सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 153, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 153

२८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १२३
अनया कृद्ग्रहणविषये परत्वात् 'प्रत्ययग्रहण'परिभाषाया बाध एव स्या-
दित्यपि ग्रहणम् ।
अत एव 'साङ्कूटिनमि'ति 'गतिकारकॊपपदानामि'ति 'कृद्ग्रहण'
इति च परिभाषाभ्यां कृदन्तेन समासे कृते विशिष्टादेवाणि सिद्धयति, न तु
'संकोटिनमि'तीति 'पुंयोगादि'ति सूत्रे भाष्योक्तं सङ्गच्छते । अन्यथा तत्र
केवल-'कूटिट्नि'त्येतस्यापीनुणन्तत्वात्ततोऽपि पाक्षिकदोषो दुर्वार एव स्यात् ।
स्पष्टं चेदं सर्वं 'समासेऽनञ्पूर्वे' इति सूत्रे भाष्य-कैयटयोः । 'गतिरन-
न्तर' इत्यत्र तु गतेः पूर्वपदस्य क्तान्त उत्तरपदे परे कार्यविधानात्तत्सम-
वधानेऽपि केवलस्य क्तान्तत्वेन ग्रहणं बोध्यम् ।
इयं च कृद्विशेषग्रहणे कृत्सामान्यग्रहणे च, न तु कृदकृद्ग्रहण इति