परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 18, कुल 373 में से
संदर्भ में पढ़ेंपरि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः
७७. 'तत्तद्वचनमामर्थ्य' न्यायसिद्धा, नित्या ×
'काकवद् देवदत्तस्य गृहम्' इति
लौकिकन्यायमूलकत्वादियं
सिद्धेति यावत् ।
७८. 'सिद्धं तु तद्गुणसंविज्ञानात् " ×
पाणिनेर्यथा लोके' इति भाष्य-
प्रामाण्यात् इयं लौकिकन्याय-
सिद्धा ।
८६. 'येन स्वस्योपकृतं तस्य विरोधो- अनित्या 'कष्टाय०' (३.१.१४) इति 'न यास-
ऽन्याय्यः' इति न्यायसिद्धा । (८ स्थलेषु) योः' (७.३.४५) इति च निर्देशादस्या
अनित्यत्वं बोध्यम् ।
तानि चाष्टौ स्थलानि—१. दाक्षिः,
२. क्रापयति, ३. अदीदपत्,
४. यासेति, ५. पपिवान्,
६. अग्निमान्, परमवाचा,
७. नदि कुमारी, ८. कष्टायेति ।
इतोऽन्यत्र प्रवृत्तिरेव ।
१०६. “लोके बहुषु गच्छत्सु 'राजा नित्या ×
गच्छति' इति प्रधानं राजा
व्यपदिश्यते, राज्ञश्च प्राधान्यं
तदधीनप्रवृत्ति-निवृत्तित्वादन्ये-
षाम्" इति कैयटप्रदर्शित-
लौकिकन्यायसिद्धेयम् ।
११०. 'सामान्योपस्थितिकाले निय- अनित्या अनित्यत्वञ्च 'नल्पि' इति लिङ्गात् ।
मेन विशेषोपस्थापकसामग्र्य- विस्तरस्तु 'स्थानिवत्'-सूत्रभाष्ये
भावः' इति न्यायोऽस्या बीजम् । (१.१.५६) द्रष्टव्यः ।
११२. 'सहचरणं सहशयोरेव'-समान- " 'द्विस्त्रिचतुर्भ्यः' (५.४.१८) इति सूत्रे
स्वभावयोरेव सामानाधिकरण्यं साहचर्येणैव कृत्वोऽर्थस्य ग्रहणे सिद्धे
मैत्री च भवति' इति न्याय- कृत्वोऽर्थग्रहणात् एषा अनित्या
सिद्धा । बोध्या ।
११४. 'प्रतिपदोक्तस्य शीघ्रोपस्थिति- " अनित्यत्वञ्च 'भुवश्च महाव्याहृतेः'
कत्वं लाक्षणिकत्वस्य च विलम्बो- (८.२.७१) इत्यत्र महाव्याहृतिग्रह-
पस्थितिकत्वमिति लौकिकोप- णात् ।
स्थितिकृतलाघव'मूलकत्वा-
दियं सिद्धा ।
- १६ -