्थः । सामान्यत्वं व्यापकत्वम् । विशेषत्वं व्याप्यत्वम् ।
ननु सामान्यधर्मे विशेषशास्त्रोद्देश्यविशेषधर्मविच्छिन्नवृत्तित्वरूपं विशेषणं व्यर्थम्,
सामान्यधर्मे विशेषशास्त्रोद्देश्यविशेषधर्मविच्छिन्नवृत्तित्वासत्त्वे तस्य सामान्यत्वा-
सम्भवादिति चेन्न । उद्देश्यतावच्छेदकतावच्छेदकसम्बन्ध एव व्यापकतावच्छेदको
ग्राह्य इति भ्रमवारणायात्र तत्सार्थक्यात् । अत एव प्रथमैकाच्त्व-द्वितीयैकाच्त्वयो-
रुक्तसम्बन्धे सामानाधिकरण्याभावेऽपि स्वाश्रयोत्तरत्वादिन समानाधि-
करण्यमादाय व्याप्यव्यापकभावात् ‘एकाचो द्वे’ इत्यस्य ‘अजादेर्द्वितीयस्ये’त्यनेन
बाधः सिद्ध्यति ।
नन्वत्र साक्षादुद्देश्यतावच्छेदकधर्मयोर्व्याप्यव्यापकभावो बाधप्रयोजक उत
साक्षात्परम्परासाधारण्येन उद्देश्यतावच्छेदकयोः ? नाऽद्यः ; ‘‘नेमो रहौ कार्यिणौ
निपातं स्वीकृत्य नियामकत्वकल्पनापेक्षया विधित्वस्यैव न्याय्यत्वात् । किञ्च ‘अभावे न ह्यनो
नापि’ इति कोशप्रामाण्येन निषेधार्थकनाशब्देन अप्राप्तिपदस्य समासः । ‘नैकधे’त्यादावप्येव-
मेवोपपत्तिः । एवञ्च पृषोदरादित्वकल्पनमपि व्यर्थमेवेति बोध्यम् ।
मूले—नञ्द्वयस्येति । मूलस्यास्य नञ्द्वयार्थकस्येत्यर्थः, तेन एकस्य नञोऽपरस्य
नाशब्दस्य चेति यावत् । यथाश्रुतानुरोधेन तु व्याख्याकृता तथा व्याख्यातम् ।
भ्रमवारणायेति । अन्यथा उद्देश्यतावच्छेदकावच्छेदकसम्बन्धेनेत्युपादीयेत । सम्बन्धा-
नुल्लेखपूर्वकं तादृशविशेषणमात्रोपादानेन कालिकातिरिक्तेन येन केनापि सम्बन्धेन वृत्तिता विवक्षि-
तेति तात्पर्यं सूचितमिति भावः ।
३०