न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
५७२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १७ कारिकाव्याख्यायां
सङ्ख्याविशेषादपि—
स्यामभूवं भविष्यामीत्यादिसङ्ख्यया च वक्तृगा ।
समाख्याऽपि न शाखानामाद्यप्रवचनादृते ॥ १७ ॥
कार्यतया हि प्राक् सङ्ख्योक्ता, सम्प्रति तु प्रतिपाद्यतयोच्यते । तथाह्युत्तम-
पुरुषाभिहिता सङ्ख्या वक्तारमन्वेतीति सुप्रसिद्धम् । अस्ति च तत्प्रयोगः प्रायशो
वेदे । ततस्तदभिहितया तयाऽपि स एवानुगन्तव्यः, अन्यथाऽन्वयप्रसङ्गात् ।
अथवा—समाख्याविशेषः सङ्ख्याविशेष उच्यते । काठकं कालापकमित्या-
दयो हि समाख्याविशेषाः शाखाविशेषाणामनुस्मर्य्यन्ते । ते च न प्रवचनमात्रनि-
बन्धनाः प्रवक्तॄणामनन्तत्वात् । नापि प्रकृष्टवचननिमित्ताः । उपाध्यायेभ्योऽपि
प्रकर्षे प्रत्युतान्यथाकरणदोषात् । तत्पाठानुक॑रणे च प्रकर्षाभावात् । कतिचनादौ
संसारे प्रकृष्टाः प्रवक्तार इति को नियामक इति । नाप्याद्यस्य वक्तुः समाख्येति
युक्तम् । भवद्भिरस्तदनभ्युपगमात् । अभ्युपगमे वा स एवास्माकं वेदकार इति वृथा
विप्रतिपत्तिः ।
स्यादेतत्, ब्राह्मणत्वे सत्यवान्तरजातिभेदा एव कठत्वादयः । तदध्येया तद-
नुष्ठेयार्था च शाखा तत्समाख्यया व्यपदिश्यते इति किमनुपपन्नम् । न । क्षत्रिया-
प्रकाशः।
पुरुषगुणाभावे तज्जन्यप्राशोभनवर्णोच्चारयितृत्वं प्रकर्षः, तत्राह कति चेति । न च ब्राह्मणत्वव्याप्यं
प्रकाशिका।
त्वविशेषणादेव पक्षधर्म्मतावलेनाजन्यज्ञानसिद्धिस्तथाप्यकालोत्पत्तिकस्य जनकत्वशङ्कैव नेति स्वरूप-
निर्वचनपरं समानकालोत्पत्तिविशेषणम् । न चार्थानभिज्ञोक्तवाक्ये व्यभिचारः, प्रमाणस्य तस्य
पक्षसमत्वात्, अप्रमाणस्य च प्रमाणवाक्यात्मकत्वहेतुविरहात्, उत्तमपुरुषत्वात् प्रमाणोत्तमपुरुषादि-
त्यर्थः, अन्यथा शुकोक्तप्रमाणोत्तमपुरुषे व्यभिचारात्, प्रमाणतद्वाक्यस्य च पक्षसमत्वमेवेत्यर्थः।
वक्तरीति । यद्यपि वक्तॄण्ववक्त्रोर्भैदादनुवक्त्रा नार्थान्तरशङ्का तथापि वक्तृत्वं वचनकर्तृत्वमात्रं
तच्च तत्रापीति युक्तं स्वातन्त्र्यविशेषणमिति भावः ॥१६॥ कतिच्चेति। तथा च पुनरप्यनियमप्रसङ्ग-
मकरन्दः।
कतादृशज्ञानाजन्यत्वविशेषणादेव पक्षधर्मतावलादजन्यज्ञानसिद्धाविष्टसिद्धिः, तथाप्यन्यकालोत्पत्ति-
कस्य जनकत्वशङ्कैव नेति स्वरूपतानिवर्चनपरं तदिति मन्तव्यम् । न च शुकादिवाक्ये व्यभिचारः,
तस्यापि पक्षसमत्वादिति भावः ।
(१) वक्तरीति । न च वक्तृत्वानुवक्तृत्वयोर्भैदादनुवक्ता न वक्तेति न तद्विशेषणमर्थवदिति
वाच्यम् । वक्तृत्वं हि वचनकर्तृत्वं, तच्च तत्रापि । आगन्तुकेति ! तथा च कठादिशरीरमधिष्ठा-
याद्यवक्तुरीश्वरस्यैव तत्तत्समाख्याविशेषे निबन्धनत्वमिति भावः ॥ १६ ॥
टिप्पणी।
द्व्यणुकपरिमाणजनकसंख्याजनकापेक्षाबुद्ध्याश्रयतया ईश्वरः सिध्यतीति पूर्ववृत्तं स्मारयन्नाह
कार्यतयेति । संख्याविशेषशब्दस्यार्थान्तरमाह समाख्यापीति । प्रवक्तृवचननिमित्त
एवेति । एवं चातीन्द्रियार्थदर्शी परमकारुणिको भगवानवे अस्मदाद्यदृष्टाकृष्टकठादिशरीरमधिष्ठाय
यां यां शाखां प्रावोचत् तत्तच्छाखानां तत्तन्नाम्ना व्यपदेश इति भावः ।
( १ ) प्रकाशिकामकरन्दयोर्गृहीतस्यैतत्प्रतीकस्य 'आमन्तु कस्येति' मकरन्दे समुपलब्धस्य च
प्रकाशप्रतीकस्य व्याख्येयः 'एतद्द्वेदवाक्यसमाने'त्यादित ऊर्ध्वं 'व्यवस्थाव्यतिरेकश्चे'त्यतः पूर्वं
कश्चिदंशो प्रकाशस्यादर्शपुस्तके भ्रष्ट इति प्रतिभाति । विशेषस्तु भूमिकायां द्रष्टव्यः । सं० ।
पञ्चमस्तवके ] ईश्वरसाधनम् । ५७३
देरपि तत्रैवाधिकारात् । न च यो ब्राह्मणस्य विशेषः, स क्षत्रियादौ सम्भवति ।
न च क्षत्रियादेरन्यो वेद इत्यस्ति । न च कठाः काठकमेवाधीयते तदर्थमेवानु-
तिष्ठन्तीति नियमः, शाखासञ्चारस्यापि प्रायशो दर्शनात् । प्रागेवायं नियम
आसीदिदानीमयं विप्लवते इति चेत् । विप्लव एव तर्हि सर्वदा, कठाद्यवान्तर-
जातिविप्लवादित्यगतिरेवेयम् । तस्मादाद्यप्रवक्तृवचननिमित्त एवायं समाख्या-
विशेषसम्बन्ध इत्येव साध्विति ॥
स एवं भगवान् श्रुतोऽनुमितश्च, कैश्चित् साक्षादपि दृश्यते प्रमेयत्वाद्धटवत् ॥
ननु तत्सामग्रीरहितः कथं द्रष्टव्यः । सा हि बहिरिन्द्रियगर्भा मनोगर्भा वा तत्र न
सम्भवति । चक्षुरादेर्नियतविषयत्वात् । मनसो बहिरस्वातन्त्र्यात् । तदुक्तं 'हेत्व-
प्रकाशः ।
कठत्वादिक्षत्रिये सम्भवतीत्याह न चेति । ननु क्षत्रियाद्यधीयमानाऽपि शाखा कठादिपदवाच्येत्यत आह
न च कठा इति । प्रागेवायमिति । पूर्वं कठैः स्वशाखैवाधीता, अधुना शाखान्तराध्ययनरूपो विप्लव
इत्यर्थः । विप्लव एवेति । कठत्वादिशाखाव्याप्यजातिविप्लवः कठादिसमाख्याव्यवस्था-
व्यतिरेकश्चेत्यर्थः । तस्मादिति । कठादिशरीरमधिष्ठाय सर्गादावीश्वरेण या शाखा कृता, सा
तत्समाख्येति परिशेष इत्यर्थः । अत्र अनित्यज्ञानवद्वक्तृकवाक्यावाचकानि श्रौतकठपदादीनि
किञ्चित्प्रवक्तृकवाक्यवाचकानि वाक्यवाचकपदत्वात् मन्वादिसंहितापदवदिति मानमभिप्रेतम् ।
इयता प्रबन्धेन मननरूपो प्रतिज्ञातामुपासनां निर्वाह्य न तावन्मात्रान्मोक्षोऽनुमितिरूपविशेपद-
र्शनस्य प्रत्यक्षभ्रमानुच्छेदकत्वात्, अपि तु प्रत्यक्षरूपं तत्तद्धेतुरिति दर्शयितुमाह —
स एवमिति । अत्र प्रत्यक्षसामग्रीमुपाधिमाह नन्विति । सामग्र्या अतीन्द्रियतया योग्या-
नुपलम्भेन निषेधोऽपास्तः । न च तस्याः कार्यव्यङ्ग्यतया तदभावादेवाभाव इति वाच्यम् । कार्य-
स्यापि पुरुषान्तरप्रत्यक्षज्ञानत्वेन योग्यव्यतिरेकत्वात् । साधनव्यापकत्या स नोपाधिरित्याह
प्रकाशिका ।
स्तदवस्थ एवेति भावः । पूर्वं कठैरिति । तथा च पूर्वकालीनमेव कठत्वादिजातिमद्ब्राह्मणाध्य-
यनं शाखायाः कठादिसमाख्यानियामकमस्तीत्यर्थः । कठत्वादिशाखाव्याप्येति । पूर्वशब्दस्या-
ननुगतत्वेन सर्गाद्यत्वमेव तदर्थः, स च न भवताप्युपेयत इत्यनियमस्तदवस्थ एवेति भावः ।
अनित्यज्ञानवदिति । तन्मतेऽवक्तृकतया अस्य ज्ञानवक्तृकतया च पक्षतावच्छेदकसिद्धिः । न
चास्मदाद्युच्चरितवेदवाचकत्या कठादिसमाख्यायाः पक्षतावच्छेदकासिद्धिरिति वाच्यम् । अनित्य-
ज्ञानवत्क्रियामात्रवाचकत्वस्य विशेषणत्वादिति भावः । किञ्चित्प्रवक्तृकेति । स्वातन्त्र्यम्
प्रशब्दार्थ इति नाध्यापकेनार्थान्तरमिति ध्येयम् ॥ १७-२० ॥
मकरन्दः ।
व्यवस्थाव्यतिरेक इति । नियमगर्भस्योक्तनियामकस्यासिद्धेरिति भावः ।
अनित्यज्ञानवदिति । तन्मते अपौरुषेयत्वादस्मन्मते नित्यज्ञानवद्वक्तृकत्वादुभयसिद्धविशे-
षणमिति चोध्यम् । शेषं सुगमम् ॥ १७-२० ॥
इति महामहोपाध्यायदेवदत्तात्मजश्रीरुचिदत्तोपाध्यायविरचितः
मकरन्दः समाप्तः ॥
५७४ व्याख्यात्रयोपेतप्रकाशायुते न्यायकुसुमाञ्जलौ [ १७ कारिकान्याख्यायां
भावे फलाभावादित्यादि। न कार्यैकव्यङ्ग्यायाः सामग्र्या निषेद्धुमशक्यत्वात्।
अपि च दृश्यते तावद्बहिरिन्द्रियोपरमेऽपि असन्निहितदेशकालार्थसाक्षा-
त्कारः स्वप्ने। न च स्मृतिरेवासौ पटीयसी। स्मरामि स्मृतं वेति स्वप्नानुस-
न्धानाभावात्। पश्यामि दृष्टमित्यनुव्यवसायात्। न चारोपितं तत्रानुभवत्वम्।
अबाधनात्। अननुभूतस्यापि स्वशिरश्छेदनादेरवभासनाच्च।
स्मृतिविपर्यासोऽसाविति चेत्। यदि स्मृतिविषये विपर्यास इत्यर्थः, तदाऽ-
नुमन्यामहे। अथ स्मृतावेवानुभवत्वविपर्यासः इति, तदा प्रागेव निरस्तः। न
च सम्भवत्यपि, न ह्यन्येनाकारेणाध्यवसितोऽन्येन ज्ञानावच्छेदकतयाऽध्यवसी-
यते। तथा च स घट इत्युत्पन्नायां स्मृतौ भ्राम्यतस्तं घटमनुभवामीति स्यात्, न
त्विमं घटमिति। न ह्ययं घट इति स्मृतेराकारः। तस्मादनुभव एवासौ स्वीकर्त्तव्यः।
अस्ति च स्वप्नानुभवस्यापि कस्यचित् सत्यत्वं, संवादात्। तच्च काकता-
लीयमपि न निर्निमित्तम्। सर्वस्वप्नज्ञानानामपि तथात्वप्रसङ्गात्। हेतुश्चात्र धर्म
एव। स च कर्म्मजवत् योगजोऽपि योगविधेरवसेयः, कर्मयोगविध्योस्तुल्ययोग-
क्षेमत्वात्।
तस्मात् योगिनामनुभवो धर्मजत्वात् प्रमा, साक्षात्कारित्वात् प्रत्यक्षफलं,
धर्माननुगृहीतभावनामात्रप्रभवस्तु न प्रमेति विभाग इति। अतस्तत्सामग्रीविर-
होऽसिद्धः।
तथापि विपक्षे किं बाधकमिति चेत्। 'द्वे ब्रह्मणो वेदितव्ये' इत्यादियोगविधि-
वैयर्थ्यप्रसङ्गः अशक्यानुष्ठानोपायोपदेशकत्वात्। न चासाक्षात्कारिज्ञानविधानमे-
तत्। अर्थज्ञानावधिनाऽध्ययनविधिनेव तस्य गतार्थत्वात् इति। एतेन परमाण्वा-
दयो व्याख्याता इति।
तदेनमेवम्भूतम् अधिकृत्य श्रूयते - 'न द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते' इति। 'एकमे-
वादितीय' मिति। 'पश्यत्यचक्षुः स शृणोत्यकर्ण' इति। 'द्वे ब्रह्मणो वेदितव्ये पर-
प्रकाशः।
कार्य्यैकेति। अथ प्रत्यक्षहेतुयावद्विशेषाभावादयोग्याया अपि सामग्र्या अभाव उन्नेयः। तन्न
यथा स्वप्नज्ञाने सहकारिविशेषान्मनसो वहिः स्वातन्त्र्यं, तथा प्रकृतेऽपि योगजधर्मात्तस्य तथात्व-
मित्यह। अपि चेति। पटीयस्त्वम्-असन्दिग्धविषयत्वम्। स्मृतिविपर्यासः-विपर्य्यस्ता स्मृतिः,
प्रागेवेति। अनुभवत्वस्याबाधनादित्यर्थः। न च सम्भवत्यपि इत्यत्र स्मृतावुनभवत्वविपर्यास
इत्यनुषञ्जनीयम्। यदि स घट इति स्मृतावुनभवत्वारोपः, तदा तं घटमनुभवामीति स्यात्, न
तु इमं घटमनुभवामीत्याह न हीति। ननु प्रमायामेव मनसो वहिःस्वातन्त्र्यं स्वप्नज्ञानं त्वप्रमा
इत्यत आह अस्ति चेति। तथापि साक्षात्कारो भ्रमो वासनाप्रभवत्वात् कामातुरकामिनीसाक्षा-
त्कारवदित्याशङ्क्य तत्प्रमात्वमुपपादयति स चेति। अर्थज्ञानावधिनेति। स्वाध्यायोऽध्येतव्य इति
विधेः परिशेषादर्थज्ञानफलसिद्धावर्थज्ञानावधित्वं सिद्धमिति भावः। एतेनेति। परमाण्वादयोऽपि
प्रमेयत्वात् प्रत्यक्षा इत्यर्थः।
एकमेवेति। ईश्वराख्यं ब्रह्म एकमेव न द्वितीयमित्यर्थः। तदर्थमित्यनेन ईश्वरज्ञानार्थतां
प्रकाशिका।
धीरा धरणिभवानी यमजनि चन्द्राद् भगीरथं तनयम्।
तस्य कृतावेतस्यां सन्तः सन्तोषमाचरत ॥
पंचमस्तवके ] ईश्वरसाधनम् । ३७५
आपरमेष्ठ चे' ति । 'यज्ञेन यज्ञमयजन्त देवा' इति । 'यज्ञा वै देवा' इति । 'यज्ञो वै
विष्णु'रित्यादि । स्मर्यते च—
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । इति ।
मदर्थं कर्म कौन्तेय ! मुक्तसङ्गः समाचर । इति ।
यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । इति ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते । इत्यादि ।
अनुशिष्यते च साङ्ख्यप्रवचने ईश्वरप्रणिधानम् । तमिमंज्योतिष्टोमादिभिरिष्टैः
प्रासादादिना पूत्र्तेन शीतातपसहनादिना तपसा अहिंसादिभिर्यमैः शौचसन्तोषा-
दिभिर्नियमैः आसनप्राणायामादिना योगेन महर्षयोऽपि विविदिषन्ति । तस्मिन्
ज्ञाते सर्वमिदं ज्ञातं भवतीत्येवं विज्ञाय श्रुत्वैकतानस्तत्परो भवेत् । यत्रेदं गीयते--
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ १७ ॥ इति ।
इत्येवं श्रुतिनीतिसंप्लवजलैर्भूयोभिराक्षालिते
येषां नास्पदमार्दधासि हृदये ते शैलसाराशयाः ।
किन्तु प्रस्तुतविप्रतीपविधयोऽप्युच्चैर्भवच्चिन्तकाः
काले कारुणिक, त्वयैव कृपया ते भावनीया नराः ॥ १८ ॥
प्रकाशः ।
कर्मणो दर्शयता न ज्ञानकर्मणोस्तुल्यकक्षतया समुच्चय इत्यभिप्रेतम् । अनुशिष्यते, उपदिश्यते इत्यर्थः ।
ईश्वरोऽवश्यं ज्ञेयो महर्षीणामपि तज्ज्ञानान्वितत्वादित्याह तमिममिति । ईश्वरवेदनस्य फल-
माह तस्मिन्निति । मयि परमेश्वरे मनः संयुज्येत्यर्थः । योगजेश्वरसाक्षात्कारस्य फलमाह शान्ति-
मृच्छतीति । मोक्षं प्राप्नोतीत्यर्थः ॥ १७ ॥
यस्त्वेवं निर्दोषन्यायावगमितं कुतर्काभ्यासान्न प्रत्येति, तं प्रत्याह—
इत्येवमिति । इतिशब्दः स्वरूपार्थः । एवंशब्दश्च प्रकारार्थः । नीतिर्न्यायः । शैलसारः
पाषाणं, लौहं वा, तद्वदाशयो येषां ते तथा, युक्तिप्रतिसन्धानानाश्रयहृदया इत्यर्थः । प्रस्तुते ईश्वरे,
विप्रतीपविधयः प्रतिकूलप्रकाराः, तादृशा अप्युच्चैरत्यर्थं काले कदाचित् भवच्चिन्तका इति योजना ।
भावनीया वासनीयाः शङ्काकलङ्कशून्याः कर्त्तव्या इत्यर्थः ।
प्रकाशिका ।
आसीदनुपमः कोऽपि महादेवः कुलाग्रणीः ।
टिप्पणी ।
सर्वधर्मानिति । अत्र धर्मपदमधर्मस्याप्युपलक्षणम् 'नाविरतो दुश्चरितान्नाशान्तो नासमाहित'
इत्यादिश्रुतेः, 'त्यजधर्ममधर्मं चे'त्यादिस्मृतेश्च, धर्माधर्मावनादृत्य मां परमात्मानमेकं शरणं प्राप्नुहि
मदेकशरणो भवेत्यर्थः । अहं त्वा त्वां सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यः मोक्षयिष्यामि अतो
माशुचः मा शोकं कार्षीरित्यर्थः । प्रासादादीति । भगवन्मन्दिरादीत्यर्थः । ॥ १७-१९ ॥
इत्येष इत्यादि । इतिः समाप्तौ । एष उज्ज्वलश्रीः न्यायकुसुमाञ्जलिः दक्षिणवामकौ सज्जन-
दुर्जनौ यद् वासयेत् अनुरञ्जयेत्, अन्योऽपि कुसुमाञ्जलिः दक्षिणवामनासापुटे अनुरञ्जयति ।
५७६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [१८-२० कारिकाव्याख्यायां
अस्माकन्तु निसर्गसुन्दर ! चिराच्चेतो निमग्नं त्वयी-
त्यद्धाऽऽनन्दनिधे ! तथापि तरलं नाद्यापि सन्तृप्यते ।
तन्नाथ ! त्वरितं विधेहि करुणां येन त्वदेकाग्रतां
याते चेतसि नाप्नुयाम शतशो याम्याः पुनर्यातनाः ॥१९॥
इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलश्री-
र्यद्वासयेदपि च दक्षिणवामकौ द्वौ ।
नो वा ततः किममरेशगुरोर्गुरुस्तु
प्रीतोऽस्त्वनेन पदपीठसमर्पितेन ॥ २० ॥
इति श्रीन्यायाचार्यपदाङ्कितमहामहोपाध्यायश्रीमदुदयनविरचितं
न्यायकुसुमाञ्जलिप्रकरणं समाप्तम् ॥
प्रकाशः ।
अस्माकं त्वश्रद्धा नास्तीत्याह । अस्माकंत्विति । यद्यपि त्वयि चेतो निमग्नमित्यद्धा तत्त्वम्,
तथापि तरलं मनो नाद्यापि सन्तृप्यते तृप्तं भवति । तृपेः क्वचित् सकर्मकत्वात् कर्मकर्त्तरि रूपम् ।
त्वदेकाग्रतां त्वत्प्रवणताम् । याम्या यमदेवताकाः । यातना नरकपीड़ाः ॥ १९ ॥
इत्येष इति । इतिः समाप्तौ । एष नीतिकुसुमाञ्जलिर्दक्षिणवामकौ द्वौ यदि वासयेत् , ततः
किमस्माकम् । यद्वा यद्वासयेदित्यत्र प्रोक्त एव यदि ब्रूयात् माऽस्मान् वासयतीति, तं प्रत्याह नो
वा इति । वासयेदित्यनेन सम्बन्धः । ततः किं । तद्वासनायाः फलं न किञ्चिदित्यर्थः । पदमेव पीठं,
तत्र न्यायकुसुमाञ्जलेर्यत् समर्पणं, तेन भगवान् प्रीतोऽस्तु ॥ २० ॥
यस्तर्कतन्त्रशतपत्रसहस्ररश्मिर्गङ्गेश्वरः सुकविकैरवकाननेन्दुः ।
तस्यात्मजोऽतिविषमं कुसुमाञ्जलिं तं प्रकाशयत्कृतिमुदे बुधवर्द्धमानः ॥
इति महामहोपाध्यायश्रीवर्द्धमानविरचितो न्यायकुसुमाञ्जलिप्रकाशः समाप्तः ॥
प्रकाशिका ।
अनुजस्तस्य कृतवानिमां व्याख्यां भगीरथः ॥
इति महामहोपाध्याय मेघठक्कुरापरनामकश्रीभगीरथविरचितायां
कुसुमाञ्जलिप्रकाशिकायां पञ्चमः स्तवकः ॥
इति कुसुमाञ्जलिप्रकाशिका समाप्ता ।
टिप्पणी
कुतर्काभ्यासमलिनान्तःकरणं कथं वासयिष्यतीत्यत आह नो वेति । अपिच किंवा, नो
वासयेत्, ततः किमस्माकं किन्तु अमरेश इन्द्रस्तस्य गुरुर्बृहस्पतिर्ब्रह्मा वा, तस्य गुरुः उपदेष्टा
परमेश्वरः, पदमेव पीठं तत्र समर्पणं यस्य, तादृशेनानेन न्यायकुसुमाञ्जलिना प्रसन्नोऽस्त्वित्यर्थः ॥२०॥
इति मिथिलादेशालङ्कारसर्वतन्त्रस्वतन्त्रश्रीविद्याभागुरुचरणसेवनसमुपजातविद्येन दरभङ्गामण्ड-
लान्तर्गतसीमाग्रामनिवासिना काशीहिन्दूविश्वविद्यालयदर्शनविभागाध्यक्षेण मैथिलेन
लक्ष्मीनाथझाशर्मणा कृता न्यायकुसुमाञ्जलेः चतुःस्तबकपर्यन्तगुरूकृतटिप्पणी-
तोऽवशिष्टपञ्चमस्तबकमात्रस्य टिप्पणी समाप्ता ।
साम्बशिवायर्पणमस्तु ।