सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 525, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 525

(५१०) पञ्चतन्त्रम् ।
पृच्छकेन सदा भाव्यं पुरुषेण विजानता ।
राक्षसेन्द्रगृहीतोऽपि प्रश्नान्मुक्तो द्विजः पुरा ॥ ९५ ॥”
ज्ञानी पुरुषको भी सदा पूछना चाहिये, राक्षसेन्द्रसे पूछा हुआ ब्राह्मण प्रश्नसे-
ही छूटा ॥ ९५ ॥”
अथ तेभ्यः तच्छ्रुत्वा राजा द्विजान् आहूय प्रोवाच,–“भो
ब्राह्मणाः ! त्रिस्तनी मे कन्या समुत्पन्ना तत् किं तस्याः प्रति
विधानम् अस्ति न वा ?” ते प्रोचुः-“देव ! श्रूयताम्–
तब उनसे सुनकर राजा ब्राह्मणोंको बुलाकर बोला,-“भो ब्राह्मणो ! मेरे
तीन स्तनकी कन्या उत्पन्न हुई है सो कोई उसका प्रतिविधान है वा नहीं ?” वे
बोले,-“देव सुनिये-
हीनाङ्गी वाधिकाङ्गी वा या भवेत्कन्यका नृणाम् ।
भर्तुः स्यात्सा विनाशाय स्वशीलनिधनाय च ॥ ९६ ॥
जो हीन अङ्गवाली वा अधिक अंगवाली कन्या मनुष्योंके हो वह भर्ताके
और अपने शीलके नाशके लिये होती है ॥ ९६ ॥
या पुनस्त्रिस्तनी कन्या याति लोचनगोचरम् ।
पितरं नाशयत्येव सा द्रुतं नात्र संशयः ॥ ९७ ॥
और जो कहीं तीन स्तनवाली कन्या पिताके नेत्रगोचर हो तो वह शीघ्र
अपने पिताको नाश करती है इसमें सन्देह नहीं ॥ ९७ ॥
तस्मात् अस्या दर्शनं परिहरतु देवः । तथा यदि कश्चित्
उद्वाहयति तदेनां तस्मै दत्त्वा देशत्यागेन नियोजयितव्या
इति । एवं कृते लोकद्वयाविरुद्धता भवति” । अथ तेषां तद्
वचनम् आकर्ण्य स राजा पटहशब्देन सर्वत्र घोषणां आज्ञा
पयामास-“अहो ! त्रिस्तनीं राजकन्यां यः कश्चित् उद्वाह-
यति स सुवर्णलक्षम् आप्नोति देशत्यागञ्च” । एवं तस्याम्
आघोषणायां क्रियमाणायां महान् कालो व्यतीतः । न क-
श्चित् तां प्रतिगृह्णाति । सापि यौवनोन्मुखी सञ्जाता सुगुप्त-
स्थानस्थिता यत्नेन रक्ष्यमाणा तिष्ठति । अथ तत्रैव नगरे
कश्चित् अन्धः तिष्ठति । तस्य च मन्थरकनामा कुब्जोऽग्रेसरो
यष्टिग्राही । ताभ्यां तं पटहशब्दमाकर्ण्य मिथो मन्त्रितम्