परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 261, कुल 373 में से
संदर्भ में पढ़ें५६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २३१
पदसंस्कारपक्षे ‘हरिरि’त्यादौ विसर्गे कृते ततो गच्छतीत्यादिसम्बन्धे
‘हरिः गच्छती’त्याद्येव साधु । तद्विषये पदसंस्कारपक्षानाश्रयणं वेति
दिक् ।। ५६ ।।
प्राचीनोक्तं परिभाषाफलमन्यथयति—पदसंस्कारेति । ननु ‘विसर्जनीयस्य स’
इति सूत्रस्थभाष्यप्रामाण्येनात्र पदसंस्कारपक्षाश्रयणमशक्यम् । तत्र हि ‘खरी’त्यस्यानु-
वृत्त्यभावेऽपि खर्येव विसर्गं इति प्रतिपादनाय “खरवसानयोर्विसर्गं विधाय तस्यानेन
सत्वविधानादन्यतरस्मिन् सत्वम्, यदि च खरवसानयोरुभयोरपि सत्वं स्यात्तर्हि
विसर्गविधानं व्यर्थं स्यादित्युपक्रम्य ‘शर्परे विसर्जनीय इति ज्ञापकात्खर्येव ‘विसर्ज-
नीयस्य स’ इत्यस्य प्रवृत्तिः ; विध्यर्थे तु खरि विसर्जनीयस्य सिद्धतया पुनर्विधान-
मनर्थकं स्यादि’’त्युक्तम् । यद्यवसाननिमित्तकस्य विसर्जनीयस्य पदान्तरसमभि-
हारेण अवसानभङ्गसम्भावनायामपि विसर्जनीयस्य पूर्वं प्रवृत्तिः, प्रवृत्तस्य निमित्तविनाशे
निवृत्त्यभावस्तदा तादृशविसर्गघटिते ‘क.त्सरुरि’त्यादौ सत्वनिवृत्तये विसर्जनीय-
विधानेन सार्थकस्र्य शर्परे इत्यस्य भाष्यकारोक्ता ज्ञापकता भज्येत । तस्मादिह
विसर्जनीयरहितस्य ‘हरिर्गच्छती’त्यादेरेव साधुत्वम्, तच्च परिभाषैकसाध्यमित्यवश्यं
पदसंस्कारेऽपि सा स्वीकार्या परिभाषेत्यरुचेराह—तद्विषयेति ।
अनाश्रयणमिति । तथा चोक्तपक्षयोर्व्यवस्थिततया ‘सेदुष’ इत्यत्र पदसंस्कारपक्षाश्र-
यणमुक्तस्थले वाक्यसंस्कारपक्षाश्रयणमिति सर्वेष्टसिद्ध्या उक्तपरिभाषाश्रयणं निष्फलमिति
भावः । ‘हरिः ओमि’त्यत्र तु वैदिकसम्प्रदाय एव शरणम् । ‘वागाशीर्दत्तो वात्रिक’ इत्यादौ
तु सपादसप्ताध्यायीस्थकार्यप्रवृत्तियोग्यतायां त्रैपादिकस्य पूर्वमप्रवृत्त्या कुत्वाद्यभावः ।
‘वृक्षो वृक्षः सिच्यत’ इत्यत्र वृक्षस् इति सान्तस्यैव द्वित्वम्, न तु विसर्गान्तस्य ।
पूर्वत्रासिद्धमद्वित्व इति त्वनित्यम्, तेन विसर्गात्प्राक् द्वित्वेन रुत्वेन रुत्वादिसिद्धेर्न
तदप्युक्तपरिभाषाफलम् । एवं ‘ष्ठा गतिनिवृत्तावि’त्यत्र सूत्रे ष्टुत्वेऽपि ‘त्रेस्त्रय’
इत्यादौ त्रिशब्दवत् ष्ठा’ इत्यस्यैव नकारादावित्यभियुक्तोक्त्या बोधकत्वावगमेन
‘स्थानमि’त्यादिलक्ष्येषु न टवर्गश्रवणमित्येवं सर्वत्र उक्तपरिभाषासाध्य-फलाना-
मन्यथासिद्धयैषा निष्फलेति—नागेशानुयायिनः ।
वस्तुतस्तु—अन्तरङ्गानपीत्याद्यनेकवचनकल्पनापेक्षयाऽनुगतैतत्परिभाषारूपवचन-
अनर्थकं स्यादिति । न च ‘कुप्वोः कᳵ पौ च’ इति साधनार्थं भविष्यतीति वाच्यम् ;
तावन्मात्रप्रयोजनकत्वे ‘कुप्वोः कᳵ पौ च इत्यत्र ‘अशरी’त्येव ब्रूयादिति भावः ।
नागेशानुयायिन इति । अत्रेदं विचारणीयम्—दीक्षितेन निमित्तं विनाशोन्मुख-
मित्याद्यर्थं स्वीकृत्य परिभाषात्रयस्यान्तर्भाविका एका परिभाषा स्वीकृतेति महल्लाघवम्,
कैयटेन च निमित्तापाय इत्याद्युक्त्वा जातनिवृत्तिरङ्गीकृतेति पूर्वापेक्षया गौरवम् । नागेशेन च
तदुभयमप्यस्वीकुर्वता तत्प्रत्याख्याय विभिन्नमेव परिभाषात्रयमङ्गीकृतमिति तस्य द्वितीयपक्षादपि
गौरवम् । तस्मात् मतत्रयेऽपि दीक्षितमतं युक्तितमम् । किञ्च नवीनमते प्रयोगानुपपत्तिश्चेत्या-
शयेनाह—वस्तुतस्त्विति ।