पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 167, कुल 263 में से
संदर्भ में पढ़ेंमन्त्रार्थः—हे अग्ने ! स्विष्टं—स्विष्टकृद्धोमं तत् अभि—अभितः
आदावन्ते च, पृणीहि—पूर्णं कुरु । देवः—दीप्तिक्रीड़ादियुक्तः अग्निः
विश्वान्— सर्वान् पुत्रकलत्रादिसहितान् अस्मान्, पृतनाः अस्माकं
सेनाश्च अविष्यत्—अवतु । त्वं च अग्निः नः—अस्माकं सुगं—सुखगम्यम्
अर्चिरादिरूपं पन्थां—पन्थानं प्रदिशन्—आदिशन् ददत् इत्यर्थः एहि—
आगच्छ । नु अनुनये । किं च नः ज्योतिष्मत्—दीप्तिमत् यशोमयम्,
अजरं— जरारोगादिरहितम्, आयुः—जीवनकालं ध्येहि— चिन्तय
विधेहि वा । स्वाहा—तुभ्यं सुहुतमस्तु ।
अथ प्राश्नाति—
अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः
शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः ।
भद्रान्नः श्रेयः समनैष्ठ देवास्त्वयाऽवशेन समशीमहित्वा
स नो मयोऽभूः पितवाविशस्व शं तोकाय तनुवे स्योन इति । ४
अथ—अनन्तरं महाव्याहृत्यादि प्राजापत्यहोमान्ते "अग्निः प्रथम"
इति ऋग्द्वयात्मकेन मन्त्रेण व्रीहिसंस्रवं प्राश्नाति । यत्र च हुतशेषप्राशनं
तत्रायं गुणविधिरिति गदाधरः । अत्रैवेति हरिहरः ।
मन्त्रार्थः १- ( प्रजापतिः अनुष्टुप् जाठरोऽग्निः संस्रवप्राशने )—
अग्निः—जाठरः अग्निः, प्रथमः—मुख्यः, अश्नातु—भुनक्तु, हि—यस्मात्,
सः—स एव, यथा—यादृशं पावनम् इदं हविः वेद—जानाति । स च
विश्वचर्षणिः—सर्वधान्याधिपः अग्निः, अस्मभ्यम्—अस्मदर्थम्, ओषधीः—
ग्राम्यानाताराण्यांश्च व्रीहिनिवारश्यामाकादीन् , शिवाः—सुखावसानाः,
कृणोतु—करोतु ।
२-(प्रजापतिः त्रिष्टुप् जाठरोऽग्नि. संस्रवप्राशने) हे देवाः—इन्द्राद्यः!
यूयं, भद्रान्—भन्दनीयान्, कल्याणयोग्यान् नः—अस्मान्, श्रेयः—
नवान्नप्राशनभवसौख्यं, समनैष्ट—सम्यक् प्रापयत । हे पितो ! अन्न व्रीहे !
वयं अवशेन— पाथेयेन त्वया अनुग्राहकेण कारणभूतेन त्वा—त्वां,