सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 243, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 243

५३-५४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २१३
तदुक्तं भाष्ये—'इन्द्रे द्वावचावेको यस्येति लोपेनापहृतोऽपर एका-
देशेन ततोऽनच्क इन्द्रशब्दः सम्पन्नस्तत्र कः प्रसङ्गो वृद्धे'रिति ।
मरुदादिभिरिन्द्रस्य द्वन्द्वे इन्द्रस्यैव पूर्वनिपातोऽत आह—
पूर्वोत्तरपदनिमित्तकार्यात् पूर्वमन्तरङ्गोऽप्येकादेशो न ॥ ५३ ॥
—: ✤ :—
अत्र च नेन्द्रस्येति निषेध एव ज्ञापक इति 'अन्तादिवच्च' विप्रतिषेधे
परमि'ति सूत्रयोर्भाष्ये स्पष्टम् ॥ ५३ ॥
नन्वेवमपि 'प्रधाय, प्रस्थाये'त्यादौ अन्तरङ्गत्वाद्वित्त्वादिषु कृतेषु
ल्यप् स्यादत आह—
अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते ॥ ५४ ॥
—: ✤ :—
'अदो जग्धिर्'िति सूत्रे ति कितीत्येव सिद्धे ल्यब्ग्रहणमस्या ज्ञापक-
मिति 'अदो जग्धिर्'ित्यत्र भाष्ये स्पष्टम् ॥ ५४ ॥
──────────────────
वृद्धिनं प्राप्नोतीति सम्बन्धः । आद्यस्योत्तरमाह—तस्यानच्कत्वादिति । द्वितीयस्योत्तर-
माह—तदेकदेशमात्रस्येति । पूर्वकल्पेषु एतद्विषयकशङ्कामकृत्वैव समादधानस्य ग्रन्थकर्तुः
शून्यहृदयत्वमापद्येतेत्याहुः ।
मरुदादिभिरिति । न च विष्ण्वादिशब्दैरिन्द्रशब्दस्य समासे निषेधस्य चारिता-
र्थ्यम् । न च 'अभ्यर्हितं चे'त्यपेक्षयाऽजाद्यदन्तमित्यस्य प्राबल्यमिति वाच्यम्, तथा
सति 'वासुदेवार्जुनाभ्यां वुञि'ति सौत्रनिर्देशानुपपत्तेरिति वाच्यम्; ज्ञापकपरोक्त-
भाष्यप्रामाण्येन प्रसिद्धसाहचर्यक-देवताद्वन्द्वे एव विधि-निषेधयोः प्रवृत्तिकल्पनेना-
दोषात्, विष्णोरिन्द्रावरजत्वेन इन्द्रस्यैवाभ्यर्हितत्वाच्च । सोमस्य तु अमृतरूपान्नदातृ-
त्वेन पितृसमत्वात् महाप्रलयपर्यन्तस्थायित्वात् शिवशिरोधृतत्वाच्च अभ्यर्हितत्वेन
पूर्वनिपातः ।
पूर्वोत्तरपदनिमित्तकार्यादिति । अत्र पूर्वोत्तरपदयोर्निमित्तता च पूर्वपदत्वेनोत्तर-
पदत्वेनेति नाग्रहः । अत एव 'परमाहमि'त्यादौ सवर्णदीर्घात्पूर्वमनया परिभाषया
मपर्यन्तस्य आदेशसमर्थनपरम् 'अदस औ सुलोपश्चे'ति सूत्रस्थं भाष्यं सङ्गच्छते ;
अन्यथा 'त्वाद्दौसावि'त्यादौ पूर्वोत्तरपदत्वयोरनिमित्तत्वेन तदसङ्गतिरेव स्यादिति
बोध्यम् । एकादेशो नेति । अयं सन्धिकार्यस्योपलक्षणम्, तेन 'रात्रिमट' इत्यादौ
रात्रेः कृती'ति मुमः पूर्वमन्तरङ्गो यणादेशो नेति सिद्धम् ।
ल्यब्ग्रहणमस्या ज्ञापकमिति । ननु ल्यब्ग्रहणेन प्रकृतिप्रत्ययोभयमात्रनिमित्तका-
न्तरङ्गकार्याणां ल्यब्विषये अप्रवृत्तिरित्येव ज्ञाप्यतां 'नल्यपी'ति सूत्रं च न