सामग्री पर जाएँ
सर्वकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 227, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 227

( २०५ )

यो मा न विद्यादुप मा स तिष्ठेत् सचेतनो भवतु
शठ्ं सथे जन इति । ३

अथ—अभिमुखमेत्य, सभां प्रविशति 'सभा च मे'त्यादिना मन्त्रेण ।
मन्त्रार्थः— ( प्रजापतिः, अनुष्टुप्, सभा समितिश्च, तत्प्रवेशने )
सभा—ससत् च, समितिः—युद्धञ्च ते उभे सचेतसौ—शोभनज्ञानदात्र्यौ,
प्रजापतेः—ब्रह्मणः, दुहितरौ—पुत्र्यौ, ते मा—माम् अवतामिति शेषः ।
सभावचनं यथा—यः—जनः, मा—मां सभां न विद्यात्—न जानीयात्,
सः—जनः, मा—मां सभाम्, उपतिष्ठेत्—उपासीत । ततः शंसथे—
सम्भाषणाय, सचेतनः—सुबुद्धिः, भवतु—अस्तु ।

पर्षदमेत्य जपेत्—
अभिभूरहमागमविराडप्रतिवाश्याः ।
अस्याः पर्षद ईशानः सहसा सुदुष्टरो जनः इति । ४

पर्षदं—सभाम्, एत्य—आगत्य, जपेत् 'अभिभू'रिति ।
मन्त्रार्थः—(प्रजापतिः, अनुष्टुप्, पर्षत्, सभोपस्थाने) आः—सम्बोधने,
अभिभू —परेषाम् अभिभवनशीलः, अविराट्—विरुद्धतया राजते इति
विराट्—रुद्धवीर्य्यः, न विराद् आवराट् अरुद्धवीर्य इत्यर्थः । अप्रतिवाशी—
प्रातवादिशून्यः, अहम् आगम्— आगतोस्मि । अस्याः— पर्षदः—
सभायाः, ईशानः—प्रभुः, दुस्तरः—उग्रः अपि मयि सहसा—त्वरितं,
सुजनः — शोभनजनः अस्तु । सभापतिः मम अनुकूलो भवत्वित्यर्थः ।

स यदि मन्येत क्रुद्धोयमिति तमभिमन्त्रयते—
या त एषा ररात्या तनूर्मन्योः क्रोधस्य नाशनी,
तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः ॥
द्यौरहं पृथिवी चाहं तौ ते क्रोधं नयामसि ।
गर्भमश्वतर्य्यसहासाविति ॥ ५