पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 235, कुल 263 में से
संदर्भ में पढ़ें( २१३ )
श्मशानं—प्रेतदहनभूमिम् । पितृषदे—श्मशानवासिने । अन्यत् स्पष्टम् ।
गोष्ठमभिमन्त्रयते—
नमो रुद्राय शकृत्पिण्डसदे स्वस्ति मा संपारयेति । १५
गोष्ठं—गोवाटम् । शकृत्पिण्डसदे—गोमयपिण्डवासिने । अन्यत्
स्पष्टम् ।
यत्र चान्यत्रापि नमो रुद्रायेत्येव ब्रूया-
द्रुद्रो ह्येवेदꣳ सर्वमिति श्रुतेः । १६
यत्र—येषु केषुचित् स्थानेषु कार्येषु वा अनुक्तेषु प्रविशन् पूर्वं
"नमो रुद्राय" इति ब्रूयात्—वदेत् एव—अवधारणे, पश्चात् कर्म
कुर्यात् । हि—यस्मात्, इदं—दृश्यमानं जगत्, सर्वम्—अखिलं रुद्र
एव इति श्रुतेः—वेदवचनात् ।
—--—
( नैमित्तिकदोषनिवारणम् )
सिचावधूतोऽभिमन्त्रयते—
सिगसि न वज्रोऽसि नमस्ते अस्तु मा मा हिंसीरिति । १७
सिचा - वस्त्रप्रान्तेन, अवधूतः— तद्वाताहतः, वस्त्रप्रान्तम्
अभिमन्त्रयते—सिगसीति ।
मन्त्रार्थः—(प्रजापतिः, अनुष्टुप्, लिङ्गोक्ता देवता) अर्थः सुगमः ।
स्तनयित्नुमभिमन्त्रयते—
शिवा नो वर्षाः सन्तु शिवा नः सन्तु हेतयः ।
शिवा नस्ताः सन्तु यास्त्वर्तूंꣳ सृजसि वृत्रहन्निति । १८
स्तनयित्नुं—गर्जन्तं मेघम् अभिमन्त्रयते "शिवो न" इत्यादिना
मन्त्रेण ।
मन्त्रार्थः— (प्रजापतिः, अनुष्टुप्, इन्द्रः वज्रवारणे) हे वृत्रहन्—
इन्द्र ! वर्षाः—वृष्टिकालाः तदुपलक्षिताः वृष्टयोऽपि नः—अस्माकं,