परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
DevanagariHindipublished373 पृष्ठ
पृष्ठ 259, कुल 373 में से
संदर्भ में पढ़ेंपृष्ठ 259
५६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २२९
'समर्थानाम्'ति सूत्रस्थसमर्थग्रहणन्तु 'विषुण' इत्यादौ अकृतसन्धेः
प्रत्ययदर्शनेन सर्वत्र तथा भ्रमवारणाय न्यायसिद्धार्थानुवाद एव ।
ध्वनितं चेदं विप्रतिषेधसूत्रे भाष्ये । तत्र हि 'वैक्षमाणिर्'त्यन्तरङ्ग-
परिभाषोदाहरणमुक्तम् । किञ्च विभज्यान्वाख्याने 'सु + उत्थित + अस्
- इ' इति स्थिते वार्णादाङ्गं बलीय इति प्राप्तवृद्धिवारणाय समर्थ-
ग्रहणमित्यत्रैव कैयटे स्पष्टम् ।
अत एव असिद्धवत्सूत्रे "वसुसम्प्रसारणमज्विधौ सिद्धं वक्तव्यं 'पपुष'
इत्यादौ वसोः सम्प्रसारणे कृते आतो लोपो यथा स्याद्"ति भाष्ये उक्तम् ।
पदस्य विभज्यान्वाख्याने पूर्वोक्तकैयटरीत्या पूर्वं सम्प्रसारणे इटोऽप्राप्तौ उस्-
निमित्तक एवाऽऽतो लोप इति तदाशयः ; अन्यथाऽन्तरङ्गत्वादिटि तन्नि-
मित्तक एवाऽऽतो लोप इति तदसङ्गतिः ।
अत एव 'चौ प्रत्यङ्गस्य प्रतिषेध' इति वचनं वार्तिककृताऽऽरब्धं
ननु उक्तपरिभाषाऽनभ्युपगमेऽन्तरङ्गत्वादेव कृतसन्धेस्तद्धितोत्पत्तौ समर्थवैयर्थ्य-
मित्यत आह—भ्रमवारणायेति ।
वैक्षमाणिरिति । सिद्धान्ते समर्थग्रहणेन तद्धितविधौ अकृतेति परिभाषाया अप्र-
वृत्तेरन्तरङ्गत्वादेव 'वैक्षमाणिर्'त्यत्र सवर्णदीर्घप्रवृत्तिर्युक्तेत्यरुचेराह—किञ्चेति ।
वार्णादाङ्गमिति परिभाषाया अकृतेति परिभाषारूपतया समर्थग्रहणसार्थक्यो-
पपादनं नास्माकं प्रतिकूलमित्यरुचेराह—अत एवेति । दीक्षितमते पूर्वमिटो-
ऽप्राप्त्या अजादित्वाभावेन आतो लोपाप्राप्तिरिति वसुसम्प्रसारणमित्यस्य आवश्यकतया न
भाष्यविरोधः ।
वस्तुतः—कैयटमतेऽपि अन्तरङ्गत्वाज्जातस्येटो निमित्तापाय इति परिभाषया
सम्प्रसारणोत्तरं निवृत्त्या इड्निमित्तकातो लोपाप्राप्त्या उस्निमित्तक एव तल्लोपो
वाच्यः, तस्यासिद्धत्वेन लोपाप्राप्त्या वार्तिकावश्यकत्वेन न भाष्यासङ्गतिरित्यरुचेराह—
अत एव चौ प्रत्यङ्गस्येति ।
मूले—सु+उत्थित+अस्+इ इति स्थित इति । अत्र 'अस्+इति स्थिते'
इति पाठस्तु प्रामादिकः, यतः पदसंस्कारपक्षेऽपि अस्प्रत्ययेनैव पदत्वसिद्धौ तद्धितोत्पत्तिपर्यन्त-
मनुधावनवैयर्थ्यात्, तत्पर्यन्तं दीर्घाप्राप्तौ मानाभावाच्च । किञ्चैवं पाठे पदसंस्कारपक्षोऽत्रेति
पदत्वाय इस् इत्यपि वक्तुमुचितम् । न चैवं 'प्राप्तवृद्धिवारणाय' इत्युत्तरग्रन्थासङ्गतिरिति वाच्यम् ;
'अध्यैयाताम्' इत्येतत्सिद्धयर्थं 'वार्णादाङ्गम्'त्यस्य अङ्गशास्त्रप्रवृत्तिसम्भावनायां वार्णशास्त्रं न
प्रवर्त्तत इत्यर्थस्य प्राचीनैरङ्गीकृतत्वेनादोषात् । अस्ति चात्र यदि दीर्घो न स्यात् तर्हि वृद्धिः
स्यादिति सम्भावना, एवञ्च "वार्णादाङ्गमि"त्यनेन वृद्धिः प्राप्ता, तद्वारणाय समर्थग्रहणम्"ति
कैयटोक्तं सूपपादमिति भावः ।