परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 127, कुल 373 में से
संदर्भ में पढ़ें२० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९७
नन्वेवम् 'अदसोऽसेरि'त्यादिना 'अमू' इत्यादौ दीर्घविधानं न
स्यादत आह—
भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति ॥ २० ॥
—: ० :—
'दिव उत्', 'ऋत उत्' इति तपरकरणमस्या ज्ञापकम् ।
दीर्घविधानं न स्यादिति । 'अदसोऽसेरि'ति सूत्रे ह्रस्वोकारेण 'भाव्यमान'परि-
भाषया दीर्घस्याग्रहणादिति भावः । प्राचीनोक्तसमाहारद्वन्द्वस्तु न युक्त इत्यन्तरङ्गपरि-
भाषायां निरूपयिष्यते । दिव उदिति । न च ज्ञापितेऽपि स्वांशे चारितार्थ्याभावः ;
प्रमाणत आन्तरतम्याद्वकारस्य स्थाने ह्रस्वोकारस्यैव प्राप्तेः । न च 'अक्षद्यूभ्यामि'त्यत्र
ह्रस्वविधानार्थं तदिति वाच्यम् , 'निरनुबन्धक'-परिभाषया दिव्धातौ एतत्प्रवृत्तेरिति
वाच्यम् ; दिवशब्दात् क्यजन्तात्