सामग्री पर जाएँ
सर्वकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 156, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 156

( १३४ )

ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च
धर्त्ता च विधर्त्ता च विधारयः । १७ ८२
ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च ।
अन्तिमित्रश्च दूरे अमित्रश्च गणः । १७-८३
ईदृक्षास एतादृक्षास ऊषुणः सहक्षास प्रतिसहक्षास एतन ।
मितासश्च सम्मितासो नो अद्य सभरसो मरुतो यज्ञे अस्मिन् । १७-८४
स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च :
क्रीड़ी च शाकी चोज्जेषी । १७-८५
उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च ।
सासह्वाँश्चाभियुग्वा च विक्षिपः स्वाहा ।

इन्द्रं दैवीरिति जपति । ९

वलिहरणान्ते इन्द्रं दैवीरिति ऋचं जपति ।

मन्त्रोयथा—शु. यजुः १७-८६

इन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानोऽभवन् यथेन्द्रं दैवीर्विशो
मरुतोऽनुवर्त्मानोऽभवन् । एवमिमं यजमानं दैवीश्च
विशो मानुषीश्चानुवर्त्मानो भवन्तु !

ततो ब्राह्मणभोजनम् । १०

व्याख्यातमेतत् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे पञ्चदशी कण्डिका ॥


आश्वयुज्यां पृषातकाः । १

आश्वयुज्याम्—आश्विनपौर्णमास्यां, पृषातकाः—पृषातका इति कर्म भवति ।

पायसमैन्द्रं श्रपयित्वा दधिमधुघृतमिश्रं जुहोतीन्द्रायेन्द्राण्यै
अश्विभ्यामाश्वयुज्यै पौर्णमास्यै शरदे चेति । २