सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 284, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 284

२६२ न्यायमञ्जर्याम्
त्रिपादं द्विशिरस्कं सप्तहस्तं किं चिद्यज्ञसाधकमस्ति यदनेन प्रकाश्येत,
अतश्चैवम् अचेतनप्रैषप्रदर्शनाद् ओषधे त्रायस्वैनमिति न ह्योषधिर्बुद्ध्यते
त्राणाय नियुक्तास्मीति, शृणोत ग्रावाण इति चोदाहरणम् न ह्यचेतना
ग्रावाणः श्रोतुं नियुज्यन्ते, अपि च अदितिर्द्यौरन्तरिक्षमिति विप्रतिषिद्धमभिव-
दन्ति मन्त्राः कथं सैव द्यौस्तदेवान्तरिक्षं भवितुमर्हति, केषां चिच्च मन्त्राणा-
मर्थो ज्ञातुमेव न शक्यते ते कथमर्थप्रकाशनेनोपकुर्युः अम्यक्सा त इन्द्रऋष्टि-
रिति शृण्येव जर्फरी तुर्फरीतू इति इन्द्रः सोमस्य करकेति च, तस्मादविवक्षि-
तार्था मन्त्राः ।
अपि चोच्चारणमुभयथा ऽपि कर्त्तव्यं मन्त्राणामदृष्टाय वाऽर्थप्रत्यायनाय वा
यतो