सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 462, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 462

भाषाटीकासमेतम् । ( ४४७ )
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ७२ ॥”
जो उपकारियोंमें साधु है उसके साधुतामें क्या गुण है ?-जो अपकारियोंपर
कृपा करे महात्माओंने उसेही साधु कहो है ॥ ७२ ॥”
तदाकर्ण्य वानरः प्राह,–“भद्र ! यदि एवं तर्हि तत्र गत्वा
तेन सह युद्धं कुरु । उक्तञ्च–
यह सुनकर वानर बोला-“भद्र ! जो ऐसा है तो जाकर उसके संग युद्ध कर–
हतस्त्वं प्राप्स्यसि स्वर्गं जीवन् गृहमथो यशः ।
युध्यमानस्य ते भावि गुणद्वयमनुत्तमम् ॥ ७३ ॥
मरनेसे स्वर्गको प्राप्त होगा, जीनेसे गृह और यशको प्राप्त होगा, युद्ध करनेसे
तुझको दोनो प्रकार श्रेष्ठ गुण प्राप्त होंगे ॥ ७३ ॥
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् ।
नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ॥७४॥
उत्तमको प्रणाम करके, शूरको भेद करके, नीचको कुछ देकर युक्त करे
और समान बलवालेसे युद्ध करै ॥ ७४ ॥”
मकरः प्राह,–“कथमेतत् ?” सोऽब्रवीत्,–
मकर बोला,–“यह कैसे ?” वह बोला-
कथा ११.
आसीत् कस्मिंश्चित् वनोद्देशे महाचतुरको नाम शृगालः।
तेन कदाचित् अरण्ये स्वयं मृतो गजः समासादितः । तस्य
समन्तात् परिभ्रमति परं कठिनां त्वचं भेत्तुं न शक्नोति ।
अथ अत्र अवसरे इतश्चेतश्च विचरन् कश्चित् सिंहस्तत्रैव प्रदेशे
समाययौ । अथ सिंहं समागतं दृष्ट्वा स क्षितितलविन्यस्त-
मौलिमण्डलः संयोजितकरयुगलः सविनयमुवाच,–“स्वा-
मिन् ! त्वदीयोऽहं लागुडिकः स्थितः त्वदर्थे गजमिमं रक्ष्या-
मि । तत् एनं भक्षयतु स्वामी” । तं प्रणतं दृष्ट्वा सिंहः