पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 479, कुल 536 में से
संदर्भ में पढ़ें( ४६४ ) पञ्चतन्त्रम् ।
सौहृदस्य न वाञ्छन्ति जनकस्य हितस्य च ।
लोकाः प्रपालकस्यापि यथा पुत्रस्य वन्धनम् ॥ २१ ॥"
लोक मित्र पिता हितकारी पालकके बंधनकी इच्छा नहीं करतेहैं जैसे पुत्रके
प्रणयबन्धनकी इच्छा करते हैं ॥ २१ ॥"
अथ सा कदाचित् शय्यायां पुत्रं शाययित्वा जलकुम्भम्
आदाय पतिमुवाच,-"ब्राह्मण ! जलार्थम् अहं तडागे या-
स्यामि, त्वया पुत्रोऽयं नकुलात् रक्षणीयः" । अथ तस्यां
गतायां पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचित्
निर्गतः । अत्रान्तरे दैववशात् कृष्णसर्पो बिलात् निष्क्रान्तः
नकुलोऽपि तं स्वभाववैरिणं मत्वा भ्रातुः रक्षणार्थं सर्पेण सह
युद्धा सर्पं खण्डशः कृतवान् । ततो रुधिराप्लावितवदनः
सानन्दः स्वव्यापारप्रकाशनार्थं मातुःसन्मुखो गतः । मातापि
तं रुधिरक्लिन्नमुखम् अवलोक्य शंकितचित्ता "यदनेन दुरा-
त्मना दारको भक्षितः" इति विचिन्त्य कोपात् तस्योपरि
तं जलकुम्भं चिक्षेप । एवं सा नकुलं व्यापाद्य यावत् प्रलपंती
गृहे आगच्छति, तावत् सुतः तथैव सुतः तिष्ठति । समीपे
कृष्णसर्प खण्डशः कृतम् अवलोक्य पुत्रवधशोकेन आत्म-
शिरोवक्षस्थलं च ताडयितुम् आरब्धा । अत्रान्तरे ब्राह्मणो
गृहीतनिर्वापः समायातो यावत् पश्यति, तावत् पुत्रशोका-
भितप्ता ब्राह्मणी प्रलपति,-"भो भो लोभात्मन् ! लोभाभि-
भूतेन त्वया न कृतं मद्वचः, तदनुभव साम्प्रतं पुत्रमृत्युदुःख-
वृक्षफलम् । अथवा साधु इदमुच्यते,-
तब वह कभी सेजमें पुत्रको सुला कर जलका घडा ले पतिसे बोली-"ब्राह्मण !
मैं जलके निमित्त सरोवरको जाती हूं तुम इस पुत्रकी नकुलसे रक्षा करना" ।
तब उसके जानेपर ब्राह्मणभी शून्य घरको छोडकर भिक्षाके निमित्त कहीं
गया । इसी समय दैवयोगसे एक काला सांप बिलसे निकला । नौलाभी उसे
स्वभाववैरी मानकर भ्राताकी रक्षाके निमित्त सर्पके संग युद्ध कर उस ( सर्प )
को खण्ड २ करता भया । तब रुधिरसे मुखरंगे आनन्दसे अपने व्यापारको