परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 17, कुल 373 में से
संदर्भ में पढ़ेंपरि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः
३७. 'छिन्नपुच्छे शुनि श्वत्वव्यव- अनित्या 'अभीयात्' इति इष्टरूपसिद्ध्यर्थ-
हारः' इति न्यायसिद्धा । मस्या अप्रवृत्तिरित्येषा अनित्या ।
एतदन्तं शास्त्रोद्देशाख्यं प्रथमं
प्रकरणम् ।
४७. ⎧ 'वालि-सुग्रीवयोर्युद्धमानयोः अनित्ये विस्तरस्तु 'स्वमोर्नपुंसकात्' (७.१.२३)
⎪ भगवता वालिनि हतेऽपि सुग्रीव- इति सूत्रभाष्यस्थे कैयटे द्रष्टव्यः ।
⎪ स्य वालितः प्राबल्यं न व्यव-
⎨ हरन्ति, भगवत्सहायेः पाण्डवै-
४८. ⎪ र्जये लब्धेऽपि पाण्डवानां
⎪ प्राबल्यं व्यवहरन्ति च' इति
⎩ न्यायसिद्धे इमे ।
५०. मनुष्योऽयं प्रातरुत्थाय प्रथमं अनित्या 'सम्प्रसारणाच्च' (६.१.१०८) इति
स्वशरीरकार्याणि करोति, ततः सूत्रभाष्ये अस्या अनित्यत्वव्यवस्थाप-
सुहृदाम्, ततः सम्बन्धिनाम्' नात् । ज्ञापकसिद्धापीयम्, 'वाह ऊठ्'-
इति न्यायसिद्धा । (६.४.१३२) इति सूत्रे ऊठ्-ग्रहणस्य
ज्ञापकत्वात् ।
५७. सर्वथा प्रतिबद्धावकाशस्य नित्या 'पूर्वंपर०' (३८) इति परिभाषया
सर्वतो बलवत्त्वदर्शनान्न विप- पूर्वपूर्वपेक्षया उत्तरोत्तरस्य बलवत्त्व-
रीतशङ्कावकाशः' इति न्याय- प्रदर्शनमुखेन अन्तरङ्गस्य सर्वतो
सिद्धा । बलवत्त्वमुक्तम् । अनया च अपवादानां
ततोऽपि बलवत्त्वमुच्यते ग्रन्थकृते-
त्यवसेयम् ।
५८. 'तक्रकौण्डिन्य'-न्यायमूलिकेयम् । ,, सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयताम्,
तक्रं कौण्डिन्याय' इति हि तन्न्याय-
स्वरूपम् ।
५९. 'माठरपरिवेषण'-न्यायमूलिकेयम् । ,, 'सर्वे ब्राह्मणा भोज्यन्ताम्, माठर-
कौण्डिन्यौ परिवेविष्टाम्' इति तन्न्याय-
स्वरूपम् ।
७१. “नहि 'अब्राह्मणमानय' इत्युक्ते ,, केचित्तु- 'ओषदधेश्च विभक्तावप्रथ-
लोष्टमानीय कृती भवति' इति मायाम्' (६.१.१३२) इत्यत्र 'विभक्तौ'
न्यायसिद्धा । इति अनित्यत्वमस्या द्योतयतीति ।
तन्न ; तस्य सिद्धार्थनुवाद एव तात्प-
र्यात्, भाष्यसम्मतफलाभावाच्च ।
- १५ -