परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 174, कुल 373 में से
संदर्भ में पढ़ें१४४ परिभाषेन्दुशेखरः [ १ प्रकरणे -
प्रकृतिवदनुकरणं भवति ॥ ३६ ॥
—: ❖ :—
‘क्षिय’ इति इयङ्निर्देशोऽस्या ज्ञापकः ।
तत्रैव प्रातिपदिकत्वनिबन्धनविभक्तिकरणादनित्या चेयमिति ‘क्षियो
दीर्घादि’ति सूत्रे भाष्ये स्पष्टम् ॥ ३६ ॥
प्रकृतिवदनुकरणं भवति । प्रकृतिवत् = अनुकार्यवृत्तिधर्मवदित्यर्थः ।
नन्वनेन धातुत्वातिदेशे प्रातिपदिकसंज्ञा न स्यादत आह—अनित्येति ।
ननु ‘क्षिय’ इति सूत्रे दीर्घान्तानुकरणे दीर्घग्रहणवैयर्थ्यापत्तिः, ह्रस्वान्तानुकरणे
‘विपराभ्यां जेरि’तिवद् गुणापत्तिश्चेति चेन्न । लक्ष्यघटकानुकार्यस्य क्षिशब्दस्य
फलाभावाद् घित्वाभावेन तदनुकरणस्यास्य अनेन न्यायेन घित्वाभावातिदेशाद्
गुणाप्राप्तेः । सखिशब्दसाहचर्येण अनुकरणक्षिशब्दावयवेकारभिन्नस्यैव घिसंज्ञासूत्रे
ग्रहणादस्य घित्वाभावेन गुणाप्राप्तेश्चेति दिक् ॥ ३६ ॥
शब्दप्रतिपाद्यत्वे सति शब्दत्वम् । अत्र शास्त्रीयाया एव प्रकृतेराश्रयणम्, अनया च शास्त्रीयस्यैव
धर्मस्यातिदेशः, तेनापशब्दानुकरणेषु नापशब्दत्वमिति ‘ऋऌक्’सूत्रे भाष्ये स्पष्टम् ।
अनित्येतीति । इदमनित्यत्वं कार्यभेदेन, न तु लक्ष्यभेदेन; तथा सत्येकत्रैव लक्ष्ये
एकस्मिन् कार्ये तस्यैव धर्मस्यातिदेशो भवति, अपरस्मिन् न भवति । तथा च प्रातिपदिकत्वाभावाय
धातुत्वातिदेशे न भवति इयङर्थञ्च भवति । न च प्रातिपदिकत्वाभावोऽशास्त्रीय इति वाच्यम् ;
‘अधातुरि’ति पर्युदासलब्धमशास्त्रीयेऽपि शास्त्रतात्पर्यत्वेन शास्त्रीयत्वबोधनात् ।
अथ ‘क्षि + अस्’ इत्यवस्थायामिकारान्तत्वाद् घिसंज्ञायां ‘घेङिति’ इत्यनेन इयङः
परत्वाद् गुणे क्षेरिति प्राप्तौ ज्ञापितेऽपि स्वांशे चारितार्थ्यासम्भवात् कथं ज्ञापकत्वम् ? न च
सूत्रस्थ‘क्षिय’-इत्यस्य निष्ठापरतो दीर्घीभूतस्यानुकरणत्वाद् घिसंज्ञाया अप्राप्तेर्दोष इति वाच्यम् ;
दीर्घीभूतस्यानुकरणे सूत्रस्थेन बोध्यस्यापि दीर्घत्वेन दीर्घादित्यस्याभावेऽपि दीर्घात्परीभूतस्य
क्षस्येत्यर्थस्य सत्त्वेन ह्रस्वात्परस्य तकारस्य नकाराप्राप्तौ तद्वारणार्थं कृतस्य दीर्घादिति ग्रहणस्य
वैयर्थं स्यादित्याशयेनाशङ्कते—नन्विति । घित्वाभावातिदेशादिति । ननु घित्वाभावरूप-
धर्मस्य अशास्त्रीयत्वात् कार्यस्य गुणाभावस्य चाशास्त्रीयत्वादतिदेशो न स्यादित्यरुचेराह—
सखिशब्देति । न चैतादृशसाहचर्यग्रहणे मानाभावः; अन्यथा विनिगमनाविरहेण हरिशब्दावयवे-
कारभिन्नस्यापि ग्रहणस्य आपादयितुं शक्यत्वादिति वाच्यम् ; ‘यावता विना०’ इति न्यायेन
इयङा निर्देशो दीर्घग्रहणञ्च तथा साहचर्यग्रहणे मानमिति तात्पर्यात् ।
केचित्तु—सूत्रे दीर्घान्तस्यैवानुकरणम् ; दीर्घग्रहणञ्च तस्यैवानुकरणमस्तीत्यत्र तात्पर्य-
ग्राहकम् । तथा च गुणप्राप्तेराशङ्कवै नोदेतीति वदन्ति ॥ ३६ ॥