सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 170, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 170

विशेष्य-विशेषणयोरुभयोः सप्तम्यन्तत्व एव प्रवर्तते, तेन ‘ङः सि धुट्’त्यादौ
सादेः पदस्येति नार्थः ।
‘तीषसह, सेसिची’त्यादौ यथा तादेरित्याद्यर्थलाभस्तथा शब्देन्दु-
शेखरे निरूपितम् ॥ ३३ ॥
अन्ये तु—'तस्मिन्नि'ति परिभाषया सप्तमीनिर्देशस्य निरवकाशत्वाद् वलाद्यार्ध-
धातुकाव्यवहितपूर्वस्येडागमापत्त्या नैतद्युक्तमिति प्राहुः ।
नार्थ इति । समानाधिकरणविशेषणाभावात्, असंभवाच्च सान्तस्य पदस्येत्यपि
नार्थं इति भावः । 'दिवस्पृथिव्योरि'त्यत्र तत्सम्भवेऽपि 'नैकमुदाहरणमि'ति न्यायेन
सामान्यतः सूत्रस्य वैयर्थ्यमित्याशयः ।
शब्देन्दुशेखरे निरूपितमिति । तत्र हि तीति प्रथमार्थे सप्तमी, तस्य वलादिपदा-
र्थैकदेशे वल्पदार्थेऽभेदेनान्वयः । तथा च 'तकाराभिन्नो यो वल् तदादेरि'त्यर्थं
उक्तपरिभाषाप्रवृत्तिं विनाऽपि सिद्ध्यति । एवं 'सेसिची'त्यत्रापि बोध्यम् ।
वस्तुतः—तीत्यादिसप्तम्याऽव्यवहितपूर्वोपस्थित्या 'तकाराव्यवहितपूर्वेभ्य इषा-
दिभ्यः परस्य वलादेरार्धधातुकस्येडि'त्याद्यर्थाश्रयणेनैव इष्टसिद्धिरिति शेखरकारोक्त-
प्रयासो व्यर्थ एवेति बोध्यम् ।
नैतद्युक्तमिति प्राहुरिति । नन्वनुपदोक्तरीत्या युक्तमेवेति वाच्यम् ; 'नेड्बशी'त्यत्रापि
द्वयोः सप्तम्यन्तत्वात्तत्रापि षष्ठीप्रकल्पकाभावेन 'आर्धधातुकस्ये'त्यनेन प्रकृतेरिडागमविधानं 'नेड्-
वशी'त्यनेन निषेध इति प्राप्ति-निषेधयोः सूपपादत्वेन प्रकृतेरिडागमे महादोषापत्तेः । षष्ठ्यन्तत्वे तु
निषेधस्यापि 'उत्सर्गसमानदेशा अपवादाः' इति न्यायेन षष्ठ्यन्तत्वेन विपरिमाणेऽदोषो बोध्यः ।
समानाधिकरणविशेषणाभावादिति । तत्र समानविभक्तिकत्वस्य तन्त्रत्वादिति भावः ।
यत्तु—'स्तोकं पचति, मृदु पचति, सोमेन यजेत, प्रकृत्या चारुः' इत्यत्र असमानविभक्ति-
कयोरपि सामानाधिकरण्यदर्शनेन विरुद्धविभक्तिकयोरपि सामानाधिकरण्यं भवतीति । तन्न ;
'नीलस्य घटः' इत्यत्रापि भेदान्वयबोधापत्तेः, प्रातिपदिकार्थानुयोगिकाभेदसंसर्गकशाब्दबोधे एव
समानविभक्तिकत्वस्य प्रयोजकत्वाङ्गीकारेण 'स्तोकं पचति' इत्यादावदोषाच्च । 'प्रकृत्या चारुः'
इत्यत्र तु अभेदप्रकारक एव बोध इति न दोषः । विशेषणविभक्तेरभेदार्थकत्वपक्षेऽपि प्रकृत्यादि-
शब्दोत्तरतृतीयातिरिक्ततृतीयायाऽभेदबोधने तृतीयान्तविशेष्यवाचकपदसमभिव्याहारस्य प्रयोज-
कत्वाङ्गीकारेण 'प्रकृत्या चारुरि'त्यत्र न दोष इति बोध्यम् ।
असम्भवाच्च सान्तस्य पदस्येत्यपि नार्थ इति । समानविभक्तिकत्वाभावेऽपि
'ङ' इति पञ्चम्या सौति सप्तम्यन्तस्य षष्ठीप्रकल्पकतया समानाधिकरणविशेषणभावात् 'येन
विधिरि'त्यस्य प्राप्तेः । 'असम्भवादि'ति हेतुकथनं न युक्तम् , सम्प्रति निरवकाशतया रुत्वापवा-
दकत्वकल्पनेन सूत्रस्य चारितार्थ्यसम्भवात्, 'न लोपः ०' इति सूत्रेऽन्तग्रहणसामर्थ्यात् 'पदस्ये'-
त्यधिकारे प्रकारद्वयस्य कॢप्तत्वेन प्रकृते वैयधिकरण्यान्वयेनादोषाच्च ।