न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 25, कुल 654 में से
संदर्भ में पढ़ेंजुहुयात्स्वर्गकामः आत्मा ज्ञातव्य इत्यादिश्रुतेः, स्मृतिशास्त्रमपि मन्वाद्युप-
निबद्धमष्टकाशिखाकर्मप्रपाप्रवर्तनादिपुरुषार्थसाधनोपदेश्येव दृश्यते, अश्रूय-
माणफलानामपि कर्मणां फलवत्ता विधिवृत्तपरीक्षायां वक्ष्यते, सर्वो हि शास्त्रार्थः
पुरुषार्थपर्यवसायी न स्वरूपनिष्ठ इति, इतिहासपुराणाभ्यामपि उपाख्यानादिव-
र्णनेन वैदिक एवार्थः प्रायेण प्रतन्यते, यथोक्तम् —
इतिहासपुराणाभ्यां(१) वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यतीति(२) ॥
तदेवं वेदपुराणधर्मशास्त्राणां स्वत एव पुरुषार्थसाधनोपदेशस्वभावत्वा-
द्विद्यास्थानत्वम्, अङ्गानि व्याकरणज्योतिःशिक्षाच्छन्दोनिरुक्तानि वेदार्थोपयोगि-
पदादिव्युत्पादनद्वारेण विद्यास्थानत्वं प्रतिपद्यन्ते, तेषामङ्गसमाख्यैव तदनुगा-
मित्वं प्रकटयति, विचारमन्तरेणाव्यवस्थितवेदवाक्यार्थानवधारणान्मीमांसा
वेदवाक्यार्थविचारात्मिका वेदाङ्गकस्येतिकर्त्तव्यतारूपमनुबिभ्रतीति विद्यास्था-
नतां प्रतिपद्यते, तथा च भट्टः--
धर्मे प्रमीयमाणे तु वेदेन करणात्मना।
इतिकर्त्तव्यताभागं मीमांसा पूरयिष्यति ॥
अत एव सप्तममङ्गमिति न गण्यते मीमांसा प्रत्यासन्नतवेन वेदैकदेशभूत-
त्वात्, विचारसहायो हि शब्दः स्वार्थं निराकाङ्क्षं प्रबोधयितुं क्षमः, न्याय-
विस्तरस्तु मूलस्तम्भभूतः सर्वविद्यानां वेदप्रामाण्यहेतुत्वात्, वेदेषु हि तार्किक-
रचितकुतर्कविप्लावितप्रामाण्येषु शिथिलितास्थाः कथमिव बहुवित्तव्ययाया-
सादिसाध्यं वेदार्थानुष्ठानमाद्रियेरन् साधवः, किं वा तदानीं स्वामिनि परिम्लाने
तदनुयायिना मीमांसादिविद्यास्थानपरिजनेन कृत्यमिति, तस्मादशेषदुष्टतार्किक-
कोपमर्दद्वारकदृढतरवेदप्रामाण्यप्रत्ययाधायिन्यायोपदेशक्षममक्षपादोपदिष्टमिदं
न्यायविस्तराख्यं शास्त्रं प्रतिष्ठानिबन्धनमिति परं विद्यास्थानम्, विद्यास्था-
त्पादकत्वलाभाद्यज्ञशरीरमुपजीव्यतदपेक्षितयोः स्तोत्रशस्त्ररूपावयवयोरितरेण वेदद्वयेन·
पूरणात् सामवेदापेक्षया यजुष एव प्राथम्यम् इति । व्याकरणमहाभाष्यकृतस्तु अथर्वय-
जुर्ऋक्सामवेदा इति वेदानां क्रममातिष्ठन्ते तत्रबीजं तु महाभाष्यटिप्पणे वरळशास्त्रिच-
रणैर्निरूपितमिति तत एवावगन्तव्यम् । न्यायमञ्जरीकारा अपि चतुर्थाह्निके क्रमनिर्देश-
बीजं वक्ष्यन्ति इति तत एव द्रष्टव्यम् ।
( १ ) इतिहासपुराणाभ्यामित्यत्राल्पान्तरत्वात्पुराणशब्दस्य पूर्वनिपाते प्राप्ते
इतिहासशब्दस्य पूर्वनिपातकरणं पुराणापेक्षयेतिहासस्याभ्यर्हितत्वसूचकं तेन यत्र
धर्मनिर्णये इतिहासपुराणयोर्विरोधस्तत्रेतिहासस्यैव प्राबल्यमित्यस्मद्गुरुचरणाः ।
( २ ) म. भा. आ. प. अ. १ श्लो. २६५ ।