सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 618, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 618

रसङ्ग्रहविवक्षया द्वे एव निग्रहस्थाने विप्रतिपत्तिरप्रतिपत्तिश्चेति, इतरेतर-
विसहशोदाहरणदिक्प्रदर्शनाय द्वाविंशतिभेदत्वमुच्यते, अवान्तरविशेषैस्तु त-
दानन्त्यमभ्युपगम्यते एव, तथा च द्वाविंशतिवर्गे हेत्वाभासाश्चेति पठितम् ,
ते च स्वरूपेणैव तावत्पञ्च सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला
हेत्वाभासा इति, अवान्तरभेदाश्च तेषामतिबहवः सन्त्येव, इह त्वेकमेव तन्नि-
ग्रहस्थानमादिष्टं हेत्वाभासाश्च यथोक्ता इति, तस्मादित्थं समासव्यासवर्णनाद्-
लं पदे पदे पर्यनुयोगेनेति ।
अप्रतिभाया लक्षणम्—
उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ अ. ५ आ. सू. १९ ।
परपक्षे गृहीते ऽपि तस्मिन्नुत्तराप्रतिभानमप्रतिभा नाम प्रतिवादिनो निग्र-
हस्थानं भवति, अज्ञानादिभ्यो भिन्नता ऽस्य वर्णिर्तैव, कीर्तिरपि चैतदनुमन्य-
त एव निग्रहस्थानन् , "ननूत्तरमप्रतिपद्यमानः सदसि प्रतिवादी कथमासीत"
यत्किं चिद्विकत्थमानः, तद्यथा—
हृत्पुण्डरीकविकसत्सकलानवद्यविद्यावदातवदनः क जनो ऽस्मदाविः ।
कायं वटुः कतिपयाक्षरलेशलिप्तजिह्नान्वितः कथमनेन सहाभिद्ध्मः ॥
दानाईगन्धगजकुम्भकपाटमेदिभीमस्फुरन्नखशिखाशिखरः क सिंहः ।
कासौ समीरणविधूतपुराणपर्णपातोद्भवद्वयविलो Ruhasha/लोलदृशः कुरङ्गः ॥
इत्यादि यद्वा तद्वा प्रल