सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 413, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 413

( ३९८ ) पञ्चतन्त्रम् ।
प्रिय वा द्वेषी मूर्ख वा पंडित जो वैश्वदेव वलिके समय प्राप्त हो वह स्वर्ग-
गमनमें सेतुभूत अतिथि होताहै ॥ २ ॥
न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च ।
अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥ ३ ॥
वैश्वदेवके अन्तमें श्राद्धमें उपस्थित अतिथिका घर गोत्र विद्या कुल न पूछे,
यह मनुने कहाहै ॥ ३ ॥
दूरमार्गश्रमश्रान्तं वैश्वदेवान्तमागतम् ।
अतिथिं पूजयेद्यस्तु स याति परमां गतिम् ॥ ४ ॥
दूर मार्गके श्रमसे प्राप्तहुए वैश्वदेवके अन्तमें आयेहुए अतिथिका जो पूजन
करताहै, वह परम गतिको प्राप्त होताहै ४ ॥
अपूजितोऽतिथिर्यस्य गृहाद्याति विनिश्वसन् ।
गच्छन्ति विमुखास्तस्य पितृभिः सह देवताः ॥ ५ ॥
जिसके घरसे अपूजित अतिथि श्वास लेता हुआ जाताहै, उसके यहांसे
देवता पितरों सहित विमुख होकर चल जाते हैं ॥ ५ ॥
एवमुक्त्वा तस्मै जम्बूफलानि ददौ । सोऽपि तानि भक्ष-
यित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि स्वभवनम-
गात् । एवं नित्यमेव तौ वानरमकरौ जम्बूच्छायास्थितौ
विविधशास्त्रगोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः । सोऽपि
मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्वपत्न्यैः
प्रयच्छति । अथ अन्यतमे दिवसे तया स पृष्टः-“नाथ ! क्व
एवंविधानि अमृतफलानि प्राप्नोषि?”। स आह-“भद्रे ! मम
अस्ति परमसुहृद् रक्तमुखो नाम वानरः स प्रीतिपूर्वमिमानि
फलानि प्रयच्छति” । अथ तया अभिहितम्-“यः सदा
एव अमृतप्रायाणि ईदृशानि फलानि भक्षयति तस्य हृदय-
ममृतमयं भविष्यति । तत् यदि मया भार्य्यया ते प्रयोजनं,
ततः तस्य हृदयं मह्यं प्रयच्छ, येन तद्भक्षयित्वा जरामरणर-
हिता त्वया सह भोगान् भुनज्मि” । स आह-“भद्रे ! मा
मा एवं वद । यतः स प्रतिपन्नोऽस्माकं भ्राता, अपरं फल-