परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 111, कुल 373 में से
संदर्भ में पढ़ेंअत्र मतद्वयेऽपि लक्षणानुसरणस्य आवश्यकत्वेन गौरवाच्छब्देऽर्थे च
खण्डशः शक्तिः पदानामिति तु वृद्धाः। तत्रार्थस्य विशेष्यत्वमौत्सर्गिकम्, तदसम्भवे
तु शब्दस्यैव विशेष्यत्वम्। तथा च 'अग्नेर्ढगि'त्यादौ ढकि अग्निरूपार्थात्परत्वस्य
बाधेन तत्राग्निशब्दस्य विशेष्यत्वम्। उपस्थितार्थस्याग्निरूपार्थस्य अग्निशब्दं प्रति विशे-
षणतयाऽन्वयसम्भवेन तत्त्यागे मानाभावः। 'अग्नेर्ढगि'त्यस्य अग्निरूपार्थवाचका-
दग्निशब्दाद् ढगित्यर्थः। तथा च तत्र तत्रार्थविशिष्टस्यैव शब्दस्य ग्रहणमित्येवं
युक्तिमूलिका परिभाषेति भावः। 'प्रादूहोढ' इत्यत्राप्येवमेव।
न चैवमप्युपस्थितीयमुख्यविशेष्यताया उभयत्र सत्त्वेन 'घटमानयती'त्यत्र
विशेषणीभूते शब्दे पदार्थान्तरान्वयापत्तिः। एवं 'घटमुच्चारयती'त्यत्रार्थे पदार्था-
न्तरान्वयापत्तिः। तत्पदप्रयोज्य-शाब्दबोधीयविशेष्यतानिरूपित-प्रकारताऽसमानाधि-
करणविशेष्यताया मुख्यविशेष्यताशब्देन ग्रहणे तु 'घटमानयती'त्यत्र घटपदेन
कदाचिच्छब्दस्यापि विशेष्यतया भानात् घटशब्दप्रयोज्यशाब्दबोधीयविशेष्यता-
निरूपितप्रकारताया अर्थेऽपि सत्त्वात् घटरूपेऽर्थे पदार्थान्तरान्वयानापत्तिरिति
वाच्यम्; इतरपदार्थनिष्ठप्रकारतानिरूपित-तद्विशेष्यताकशाब्दबोधं प्रति तत्पदप्रयोज्य-
शाब्दबोधीयविशेष्यतानिरूपितप्रकारताश्रयतत्प्रकारक-तात्पर्यविशेष्यत्वाभावसमानाधि-
करणविशेष्यत्वावगाहिज्ञानस्य कारणत्वात्। 'घटमानयती'त्यत्र घटपदार्थे तद्घटशब्द-
प्रयोज्यशाब्दबोधीयविशेष्यतानिरूपित-प्रकारताश्रयतत्प्रकारक-तात्पर्यविशेष्यत्वाभावेन
तत्समानाधिकरणविशेष्यत्वावगाहिज्ञानस्य सत्त्वेन तत्र पदार्थान्तरान्वये बाधकाभावात्।
ननु ऊढशब्दे उपस्थितार्थस्य वहनकर्मरूपस्य केन सम्बन्धेनान्वयः ? न
तावद्द्वाचकत्वसम्बन्धेन अन्वयः ; तस्य बोधजनकतावच्छेदकाऽऽनुपूर्वीमति अवश्यं
सत्त्वेन ऊढवच्छब्दघटकोढशब्देऽपि सत्त्वात्। नापि बोधकजनकत्याऽन्वयेन निस्तारः ;
तत्र जनकतायाः स्वरूपयोग्यतारूपाया ग्रहणे निरुक्तापत्तेस्तादवस्थ्यात्। फलोप-
धायकतारूपाया ग्रहणे यत्र श्रोतुः 'प्रौढ' इत्येतद्घटकोढशब्देन न बोधस्तादृशोढशब्दे
फलोपधायकतारूपसम्बन्धस्याभावेनाव्याप्तेश्चेति चेन्न। स्वविषयकबोधजनकत्वप्रका-
रकतात्पर्यविशेष्यत्वरूपसम्बन्धेन पदेऽर्थस्यान्ययस्वीकारे दोषाभावात्। अत्र जन-
कता च स्वरूपयोग्यतारूपैवेति बोध्यम्।
खण्डशः शक्तिरिति। तत्र विशेषणविशेष्यभावव्यत्यासः अन्यतरांशस्य मोषश्च भवति।
यत्र विशेष्यविशेषणभावव्यत्यासासम्भवस्तत्रैव अन्यतरांशस्य मोषः, नान्यत्र। तदेतन्मनसि
कृत्वाऽऽह—उपस्थिताथंस्येत्यादिः। तत्त्यागे मानाभाव इति। विधिवशात् पदभ्रष्टो राजा
अप्राधान्येन स्थित्वाऽप्यात्मानं धारयति, न व्यापादयति तद्वदिति भावः।
ननु भाष्यमते विशिष्टशक्त्यनङ्गीकारे शाब्दबोधप्रकारतया भासमानेऽर्थे शब्दे वा पदार्था-
न्तरस्य अन्वयापत्तिः, उपस्थितौ उभयोः समूहलम्बनवन्मुख्यविशेष्यतया भासमानत्वात्,
यत्किञ्चिन्निष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति मुख्यविशेष्यता-
सम्बन्धेन उपस्थितेः कारणत्वादतः शङ्का-समाधानाभ्यामाह—न चैवमिति।