सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 508, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 508

भाषाटीकासमेतम्। (४९३)
सम्पूरितः । तञ्च घटं नागदन्ते अवलम्ब्य तस्य अधस्तात्
खट्वां निधाय सततम् एकदृष्ट्या तम् अवलोकयति । अथ
कदाचित् रात्रौ सुप्तः चिन्तयामास, "यत्त परिपूर्णोऽयं घट-
स्तावत् सक्तुभिः वर्त्तते । तद् यदि दुर्भिक्षं भवति तत् अनेन
रूपकाणां शतमुत्पद्यते । ततस्तेन मया अजाद्वयं ग्रहीत-
व्यम् । ततः षाण्मासिकप्रसववशात् ताभ्यां यूथं भविष्यति ।
ततोऽजाभिः प्रभूता गा ग्रहीष्यामि, गोभिः महिषीर्महिषी-
भिः वडवा वडवाप्रसवतः प्रभूता अश्वा भविष्यन्ति, तेषां
विक्रयात् प्रभूतं सुवर्णं भविष्यति, सुवर्णेन चतुःशालं गृहं
सम्पद्यते । ततः कश्चिद् ब्राह्मणो मम गृहम् आगत्य प्राप्त-
वयस्कां रूपाढ्यां कन्यां दास्यति, तत्सकाशात् पुत्रो मे
भविष्यति, तस्य अहं सोमशर्मेति नाम करिष्यामि । ततः
तस्मिन् जानुचलनयोग्ये सञ्जातेऽहं पुस्तकं गृहीत्वा अश्व-
शालायाः पृष्ठदेशे उपविष्टः तदवधारयिष्यामि । अत्रान्तरे
सोमशर्मा मां दृष्ट्वा जनन्युत्सङ्गात् जानुप्रचलनपरोऽश्वखुरास-
न्नवर्ती मत्समीपम् आगमिष्यति । ततोऽहं ब्राह्मणीं कोपा-
विष्टोऽभिधास्यामि, गृहाण तावद् बालकम् । सापि गृहकर्म-
व्यग्रतया अस्मत् वचनं न श्रोष्यति, ततोऽहं समुत्थाय तां
पादप्रहारेण ताडयिष्यामि" । एवं तेन ध्यानस्थितेन तथा
एव पादप्रहारो दत्तो, यथा स घटो भग्नः । सक्तुभिः पाण्डु-
रतां गतः । अतोऽहं ब्रवीमि-
किसीएक नगरमें स्वभावसे कृपण नाम ब्राह्मण रहता था उसने भिक्षासे
पाये खानेमे बचे सत्तूओंसे एक घड़ा पूर्ण किया । उस घड़ेको खूंटीपर लटका-
कर उसके नीचे खाट बिछाये निरन्तर एक दृष्टीसे उसे देखता रहता तब किसी
समय शयन करते रात्रिमें विचारने लगा । कि, यह घड़ा भरा दीखता है । सो
यदि दुर्भिक्ष पड़जाय तो यह सौ रुपयेको विकै । तो उसकी मैं दो बकरी मोल
लूं । फिर छः महीनेके प्रसव वशसे उनका यूथ होजायगा तो बकरियोंसे फिर
बहुतसी गौ ग्रहण करूंगा । गौओंसे भैंस, भैंससे घोड़ी घोड़ीसे बहुतसे घोड़े