सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 615, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 615

तद्युक्तमभ्युपगतनियमत्यागादसौ निग्रहार्हो भवेत्, कश्चायं प्रतिपत्तिद्रढिमा ?
प्रथमप्रयुक्तस्य हि हेतोरदृढप्रतिपत्तिकारिणो हेतुत्वमेव न स्यादुत्पन्नस्य प्रत्यय-
स्य पुनरुत्पादनं युक्तम्, तन्न पूर्वहेतुरद्रढिम्ने नाप्युत्तरो द्रढिम्ने तस्मान्नि-
यमाभ्युपगमे ऽधिकाभिधानं दोष एव, अपरं मतमकृतनियमस्यापि दोष एव
प्रपञ्चकथायामप्येकेन हेतुना दृष्टान्तेन वा कृते निर्णये द्वितीयस्य वैयर्थ्यम्,
निर्णीतस्य निर्णयानुपपत्तेरनिर्णयकारिणश्च प्रथमस्य हेतोः प्रयोगानर्ह-
त्वादिति ।
पुनर्वचनस्य लक्षणम्—
शब्दार्थयोः पुनर्वचनं पुनर्वचनमन्यत्रानुवादात् ॥
अ. ५ आ. २ सू. १४
अर्थादापन्नस्य स्वशब्देन पुनर्वचनं शब्दार्थस्य वाऽभिहितस्य पुनरभिधा-
नं पुनरुक्तं नाम निग्रहस्थानं भवति, अनुवादं वर्जयित्वा शब्दपुनरुक्तं ताव-
द्यत्र पूर्वोच्चारित एव शब्दः पुनरुच्चार्यते यथा नित्यः शब्दो नित्यः शब्द इति,
अर्थपुनरुक्तं तु यत्र सो ऽर्थः पूर्वमन्येन शब्देनोक्तः पर्यायान्तरेण पुनरुच्यते य-
था नित्यः शब्दो निरोधधर्मको ध्वान इति, यद्यपि च शब्दपुनरुक्ते ऽप्यर्थपौन-
रुक्त्यमस्त्येव, तथा ऽपि शब्दपूर्वकत्वादर्थप्रत्यभिज्ञायाः प्रथमतरां शब्दप्रत्यभि-
ज्ञानात्तत्पौनरुक्त्यमेव तदुच्यते, जात्यपेक्षश्च शब्दपौनरुक्त्यव्यवहारो न व्य-
क्त्यपेक्षः क्षणभङ्गित्वाद्वर्णानां पुनः प्रयोगासंभवात् , अनुवादे तु पौनरुक्त्यम-
दोषो यथा हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति, अर्थादापन्नस्यापि स्व-
शब्देन पुनर्वचनं भवत्येव पुनरुक्तं यथा असत्सु मेघेषु वृष्टिर्न भवतीत्युक्ते
अर्थादापद्यते सत्सु भवतीति किमर्थं स्वकण्ठेन पुनरुच्यते, अर्थप्रतीत्यर्थो हि
शब्दप्रयोगः प्रतीते ऽर्थे किं तेनेति, एतच्च नियमाभ्युपगमे निग्रहस्थानं वेदित-
व्यमकृतनियमस्य तु नातीव महानयमपराधः ।
“अत्राह नार्थपुनरुक्तादन्यच्छब्दपौनरुक्त्यमुपपद्यते शब्दसाम्येऽप्यर्थभेदद-
र्शनात् , स्मरत गिरिशं गिरिशो गौरी यस्यासमस्मरद्वेष्य इव यदीयस्य मुखं
न गरीयस्या समस्मरद्वेष्येति तस्मादर्थत एव पौनरुक्त्यं न शब्दतः, अपि
च विस्तरकथासु कदा चना श्रवणशङ्कया पुनरभिधानं नाम कियानप्रमादः, अ-
र्थादापन्नस्य च स्वशब्देन पुनर्वचनं यदि निग्रहस्थानमुच्यते तर्हि प्रतिज्ञावचन-
मेव प्रथमं निग्रहस्थानम्, अधिकपुनरुक्तयोर्वा विशेष इति वक्तव्यम् , यादृशं
तादृशं च विशेषलेशमाश्रित्य पृथगभिधाने निग्रहस्थानभेदपरिगणनमशक्य-
क्रियं स्यात् , अनुवादश्च य उच्यते हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमन-
मिति तत्तु प्रतिज्ञैव तावदसाध्वी तस्याः पुनर्वचनं साधु भविष्यतीति केयं कथा”
अत्रोच्यते यदुक्तमर्थपुनरुक्तादन्यन्न शब्दपुनरुक्तमिति तदेकमेव, पृथग्नि-
र्देशस्त्वनया विवक्षया—यो हि शक्त्यतिशयचिख्यापयिषया सकृत्प्रयोक्तव्यमिति