सामग्री पर जाएँ
सर्वकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 59, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 59

( ३७ )

मन्त्रार्थः (प्रजापतिः यजुः आपः अभिषेकने;—या आपः शिवाः-
कल्याणकारिण्यः शिवतमाः – अतिशयकल्याणहेतवः, शान्ताः – अनुपद्र-
वकारिण्यः, शान्ततमाः—अतिशयेन उपद्रवनाशिन्यः, ताः—आपः,
ते—तव वध्वोः भेषजं—रोगनाशनं कृण्वन्तु—कुर्वन्तु ।

आपोहिष्ठेति तिसृभिः । १-८-६

पुनः “आपोहिष्ठा” इत्यादिभिः तिसृभिः ऋग्भिः अभि-
षिञ्चति । ते च मन्त्रा यथा :-

(१) आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय
चक्षसे ।

(२) यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव
मातरः ।

(३) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ, आपो
जनयथा च नः ।

( सूर्य्यदर्शनम् )

अथैनाँसूर्य्यमुदीक्षयति तच्चक्षुरिति । १-८-७

अथ—अभिषेचनानन्तरम् एनां—वधू सूर्य्यमुदीक्षस्व इति
प्रैषेण सूर्य्यम् उदीक्षयति—ऊर्द्धं प्रदर्शयति 'तच्चक्षु'रिति मन्त्रेण । अत्र
कन्याकर्तृको मन्त्रपाठ इति हरिहरः । दिवा विवाहपक्षे सूर्य्यदर्शन-
विधिरिति रेणुदीक्षितहरिहरौ । एतद्गृह्यानुसारिणां दिवैव विवाह
इति गदाधरः । तच्चक्षुरिति मन्त्रः १ । १७ । ६ सूत्रव्याख्यायामुद्धृतः ।

( हृदयालम्भनम् )

अथास्यै दक्षिणाँ समधि हृदयमालभते—

ममव्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु ।
मम वाचमेकमना जुषस्व प्रजापतिष्ट्वा नियुनक्तु मह्यम् ॥
इति । १-८-८