परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 132, कुल 373 में से
संदर्भ में पढ़ें१०२ परिभाषेन्दुशेखरः [ १ प्रकरणे—
इदं शाकटायनरीत्या । पाणिनेस्त्वव्युत्पत्तिपक्ष एवेति शब्देन्दुशेखरे
निरूपितम् । 'आयनेयी'ति सूत्रे भाष्ये स्फुटमेतत् ॥ २२ ॥
ननु 'देवदत्तश्चिकीर्षती'त्यादौ देवादेः सन्नन्तत्वप्रयुक्तधातुत्वा-
द्यापत्तिरत आह—
प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् ॥ २३ ॥
—: ० :—
'यस्मात् प्रत्ययविधिर्'ति सूत्रे यस्मात्प्रत्ययविधिस्तदादि प्रत्यय इति
योगो विभज्यते । गृह्यमाण उपतिष्ठत इति शेषः, तेन तदाद्यन्तांशः सिद्धः ।
समाहितम् । यदि तु 'अव्युत्पन्नानी'त्येव स्यात्तर्हि नप्तृत्रादिशब्दानामव्युत्पन्नत्वेन 'तृ'
इत्युच्यमानेऽपि दीर्घाप्राप्त्या नियमार्थकत्वकथनमनुपपन्नं स्यादिति भावः ।
वस्तुतो नायं भाष्यकारीयसिद्धान्त इत्याह—इदमिति । शब्देन्दुशेखरे 'उणादयो
बहुलम्'ति सूत्रे इत्यर्थः । न च कारुवायादिशब्दानामव्युत्पन्नत्वे 'उणादय' इत्यादि-
सूत्रप्रणयनं पाणिनेरनुपपन्नमिति वाच्यम् ; व्याकरणान्तरे उणाद्यन्तत्वेन व्युत्पादितानां
कारुवादिशब्दानां बहुलं वर्तमानादौ साधुत्वान्वाख्यानाय सूत्राऽऽवश्यकत्वात् , पाणिनेः
सर्वज्ञत्वेन कारुवादिशब्दानामुणाद्यन्तत्वेन ज्ञानेऽपि उणादिप्रत्ययज्ञानपूर्वकस्वशास्त्रप्रवृत्तेः
अस्वीकारेणादोषाच्च । अत एव शङ्खादिशब्देषु ईनाद्यादेशवारणाय पाणिनिना
प्रयत्नविशेषो नाकारि । किञ्च 'आयनेयी'ति सूत्रे 'शङ्ख' इत्यादौ ईनाद्यादेशमाशङ्क्य
'प्रातिपदिकविज्ञानादि'त्यस्य उणाद्यन्तकार्यादिप्रातिपदिकनिष्ठ-प्रकृतिप्रत्ययविभागज्ञान-
पूर्वक-स्वशास्त्रप्रणयनप्रवृत्तिस्वीकारादित्यर्थ इत्यन्यत्र विस्तरः ॥ २२ ॥
देवदत्तश्चिकीर्षतीति । अस्य धातुत्वे 'सुब्लुगापत्तिस्तत एव लुङाद्युत्पत्त्या
विशिष्टस्याडाद्यापत्तिश्चेति भावः । धातुत्वाद्यापत्तिरित्यत्र आदिना 'सन्यङोरि'ति
सुब्लुगापत्तिरिति । यत्तु—प्रातिपदिकसाहचर्येण वृत्तप्रयोजकस्य सुपो ग्रहणात् न
प्रकृते दोषः । साहचर्यस्वरूपं हि यदि प्रातिपदिकावयवस्य लुग् भवति तर्हि वृत्तिप्रयोजक-
स्यैव, एवं धातावपि । न च 'ओदनमुपसेकं भोक्तुमिच्छति, ओदनमुपसेकं बुभुक्षति' इत्यत्र
'द्वितीयायाश्च' इति णमुलि 'तृतीयाप्रभृतीन्यतरस्याम्' इति समासविकल्पे सुपो वृत्तिप्रयो-
जकत्वात् लुगापत्तिरिति वाच्यम्; यद्धात्ववयवसुपो लुक् चिकीर्षितस्तत्पर्याप्तवृत्तेः प्रयोजकस्य सुपो
ग्रहणेनादोषात् । प्रकृते च विशिष्टधात्ववयवत्वप्रयुक्तसुपो लुक् चिकीर्षितः, तत्पर्याप्तवृत्तेरभावात्
न सुपो लुक्, सुपो हि ओदनमुपसेकमित्येतत्पर्याप्तवृत्तिप्रयोजकत्वादिति । तन्न ; इदानीं 'देव-
दत्ती गार्ग्यः इति समुदायस्यापि तद्धितान्तत्वेन प्रातिपदिकत्वात् तदवयवस्य सुपो वृत्त्यप्रयोजक-
स्यापि सम्भवेन साहचर्यस्यासम्भवात् ।