सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 22, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 22

८ भूमिका ।

१० दशमाह्निके—संशय-प्रयोजन-दृष्टान्त-सिद्धान्ता-वयवप्रकरणानि
-समापितानि ।
११ एकादशाह्निके--तर्क-निर्णय वाद-जल्प-वितण्डा-हेत्वाभासच्छल-
प्रकरणानि समापितानि ।
१२ द्वादशाह्निके—जातिनिग्रहस्थानप्रकरणे समापिते ।

न्यायमञ्जरीस्वरूपपरिचयः—

इत्येवं साकल्येन गौतमशास्त्रसिद्धान्तप्रतिपादकोऽयं प्रबन्धः नृत्यत्पदाभिः
सूक्तिभिर्भरितोऽसकृत्सहृदयानां चेतोऽमन्दानन्दसंदोहे निमज्जयत्येव । प्रा-
धान्येन बौद्धादिमतखण्डनाय प्रवृत्तोऽपि कुमारिलभट्टवाक्यपदीयकारादिभिः
प्रतिपादितेऽपि नैयायिकसिद्धान्तविरुद्धे विषये मौनं नाश्रीयति । विरोधिमत-
खण्डनप्रसङ्गेन दुर्वचोभिः परं संबोधयन्नपि स्वसिद्धान्तानुरागं प्रथयन्ना-
तीव सहृदयान् दुनोतीत्यपि नाविदितमेतद्ग्रन्थप्रणयिनां सन्त्येवंविधाः
श्रीशङ्कराचार्यप्रभृतीनां निबन्धेष्वपि दुरुक्तयः । परन्तु न तादुरुक्तय इतिव्य-
पदिश्यन्ते । ग्रन्थकर्तुर्निरर्गलपाण्डित्यवशादस्मिन्ग्रन्थे कथञ्चित्सम्बद्धोऽप्र-
कृतोऽपि विषयोऽभिहितः । लेखोऽस्य सरलः सरसश्चेति पण्डिता एव
प्रमाणम् ।

प्रकाशनप्रयोजनम्—

भूतपूर्ववाराणसेयराजकीयमहाविद्यालयप्रधानाध्यापक महामहोपाध्याय
मानवल्युपाख्य गङ्गाधरशास्त्रिभिः वाराणसेयराजकीयसरस्वतीभवनस्थितस्य
१७९४ वर्षलिखितस्य पुस्तकस्याधारेण संशोध्य विजयनगरसंस्कृसिरीजना-
मकम्रन्थमालायां प्रकाशितः सांप्रतमनुपलभ्यमानः संस्कृतप्रणयिनां तदनुप-
लम्भप्रयुक्तखेदमपाकरिष्णुना चौखम्बासंस्कृतपुस्तकालयाध्यक्षेण बाबू श्री
जयकृष्णदासश्रेष्ठिमहाभागेन प्रार्थितोऽहं विषमस्थलटिप्पणीं तत्तत्स्थले
स्थूलाक्षरैर्विषयनिर्देशं च विधाय संपादितवानस्मीति सम्भावये यदनेन
संस्करणेन स्याच्चेत कश्चिद्विदुषामुपकारस्तदात्मानं कृतकृत्यं मन्ये इति शम् ।

१९९३ वै० वैशाख शु० १ प्रतिपदि,
काशी ।
$\Big}$ सूर्य्यनारायणशर्मशुक्लः ।