परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 130, कुल 373 में से
संदर्भ में पढ़ें१०० परिभाषेन्दुशेखरः [ १ प्रकरणे-
वर्णप्राधान्यविषयमेतत् । तत्त्वं च ‘प्रत्ययलोप’ इति सूत्रे स्थानिव-
दित्यनुवृत्त्यैव सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययस्येतराविशेषणत्वरूपं यत्र
प्राधान्यं तत्रैव प्रवृत्त्यर्थमित्येतत्सिद्धम् । वर्णप्राधान्यं च वर्णस्येतरा-
अत एव ‘लुकि न स्थानिवद्’इत्यस्य ‘पञ्चेन्द्र’ इत्युदाहरणं भाष्योक्तं सङ्गच्छते ;
अन्यथा ङकार-पकारयोरित्संज्ञालोपाभ्यां प्रागेव ङीषो लुकि अङ्मात्रस्थानिका-
देशाभावेन स्थानिवद्भावाप्राप्त्या तदसङ्गतिः स्पष्टैव । अत एव ‘ञित्स्वरे प्रत्यय-
लक्षणप्रतिषेध’ इति वार्तिकमपि सङ्गच्छते ।
परिभाषायां प्रमाणमाह—तत्त्वमिति । वर्णाश्रये प्रत्ययलक्षणाप्रवृत्तिमत्त्व-
मित्यर्थः । प्रत्ययस्येतराविशेषणत्वरूपमिति । स्वावयवनिष्ठविशेष्यता निरूपितप्रकारता-
नाश्रयत्वरूपमित्यर्थः, तेन ‘वारी’त्यादौ सुबन्तसमुदाये सुपो विशेषणत्वेऽपि स्वाव-
यवेऽविशेषणत्वेन उक्तप्राधान्येन प्रत्ययलक्षणसिद्धिः । वर्णस्येतराविशेषणत्व रूपमिति ।
स्वावयवनिष्ठविशेष्यता निरूपितप्रकारतानाश्रयत्वमित्यर्थः, तेन ‘गोहितम्’ त्यत्र अच्-
पदार्थस्य एचि विशेषणत्वेऽपि प्राधान्यमेव । अत्र स्वावयवी च प्रत्ययो ग्राह्यः, तेन
‘टिढ्ढे’ति सूत्रेऽतः प्रातिपदिके विशेषणत्वेऽपि न वर्णप्राधान्यक्षतिः ।
एतेन लाघवात् साधुत्वविधायकशास्त्रापेक्षयैव लुकः प्राबल्यं बोध्यते इत्येव ज्ञाप्यत इत्यपि कैयटोक्तं
परास्तं वेदितव्यम् ; राजपुरुष इत्यत्र भसंज्ञाप्रवृत्त्या नलोपानापत्तेः ।
लोपविषये तदप्रवृत्तौ मानमाह—अत एव लुकि न स्थानिवदिति । वार्तिकमपि
सङ्गच्छत इति । अन्यथा ‘गर्गा, बिदा’ इत्यादौ इत्संज्ञातः पूर्वं यञो लुकि ‘ञित्स्वरा’ऽप्राप्त्या
तत्प्रतिषेधार्थं क्रियमाणं वार्तिकं व्यर्थमेव स्यादिति भावः । न चेत्संज्ञाविषये तन्न्यायाप्रवृत्ति-
रित्येतज्ज्ञापने फलाभाव इति वाच्यम् ; ‘दैवदारवम्’ इत्यत्र फलसम्भवात् । तत्र देवदारुशब्दात्
‘ओरञ्’ इत्यनेन फलेऽर्थे अञि ‘तस्य फले लुक्’ इत्यनेन लुकि ‘ञितश्च तत्प्रत्ययात्’ इत्यनेन
स्वार्थेऽञ् सिद्धयति ; अन्यथा स न सिद्धयेत् ।
ननु परिभाषास्वीकारे ‘अतृणेद्’ इत्यादौ इमादिर्न स्यात्, तत्र ‘हलादौ पिति’ इति
विशेषणतया वर्णस्याऽऽश्रयणादत आह मूले—वर्णप्राधान्यविषयमेतदिति । अर्थात्सिद्धमेतत् ।
वार्तिककारमते ‘अनल्विधावि’ति निषेधे प्राप्ते विध्यर्थं प्रत्ययलक्षणसूत्रम् । यदि तु वर्णा-
प्राधान्येऽपि अनया तस्याप्रवृत्तिः ; तर्हि प्रत्ययलक्षणसूत्रं व्यर्थमेव स्यात् । वैपरीत्यं तु न ;
लक्ष्यानुरोधादिति भावः ।
ननु भाष्यकारमते स्थानिवद्भावेन सिद्धे प्रत्ययलक्षणसूत्रं नियमार्थम्, तन्मते वर्णाश्रये
प्रत्ययलक्षणसूत्रस्य प्राप्तिरेव नेति ‘वर्णाश्रय०’ इति परिभाषा व्यर्थैवेति चेत्–सत्यम् । भाष्यमते
तस्या अनङ्गीकारात्, वार्तिकमते एवास्या परिभाषायाः सत्त्वात्, तन्मते अल्विधावपि विध्यर्थ-
त्वात् प्रत्ययलक्षणसूत्रस्य । अत एव ‘अतृणेद्, मित्रशीः’ इत्यादीनां सिद्धिः, तत्र वर्णप्राधान्य-
विषयकाल्विधौ प्राप्तप्रत्ययलक्षणसूत्रस्य निषेधार्थमियं परिभाषा स्वीक्रियते वार्तिककृता; तदाह