पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 58, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । (४३)
तत् त्वमत्रैव तिष्ठ यावदहं तं समयं दृष्ट्वा ततः पश्चात्
त्वां नयामि इति”। तथा अनुष्ठिते दमनकः पिंगलकसकाशं
गत्वा इदमाह- “स्वामिन् ! न तत् प्राकृतं सत्त्वं, स हि भग-
वतो महेश्वरस्य वाहनभूतो वृषभ इति मया पृष्ट इदमूचे-
“महेश्वरेण परितुष्टेन कालिन्दीपरिसरे शष्पाग्राणि भक्षयितुं
समादिष्टः किं बहुना मम प्रदत्तं भगवता क्रीडार्थं वनमिदम्”
पिंगलक आह-(सभयम्) “सत्यं ज्ञातं मयाऽधुना । न देवता-
प्रसादं विना शष्पभोजिनो व्यालाकीर्णे एवंविधे वने निःशंका
नदन्तो भ्रमन्ति । ततस्त्वया किमभिहितम्?”। दमनक आह-
“स्वामिन् ! एतदभिहितं मया 'यदेतद्वनं चण्डिकावाहनभूत-
स्य मत्स्वामिनः पिंगलकनाम्नः सिंहस्य विषयीभूतं तद्भ-
वानभ्यागतः प्रियोऽतिथिः । तत् तस्य सकाशं गत्वा
भ्रातृस्नेहेन एकत्र भक्षणपानविहरणक्रियाभिः एकस्थानाश्र-
येण कालो नेय इति”। ततः तेनापि सर्वमेतत् प्रतिपन्नमुक्तञ्च
सहर्षम् । स्वामिनः सकाशात् अभयदक्षिणा दापयितव्या ।
इति । तदत्र स्वामी प्रमाणम्” । तच्छ्रुत्वा पिंगलक आह-
“साधु सुमते ! साधु । मन्त्रिश्रोत्रिय ! साधु । मम हृदयेन
सह सम्मन्त्र्य भवता इदमभिहितम् । तद्दत्ता मया तस्य
अभयदक्षिणा । परं सोऽपि मदर्थे अभयदक्षिणां याचयित्वा-
द्रुततरमानीयतामिति । अथ साधु चेदमुच्यते-
सो तूं यहीं स्थित हो जबतक मैं समयको देखकर पीछे तुझको वहा ले जाऊं”
ऐसा करनेपर दमनक पिंगलके समीप जाकर यह बोला-“स्वामिन् ! वह प्राकृत
जीव नहीं है, वह शिवजीका वाहनभूत वृषभ है । मेरे पूछनेसे उसने मुझसे
कहा है कि, “शिवजीने प्रसन्न होकर यमुना तरिके देशमे नवीन तृण खानेकी
आज्ञा दी है, बहुत कहनेसे क्या है भगवान् शिवने मुझे यह वन क्रीडाके नि-
मित्त प्रदान किया है”। पिंगलक ( भयपूर्वक ) बोला-“अब मैंने सत्य २ जाना
देवताकी प्रसन्नताके विना घास खानेवाले सर्पादिकसे युक्त इस प्रकारके वनमे
निश्शंक नाद करते हुये घूमते कैसे रहें सो तैने क्या कहा”? । दमनं