सामग्री पर जाएँ
सर्वकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 81, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 81

( ५६ )

“भूस्त्वयि दधामी”त्यादिमन्त्रेण सकृत् । अत्र इति—शब्देन व्याहृतीनां मन्त्रैकत्वं प्रतिपादितम् ।

अथास्यायुष्यं करोति— १-१६-५

अथ—मेधाजननानन्तरम् अस्य—जातस्य बालकस्य, आयुष्यम्—आयुषे हितं जीवनवर्द्धनं कर्म करोति ।

नाभ्यां दक्षिणे वा कर्णे जपति अग्निरायुष्मान्त्स वनस्पति-
भिरायुष्माँस्तेन त्वायुषायुष्मन्तं करोमि । सोम आयुष्मान्त्स
ओषधीभिरायुष्माँस्तेन त्वायुषायुष्मन्तं करोमि । ब्रह्मायुष्मत्तद्
ब्राह्मणैरायुष्मत्तेन त्वायुषायुष्मन्तं करोमि देवा आयुष्मन्तस्तेऽ-
मृतेनायुष्मन्तस्तेन त्वायुषायुष्मन्तं करोमि । ऋषय
आयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वायुषायुष्मन्तं करोमि ।
पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वायुषा
युष्मन्तं करोमि । यज्ञ आयुष्मान्त्स दक्षिणाभिरायुष्माँस्तेन
त्वायुषायुष्मन्तं करोमि । समुद्र आयुष्मान्त्स स्रवन्तीभिरायु
ष्माँस्तेन त्वायुषायुष्मन्तं करोमीति त्रिः १-१६-६

आयुष्यकरणविधानमाह सूत्रद्वयेन—नाभ्यां—नाभिदेशे दक्षिणे कर्णे वा, अत्र समीपे सप्तमी । तेन नाभिसमीपे कर्णसमीपे वा, अग्निरायुष्मानित्यादि त्रिवारं जपति ।

मन्त्रार्थस्तु स्पष्ट एव । (सर्वेषां प्रजापतिः गायत्री लिङ्गोक्ता आयुष्यकरणे) ।

त्र्यायुषमिति च । १-१६-७

त्र्यायुषं जमदग्नेरित्यादि मन्त्रं च त्रिवारं जपेत् । इदं चायुष्य-करणं यदि यथाकालं न सम्पाद्यते तर्हि कालान्तरेऽपि क्रियते ।