पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 385, कुल 536 में से
संदर्भ में पढ़ें( ३७० ) पञ्चतन्त्रम् ।
सूर्य, मेघ, पवन, पर्वतको ( इस प्रकार ) भर्त्ता बनाना छोड़कर मूषिका अपनी
जातिको प्राप्त हुई जाति अपनी नहीं छोडी जाती ॥ २२१ ॥”
अथ रक्ताक्षवचनमनादृत्य तैः स्ववंशविनाशाय स स्वदु-
र्गमुपनीतः । नीयमानश्च अन्तर्लीनमवहस्य स्थिरजीवी
व्यचिन्तयत्-
तब रक्ताक्षके वचनको अनादरकर उन्होंने अपने वंशको नाश निमित्त ही
उस ( वायस मंत्री ) को अपने दुर्गमें प्राप्त किया । लेजाया हुआ भीतर बैठ
हँसकर स्थिरजीवी मनमें सोचने लगा--
“हन्यतामिति येनोक्तं स्वामिनो हितवादिना ।
स एवैकोऽत्र सर्वेषां नीतिशास्त्रार्थतत्त्ववित् ॥ २२२ ॥
स्वामीका हित करनेवाले जिसने कहाथा कि इसे मारडालो वही एक
इन सबमें नीतिशास्त्रके तत्त्वका जाननेवाला है॥ २२२ ॥
तद्यदि तस्य वचनमकरिष्यन् एते, ततो न स्वल्पोऽपि
अनर्थोऽभविष्यत् एतेषाम्” । अथ दुर्गद्वारं प्राप्य अरिम-
र्दनोऽब्रवीत्,-“भो ! भोः! हितैषिणोऽस्य स्थिरजीविनो यथा
समीहितं स्थानं प्रयच्छत” । तच्च श्रुत्वा स्थिरजीवी व्यचि-
न्तयत्, “मया तावत एतेषां वधोपायः चिन्तनीयः, स मया
मध्यस्थेन न साध्यते । यतो मदीयमिङ्गितादिकं विचार-
यन्तः तेऽपि सावधाना भविष्यन्ति, तद्दुर्गद्वारमधिश्रितो-
ऽभिप्रेतं साधयामि” इति निश्चित्य उलूकपतिमाह,-“देव !
युक्तमिदं यत् स्वामिना प्रोक्तं परमपि नीतिज्ञस्ते अहितश्च ।
यद्यपि अनुरक्तः शुचिस्तथापि दुर्गमध्ये आवासो न अर्हः ।
तत् अहमत्र एव दुर्गद्वारस्थः प्रत्यहं भवत्पादपङ्कजरजःपवित्री-
कृततनुः सेवां करिष्यामि” । तथेति प्रतिपन्ने प्रतिदिनमुलूक-
पतिसेवकास्ते प्रकाममाहारं कृत्वा उलूकराजादेशात् प्रकृष्ट-
मांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैः एव
अहोभिः मयूर इव स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिर-
जीविनं पोष्यमाणं दृष्ट्वा सविस्मयो मन्त्रिजनं राजानञ्च