सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

द्वितीयस्तबके ] .. प्रलयोपपादनम् । २८१
उच्यते—
वर्षांदिवद्भवोपाधिर्वृत्तिरोधः सुषुप्तिवत् ॥
उद्भिद्वृश्चिकवद्वर्णा मायावत् समयादयः ॥ २ ॥
तत्पूर्वकत्वमात्रे सिद्धसाधनाद् , अनन्तरतत्पूर्वकत्वे अप्रयोजकत्वाद् , वर्षादि
बोधनी ।
तानि कर्माणि न युगपन्निरुद्धवृत्तीनि विषमविपाकसमयत्वात् इदानीं भुक्तभुज्यमानभोक्ष्यमाणकर्मव-
दिति । किञ्च, सर्गादिभुवां जातिविशेषव्यवस्थापकोत्पादकजातिविशेषाभावाद् ब्राह्मणत्वादि-
वर्णव्यवस्था न स्यात् । विप्रतिपन्ना ब्राह्मणा ब्राह्मणसंतानजन्मानः ब्राह्मणत्वादद्यतनवत् । किञ्च,
सर्गादौ सर्वेषामव्युत्पन्नतवेन समयग्रहणाद्युपपत्तौ शब्दव्यवहारोऽपि लुप्येत । विप्रतिपन्नः शाब्द-
व्यवहारः वृद्धव्यवहारपूर्वकः शाब्दव्यवहारत्वात् अद्यतनवत् । किञ्च, तदानीं कस्यचिदादर्शक-
स्याभावाद् घटादिनिर्माणसंप्रदायो न स्यात् । विप्रतिपन्नं घटादिनिर्माणं तथाभूतादर्शकज्ञानपूर्वकं
घटादिनिर्माणत्वादद्यतनवत् इत्येतैर्हेतुभिर्युगपत्सर्गप्रलययोर भावे सति कथं वेदसंप्रदायविच्छेदः
स्यादिति ॥
पञ्चापि साधनानि दूषयति-उच्यते वर्षादिवत् इति । न तावदहोरात्रपूर्वकत्वे अहोरात्रत्वं
प्रयोजकं, भवस्य ब्रह्माण्डस्थितेस्तत्रोपाधित्वात् । यथा वर्षादिदिनस्य तद्दिनपूर्वकत्वे तद्दिनत्वमप्र-
योजकं राश्यादिसंसर्गोपाधित्वात् । तस्य च कर्मणां युगपद्वृत्तिनिरोधोऽपि सुषुप्तिदशायामिव
संभवति । ब्राह्मणत्वादिनियमोऽपि गोमयादिजातानामिव वृश्चिकादीनामुपपद्यते । समयग्रहोऽपि
सर्गादौ स्वयमेव परिगृहीतप्रयोज्यप्रयोजकवृद्धशरीरव्यवहारस्य परमेश्वरस्य व्यवहारात एव सुकरः,
यथेन्द्रजालिकस्य सूत्रप्रोता दारुमयीपुत्रिकां इदमानयेति नियुज्य तथा कुर्वन्तीभिस्ताभिर्मायाव्यव-
हारे तद्दर्शिनां बालानां, तया घटादिक्रियासंप्रदायोऽपि गृहीतकुलालादिविग्रहेण भगवतैव
सिध्यतीति ।
प्रथमं पादं व्याचष्टे-तत्पूर्वकत्वमात्रे इति । सर्गादिवृत्तिनोऽहोरात्रस्याहोरात्रपूर्वकत्वे
साध्ये सिद्धसाधनं, तस्यापि पूर्वसर्गान्तिमाहोरात्रपूर्वकत्वात् । किञ्च, संप्रतिपन्नाहोरात्रपक्षीकर-
णे सिद्धसाधनं सर्गादिवृत्तिनस्तवाश्रयासिद्धिरिति भावः । नन्वव्यवहिताहोरात्रपूर्वकत्वं साध्यत
इत्यत्राह-अनन्तर इति । तत्राहोरात्रत्वमप्रयोजकं संप्रतिपन्नाहोरात्राणामनन्तरतत्पूर्वकत्वेस्योपा-
ध्यन्तरप्रयुक्तत्वादिति । अप्रयोजकत्वमेव दृष्टान्तेन दर्शयति-वर्षादि इति । यथा हि वर्षाः शरदि-
प्रकाशः ।
वर्षादिवदिति । वर्षादौ, वर्षादिनपूर्वकत्वे साध्ये यथा राश्यादिभेदसंसर्गभेद उपाधिः, तथाऽ-
होरात्रपूर्वकत्वेऽहोरात्रस्य साध्ये भवो ब्रह्माण्डस्य स्थितिकालः, स एवोपाधिरित्यर्थः । सुषुप्तौ
यथा कर्मणां युगपन्निरोधस्तथा अन्यत्रापि स्यादित्याह । वृत्तिरोध इति । यथा तण्डुलीयवृश्चि-
कयोस्तत्पूर्वकत्वेऽपि आद्यौ तौ तण्डुलकणगोमयाभ्यां भवतः, तथा ब्राह्मणादीनां तत्पूर्वकत्वेऽपि
सर्गादौ तज्जनककर्मोपगृहीतभूतभेदात् स्यादित्याह । उद्भिदिति । प्रयोज्यप्रयोजकाद्यधिष्ठातुरी-
श्वरस्यैव व्यवहारान्मायादिव्यवहारादिव तद्दर्शी व्युत्पन्नः स्यादित्याह । मायावदिति ।
विवादाध्यासिताहोरात्रस्याहोरात्रपूर्वकत्वं साध्यम् अव्यवहिताऽहोरात्रपूर्वकत्वं वा ? । नाद्य
इत्याह । तत्पूर्वकत्वेति । पूर्वसर्गाहोरात्रपूर्वकत्वेन प्रलयेऽपि साध्यसिद्धेरित्यर्थः । नान्त्योऽप्रयोजक-
त्वादित्याह । अनन्तरेति । वर्षादीति । तद्दिनं = वर्षादिनम् । ननु शारदाद्यदिनस्य वर्षादिनपूर्वकत्वं
प्रकाशिका ।
वर्षादाविति । वर्षाद्यदिन इत्यर्थः । प्रलये = प्रलयाभ्युपगम इत्यर्थः ।
३६ न्या०कु०

२८२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां
दिनपूर्वकतद्दिननियमभङ्गवदुपपत्तेः । राश्यादिविशेषसंसर्गरूपकालोपाधिप्रयुक्तं हि
तत् । तदभाव एव व्यावृत्तेः । तथेहापि सर्गानुवृत्तिनिमित्तब्रह्माण्डस्थितिरूपकालो-
बोधनी ।
त्यादौ ऋतुमध्यन्दिनानां तत्तद्दिनपूर्वकत्वे तद्दिनत्वमप्रयोजकं संप्रतिपन्नाहोरात्राणां तत्तदृतूनां
प्रथमदिनेषु व्यभिचारात् । यद्वा, वर्षात्तौरादिदिनस्य तद्दिनपूर्वकत्वे साध्ये तद्दिनत्वमप्रयोजकम्-
भ्युपगम्यते, तदाहोरात्रत्वमप्रयोजकमपपद्यत इति । कस्तत्रोपाधिर्येन तद्दिनत्वस्य नियमो भज्यत
इत्यत्राह—राश्यादि इति । राश्यादिविशेषैरादित्यस्य संसर्गात्मको यः कालोपाधिस्तत्प्रयुक्तं तद्दिन
पूर्वकत्वं तस्य कालोपाधेरभावे तद्दिनपूर्वकत्वस्यापि व्यावृत्तेः साध्याभावाविनाभावात्ययत्वादिति
यावत् इति । दाष्टन्तिंकत्वेऽप्यप्रयोजकत्वमुपाधिप्रदर्शनेनाह-तथा इति । सर्गस्यानुवृत्तौ
प्रकाशः ।
साध्यमस्ति, न च राशिविशेषावच्छेद इति साध्याव्यापकत्वम् । न । वर्षादिनत्वे सति यद्वर्षादिन-
पूर्वकं तद्राशिविशेषावच्छिन्नमिति साधनावच्छिन्नसाध्यव्यापकत्वात् । तथापि राशिविशेषावच्छि-
न्नत्वं वर्षादिनत्वस्य साधनस्य व्यापकम् । अत्र, यदा दिनत्वेन वर्षाद्यदिनस्य वर्षादिनपूर्वकत्वं
साध्यते, तदा पक्षधर्मावच्छिन्नसाध्यव्यापकोऽयमुपाधिरिति साम्प्रदायिकाः । किञ्च, विवादाध्या-
सितत्वेनैतत्कालीनाहोरात्रस्य पक्षत्वे सिद्धसाधनम् , सर्गाद्यतत्पक्षत्वे च बाधः । न चाहोरात्र-
प्रकाशिका ।
पक्षधर्मावच्छिन्नेति । अत्र यद्धर्मावच्छिन्नसाध्यस्य व्यापकः = तदवच्छिन्नस्यैव साधनस्याव्यापक
उपाधिरुच्यते । अन्यथा व्यञ्जनवत्त्वादेरपि प्रसिद्धानुमान उपाधितापत्तेः, तथा च प्रकृतोपाधेरुक्त-
पक्षधर्मावच्छिन्नसाधनव्यापकत्वादसङ्गतिरित्यरुचिं विभावयति साम्प्रदायिका इति । तस्माद्
मकरन्दः ।
वर्षादाविति । वर्षाद्यदिने इत्यर्थः । प्रलये = प्रलयाभ्युपगमपक्षे । पक्षधर्मेति । वर्षादि-
नत्वरूपपक्षधर्मावच्छिन्नेत्यर्थः । ननु वर्षाद्यदिनव्यावृत्तो राश्यादिविशेषसंसर्गविशेष उपाधित्वेना-
भिमतः । तदिदमुक्तं प्राक्, राश्यादिभेदसंसर्गभेद उपाधिरिति । तथा च वर्षादिनत्वरूपसाध-
नाव्यापकत्वमप्याद्यदिने सम्भवत्येवेत्यनुशयमाविष्करोति साम्प्रदायिका इति । केचित्तु राशि-
विशेषवत्पूर्वकत्वमत्रोपाधित्वेनाभिमतं, तच्च शुद्धसाध्यव्यापकमेव, शरदाद्यदिनेऽपि तत्पूर्वकत्वस-
त्त्वात् , एवञ्चात्र न साधनव्यापकत्वशङ्काऽपि, वर्षाद्यदिने वर्षादिनत्वरूपस्य साधनस्याव्यापकत्वा-
दित्याहुः । पक्षविकल्पभिया पक्षधर्मत्वमाशङ्क्य परिहरति न चेति । अहोरात्रत्वं अहोरात्रवृत्ति
टिप्पणी ।
साम्प्रदायिका इति । राशिविशेषसंसर्गविशेषो वर्षाद्यदिनव्यावृत्तोऽप्युपाधित्वेनाभिमतस्त-
स्य वर्षाद्यदिन एव साध्यव्यापकत्वम् , पूर्वोक्तानुमान एव सम्भवतीत्यनुमानान्तरानुसरणं
व्यर्थम् । यद्वा राशिविशेषवत्पूर्वकत्वस्यैवोपाधित्वं वाच्यम् तस्य शरदाद्यदिनेऽपि सत्त्वाच्छुद्धस्यै-
वोपाधेः साध्यव्यापकत्वसम्भव इति पक्षधर्म्मत्वाद्यनुसरणं व्यर्थमित्यस्वरसः साम्प्रदायिका इति
सूचितः । न चाहोरात्रत्वमव्यवाहितेति । अहोरात्रमात्रवृत्तिधर्मोऽत्राहोरात्रत्वं विवक्षितं न
त्वहोरात्रत्वमहोरात्रवृत्तिधर्मो वा, आद्ये तत्तदहोरात्रत्वादेः पक्षैकदेशत्वाभावेन पक्षैकदेशस्यापी-
त्यादिग्रन्थासङ्गतेः । न च पक्षैकदेशत्वाभावेऽपि साध्यहेतुमत्तया निश्चितस्य दृष्टान्तत्वसम्भवा-
देवानुमानदोषाभावे ग्रन्थासङ्गतिरकिञ्चित्करीति वाच्यम् । तस्यैव पक्षत्वे सिद्धसाधनतादवस्थ्यात् ।
साध्यघटकाव्यवहितेत्यत्र स्वाश्रयाव्यवहितेत्यस्यैव वाच्यत्वात् सामान्यतोऽव्यवहितत्वस्याव्या-
वर्त्तकत्वात् तत्राहोरात्रत्वे पक्षभूते साध्यसत्त्वसम्पादने स्वपदेन तस्यैवोपादेयतया स्वाश्र-
यपूर्वसर्गीयाहोरात्राव्यवहिताहोरात्रपूर्वकत्वस्य सर्गीयाहोरात्रेऽपि सम्भवेन तदन्तर्भावेनापि व्या-
प्यत्वक्षतेरभावात् । उक्तप्रकारेण पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतया सर्गाहो-

Here is the line-by-line transcription of the Sanskrit text from the image into Devanagari script:

द्वितीयस्तबके ] प्रलयोपपादनम् । २८३
पाधिनिबन्धनत्वात्तस्य तदभाव एव व्यावृत्तौ को दोषः । न च तदनुत्पन्नमनश्वरं
वा अवयवित्वात् ॥
वृत्तिनिरोधस्यापि सुषुप्त्यवस्थावदुपपत्तेः । न ह्यनियतविपाकसमयानि कर्मा-
बोधनी ।
निमित्तभूता या ब्रह्माण्डस्थितिः सा स्वरूपमात्मा यस्य कालोपाधेः स एव निबन्धनमनन्तराहोरा-
त्रपूर्वक्त्वस्य; तन्मात्सर्गादौ तस्योपाधेरभावे साध्यव्यावृत्तिर्नानुपपन्नेति । ननु ब्रह्माण्डस्य सर्व-
दावस्थानात् कथं च तदभावः तत्राह-न चेति । तत् ब्रह्माण्डमुत्पन्नं विनश्वरं च सावयवत्वादिति।
अथ द्वितीयं पादं व्याचष्टे-वृत्तिनिरोधस्यापि इति । दृष्टान्तं विभजते-न हि इति ।
प्रकाशः ।
स्वमव्यवहिताहोरात्रपूर्वकत्वव्याप्यम्, अहोरात्रवृत्तित्त्वधर्मत्वात्, एतदहोरात्रवत् । पक्षैकदेशस्यापि
दृष्टान्तत्वाविरोधात् । साध्यवत्तया निश्चितत्वस्यैव तन्त्रत्वादिति वाच्यम्। अहोरात्रत्वसमानाधिकरण-
त्यन्ताभावप्रतियोगित्वस्योपाधित्वात् । न च ब्रह्माण्डस्य नित्यत्वेन साधनव्यापकोऽयमुपाधिरित्याह।
न चेति । वृत्तिनिरोधस्येति । यथा सुषुप्तौ विषमविपाकसमयान्यपि कर्माणि, युगपन्निरुद्धवृ-
प्रकाशिका ।
वर्षादिनपूर्वकत्वे राशिविशेषावच्छिन्नदिवाकरदिनोत्तरत्वमुपाधिः, स च शरदाद्यदिनेऽपि वृत्तेर्न
साध्याव्यापकः, वर्षाद्यदिने वृत्तेर्न साधनव्यापक इत्येव मूलतात्पर्य्यमिति भावः । अत एव राश्या-
दिविशेषसंसर्गभेद उपाधिरित्युक्तं प्रकाशकृता । अहोरात्रस्याहोरात्रपूर्वकत्वे च साध्ये वत्स-
राद्यनन्तरितब्रह्माण्डावच्छिन्नकालोपाध्युत्तरत्वमुपाधिरित्यवसेयम् । पक्षैकदेशस्यापीति । इद-
म्बाहोशत्रमात्रवृत्तित्वधर्मत्वावच्छिन्नस्य पक्षत्वे, यथाश्रुतेऽहोरात्रत्वस्य सकलाहोरात्रवृत्तित्वधर्म-
विशेषस्य पक्षतायामेतदहोरात्रस्वस्य पक्षान्यत्वादसङ्गतेः पक्षतावच्छेदकावच्छिन्नसाध्यानुमितेश्च
प्रकृतोपयोगितया हेतोरेव पक्षतावच्छेदकतया व्याप्तिग्रहकाल एव सिद्धसाधनमिति निरस्तम् ।
अहोरात्रत्वेति । पक्षैकदेशे चाहोरात्रकत्वे साधनाव्यापकत्वमुपाधिरिति ध्येयम् । न चेति ।
मकरन्दः ।
धर्म इत्यर्थः । तेन पक्षैकदेशस्यापीत्यग्रिमग्रन्थसङ्गतिः । अन्यथैतद्धर्मविशेषस्यापक्षत्वे दृष्टा
न्तस्य तदेकदेशत्वाभावादसङ्गतिः स्यादिति ध्येयम् । न चैवं हेतुपक्षतावच्छेदकयोरभेदोऽशतः
सिद्धसाधनश्चेति वाच्यं, तद्विशेष्यकोद्देश्यप्रतीतेरसिद्धेरिति ।
अहोरात्रत्वेति । अहोरात्रत्वस्य धर्मे पक्षान्तर्भूते साधनाव्यापकत्वमस्येति ध्येयम् । न
चेति । न चानित्यत्वेऽपि ब्रह्माण्डस्य तत्कालीनसर्वमहोरात्रत्वरूपसाधनव्यापकमेव प्रलयकालेऽहो-
रात्रानभ्युपगमादिति वाच्यम् । स्थितिकालपदेन सर्गाद्याहोरात्रव्यावृत्तस्य स्थितिकालविशेषस्योक्त-
टिप्पणी ।
रात्रत्वेनाभिमतव्यक्तिनिष्ठतद्व्यक्तित्वे स्वाश्रयाव्यवहिताहोरात्रपूर्वकत्वस्य न्यायमते तदाश्रयेऽ
सिद्धेः सिद्धसाधनाभावात् । द्वितीये च पक्षतावच्छेदकहेत्वोरैक्येन व्याप्तिग्रहकाले सिद्ध-
साधनप्रसङ्गादिति भावः । अहोरात्रत्वसमानाधिकरणेत्यादि । अहोरात्रवृत्तित्वधर्मत्वरू-
पो हेतुर्न साध्यप्रयोजकः, तस्य परिदृश्यमाननिर्विवान्साध्यवदिदानीन्तनाहोरात्रत्व इव साध्यवत्तया
सन्दिग्धेऽहोरात्रत्वेऽपि निश्चितत्वात्, किन्तूक्तप्रतियोगित्वमेव, तस्य साध्यवत्तया निश्चितेष्वेव
तत्तदहोरात्रत्वेषु सत्त्वादिति इदम्बाद्यहोरात्रत्वे साधनाव्यापक उपाधिरिति यथाश्रुताभिप्रायः। न च
भ्रमान्तस्येत्याद्यग्रिमग्रन्थविरोधः स्यात् । नित्यानित्यत्वेऽप्युभयथैवाहोरात्रत्वे साधनव्यापकत्वस्यो-
पाधेः सत्त्वादिति वाच्यम्। स्वपदार्थघटितोक्तसाध्यस्याहोरात्रत्वसत्त्वादौ निश्चयेन तत्रोपाधेर-
सम्भवात् साध्याव्यापकत्वाद् ब्रह्माण्डान्तःस्थितिकालीनवृत्तित्वस्योपाधितया विवक्षणीयत्वात् ।

३८४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्या
शीति तदानीं कृत्स्नान्येव भोगविमुखानि । न ह्यचेतयतः कश्चिद्भोगो नाम । विरो-
धात् । कस्तर्हि तदानीं शरीरस्योपयोगः ? । तं प्रति न कश्चित् । तर्हि किमर्थमनु-
वर्त्तते । उत्तरभोगार्थं, चक्षुरादिवत् । प्राणिति किमर्थम् । श्वासप्रश्वाससन्ताने-
नायुषोऽवस्थाभेदार्थम्, तेन भोगविशेषसिद्धेः । एकस्यैव तत् कथञ्चिदुपपद्यते, न-
तु विश्वस्येति चेत् । अनन्ततया, अनियतविपाकसमयतया, उपमर्द्योपमर्दकस्वभा-
वतया च कर्मणां, विश्वस्यैकस्य वा को विशेषो येन तन्न भवेत् । भवति च सर्व-
स्यैव सुषुवापः । क्रमेण, न तु युगपदिति चेन्न । कारणक्रमायत्तत्वात् कार्यक्रमस्य ।
न च स्वहेतुबलायातः कारणैः क्रमेणैव भवितव्यम्, अनियतत्वादेव । सर्वग्रास-
वत् । ग्रहाणां ह्यन्यदा समागमनियमेऽपि तथा कदाचित् स्यात् । यथा फलाद्यनि-
बोधनी ।
अनियतविपाकसमयानीत्येतावता सुषुप्तिदशायां कृत्स्नान्यपि भोगाविमुखानि न हि भवन्ति,
किंतु भोगविमुखान्येव । सुषुप्तस्य भोगोत्पादः किमिति न स्यात् अत्राह- न हि इति । अचैतन्यं
सुषुप्तिमूर्च्छादिः, भोगश्च सुखानुभवः । तत्र यदि सुषुप्तस्य भोगः स्यात् तदाऽस्त्यनुभवो नास्ति
चेति विरोधः स्यादिति । यदि तदा न भोगः कश्चित्तर्हि भोगसाधनस्य शरीरस्य कोपयोग
इत्याह- कस्तर्हि इति । गूढाभिसन्धिराह- तं प्रति इति । तं = सुषुप्तमिति । अज्ञातपराभिसन्धिः
पृच्छति- किमर्थम् इति । स्वाभिसन्धिमुद्घाटयन्नुत्तरमाह- उत्तरं इति । यथा हि ज्ञानजननार्थानि
चक्षुरादीनि तदानीं ज्ञानमनुत्पादयन्त्यपि जाग्रद्दशायां तदुत्पादनायानुवर्त्तन्ते तथा शरीरमप्युत्तर-
भोगायेति । कस्तर्हि उत्तरकालं यावत्तावदवस्थितस्य प्राणनस्य तदानीमुपयोग इत्याह-प्राणिति
इति । प्राणनं नाम = शरीरान्तर्वर्त्तिनो वायोर्गतिविशेष इति । श्वास इति । प्राणाख्यस्य वायोः
कालावच्छेदेन संबन्ध आयुरिति । अवस्थाभेदो वा किमर्थ इत्याह-तेन इति । अस्मिन्नवस्था-
भेदे असौ भोगोऽस्मिंस्त्वयमित्यवस्थाभेदेषु भोगविशेषाः प्राणिनां नियताः, ततस्तत्सिद्धयर्थोऽव-
स्थाभेद इति । नन्वस्त्वेकस्यात्मनः कर्मणां युगपद्वृत्तिनिरोधः, न तु विश्वस्यात्मवर्गस्य, न
ह्यनन्तानां भोक्तॄणामनन्तानि कर्माणि युगपन्निरोत्स्यन्त इति संभवतीत्याह-एकस्यैवेति ।
अनन्त इति । अनन्तत्वादीनि हि कर्मणां युगपन्निरोधविरोधीनि; तानि च कर्मणामेकत्वानेक-
त्वयोरविशिष्टानि । तत्र यद्येकस्य सुषुप्तिदशायां तथाभूतानामेव कर्मणां युगपन्निरोधः संभवति ।
किमिति विश्वस्यायं न संभवेदिति । किंच, सुषुप्तिरपि सर्वस्य भवति न त्वेकस्यैवेत्याह-भवति
च इति । तेन कर्मणामेकानेकत्वकृतो विशेषो नास्तीति । ननु सत्यमस्ति सर्वस्यापि सुस्वापः,
स तु क्रमेण न युगपदित्याह-क्रमेण इति । ततश्च न तन्निदर्शनेन युगपत्प्रलयः सिध्यतीति भावः ।
न इति । सुषुप्तेः कारणक्रमवशात् क्रमः, न युगपन्निरोधविरोधादिति । ननु सुषुप्तेरिव प्रलयस्यापि
कारणानि क्रमेण भवन्ति दृश्यन्ते, तद्वत्सर्वदापि किमिति न भवन्तीत्यत्राह- न च इति । न हि
क्वचित्कदाचिद्वा क्रमभावीनि कारणानीति सर्वत्र सर्वदा वा तैस्तथा भवितव्यं स्वहेतूनां क्रमयौग-
पद्यवशेन संभवत्क्रमयौगपद्यानां कारणानामनियतत्वात् क्रमस्येति । एकदा क्रमभाविनामेवा-
न्यदा यौगपद्यं दृष्टमित्याह-सर्वग्रासवत् इति । तदेव विभजते-ग्रहाणामिति । अत्रैव दृष्टा-
प्रकाशः ।
न्तीनि प्रतिवद्धभोगजननानि, तद्वत्तदाऽपीत्यर्थः । आयुष इति । जीवनस्य कालावच्छेद आयुस्त-
दर्थमित्यर्थः । उपमर्द्येति । प्रतिवद्ध्यप्रतिबन्धकस्वभावतयेत्यर्थः । सुसुवाप इति युक्तः पाठः ।
प्रकाशिका ।
न चानित्यत्वेऽपि ब्रह्माण्डस्य तत्कालींनत्वं साधनाब्यापकमैव, प्रलयेऽहोरात्रानभ्युपगमादिति
वाच्यम् । विवक्षितोपाधेराद्याहोरात्रे साधनाब्यापकत्वात् । स्वापसन्तानजनककर्मणामनिरुद्ध-

द्वितीयैस्तबके ] प्रलयोपपादनम् । २८५
यमेऽपि सर्वमण्डलोपरागः स्यात् । त्रिदोषसन्निपातवद्वा । यथा हि वातपित्तश्लेष्मणां
चयप्रकोपप्रशमक्रमानियमेऽपि एकदा सन्निपातः स्यात्तदा देहसंहारः, तथा काला-
नलसंहारपवनमहार्णवानां सन्निपाते ब्रह्माण्डदेहप्रलयावस्थायां युगपदेव भोगरहि-
ताश्चेतनाः स्युरिति को विरोधः ? । तथापि, विदेहाः कर्मिण इति दुर्घटमिति चेत् ।
किमत्र दुर्घटम् ? । भोगनिरोधवच्छरीरेन्द्रियविषयनिमित्तनिरोधादेव तदुपपत्तेः ।
वृश्चिकतण्डुलीयकादिवद् वर्णादिव्यवस्थाप्युपपद्यते । यथा हि, वृश्चिकपूर्व-
कत्वेऽपि वृश्चिकस्य गोमयादाद्यः, तण्डुलीयकपूर्वकत्वेऽपि तण्डुलीयकस्य तण्डुल-
कणादाद्यो, वह्निपूर्वकत्वेऽपि वह्नेररणेराद्यः, एवं क्षीरदधिघृततैलकदलीकाण्डादयः ।
तथा मानुषपशुगोब्राह्मणपूर्वकत्वेऽपि तेषां प्राथमिकास्तत्तत्कर्मोपनिबद्धभूतभेद-
हेतुका एव, स एव हेतुः सर्वत्रानुगत इति सर्वषां तत्सान्तानिकानां समानजा-
बोधनी ।
न्तान्तरमाह-त्रिदोष इति । तदेव विभजते-यथा हि इति । वातादिदोषाणां चयप्रकोपप्रशमा न
नियताः कदाचिद्धि कश्चिच्चीयते कुप्यति शाम्यति वेति, न तु युगपत्सर्वेऽपि । यथाह-चाहटः ।
चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु ।
वर्षादिषु च पित्तस्य श्लेष्मणः शरदादिषु । इति
तत्रैकैकमात्रकोपे रोगः स्यात् । कदाचित् त्रयाणां सन्निपातो युगपत्कोपः स्यात् । तदा देह
एव प्रलीयते । तदप्याह ।
"रोगस्तु दोषवैषम्याद्दोषसाम्यमरोगता ।
वातः पित्तं कफश्चेति त्रयो दोषाः समासतः ।
विकृता विकृता देहं घ्नन्ति ते वर्तयन्ति च" । इति
पक्षेऽप्याह-तथा इति । ब्रह्माण्डात् मनो देहस्य, कालानलः पित्तं, संहारपवनो वातः, महार्णवः
श्लेष्मेति, तेषां कोपे तदपि प्रलीयते । तदां च भोग्यभोगसाधनयोरसंभवे भोगरहिताः कर्मिणस्ति-
ष्ठन्तीत्यांविरुद्धमिति । तथापि इति । न सन्ति देहाः, सन्ति च तेषां निमित्तानि कर्माणीति
व्याहतमिति । किमत्र इति । यथा हि तदानीं सत्स्वेव कर्मसु तन्निरोधात् भोगो निरुध्यते,
तथाऽत एव भोगसाधनदेहादिनिरोधोऽपि घटिष्यत इति ।
तृतीयं पादं व्याचष्टे-वृश्चिक इति । दग्धाद्वेत्रबीजात् कदलीकाण्डोत्पत्तिरित्यादयः ।
पक्षेऽप्याह-तथा इति । तेषां मानुषादीनाम् । तत्तत्कर्म इति । तत्तन्मानुषत्वादिजातिभेदनि-
मित्तादृष्टवदात्मसंयुक्कारम्भकपरमाणुभेदहेतुका इति । तर्हि वैजात्यात्कारणस्य कार्यसाजात्यं न
स्यादित्यत्राह-स एव इति । अद्यतनानामप्यदृष्टोपनिबद्धभूतभेदहेतुकैव जातिव्यवस्था, ततश्च
न कारणवैजात्यमिति । यदि सर्वत्र कर्मोपनिबद्धभूतभेदहेतुर्जातिनियमः, तर्ह्यत्पादकजातिपूर्वकत्व-
प्रकाशः ।
"सुविनिर्दुर्भ्यः सुपिसूतिसमा" इत्यनेन कृतसंप्रसारणस्यैव सुपेः षत्वविधानात् । तथाऽपीति ।
कर्मभिर्भोगजनने देहस्यावश्योत्पाद्यत्वादित्यर्थः । भोगेति । तदानीं कर्मभिर्भोगजननात् तदर्थं
देहोत्पादनमित्यर्थः । तण्डुलीयकमृद्भिद् दृष्टान्तः। एवमिति । क्षीरादक्षीराच्च परमाणोः क्षीरम् ,
एवं दध्याद्यपीत्यर्थः । नन्विदानीं ब्राह्मणत्वादिव्यवस्थापकं विशुद्धमातापितृजत्वादिकं, सर्गादौ
तु कर्मैत्यननुगम इत्यत आह । स एवेति । इदानीमप्यदृष्टविशेषोपगृहीतभूतजनितत्वेनैव तद्वय-
प्रकाशिका ।
वृत्तित्वकत्वाद् व्याचष्टे । प्रतिबद्ध्येति । तण्डुलीयकमिति । "उद्भिद्वृश्चिकच-
मकरन्दः ।
त्वात् । श्वासजनककर्मणां वृत्तिलाभादसिद्धिरिति विवृणोति प्रतिबद्ध्येति । तण्डुलीयेकेति ।

२८६ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ २ कारिकान्याख्याने
तीयत्वमिति किमसङ्गतम् ? । गतं तर्हि गोपूर्वकोऽयं गोत्वादित्यादिना । न गतम्,
योनिजेष्वेव व्यवस्थापनात्, मानसास्त्वन्यथाऽपीति । गोमयवृश्चिकादिवद् इदानी-
मपि किं न स्यादिति चेन्न । कालविशेषनियतत्वात् कार्यविशेषाणाम्, न हि वर्षासु
गोमयाच्छालुक इति हेमन्ते किं न स्यात् ॥
समयोऽप्येकेनैव मायाविनेव व्युत्पाद्यव्युत्पादकभावावस्थितनानाकायाधिष्ठा-
नाद् व्यवहारात एव सुकरः । यथा हि मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकमिद-
मानयेति प्रयुङ्क्ते, स च दारुपुत्रकस्तथा करोति तदा चेतनव्यवहारादिवत् तद्दर्शी
बालो व्युत्पद्यते, तथेहापि स्यात् । क्रियाव्युत्पत्तिरपि तत एव कुलालकुविन्दा-
दीनाम् ।
सर्गादावेव किं प्रमाणमिति चेत् । विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवा-
बोधनी।
मुत्पाद्यजातीनामिति नियमो निरस्तः स्यात् इत्याह-गतं तर्हि इति । न गतम् इति । न च
सोऽपि नियमः सर्वथा निरस्यत इति । कथमित्याह-योनिजेषु इति । योनिजेष्वेवायं नियमो
नायोनिजेष्विति केवलं व्यवस्थाप्यते, तेन मानसानामन्यथात्वमपि संभवतीति । नन्वन्यत्वेऽपि
यथा गोमयाद् वृश्चिका जायन्ते तथा मनसाऽपि केचिज्ञ्जायन्ताम् इत्याह-गोमय इति । न इति ।
कालविशेषलक्षणसहकारिविरहादित्यर्थः । तत्रैव दृष्टान्तमाह-न हि इति । तथा सर्गादावेवादृष्टोप-
निबद्धभूतहेतुको जातिनियमः, नेदानीमपीति सिद्ध एव ।
संग्रहस्य तुरीयं पादं व्याचष्टे-समयोऽपि इति । मायाविनेत्येतद्विभजते-यथा हि इति ।
शब्दव्युत्पत्तिवद् घटादिनिर्माणव्युत्पत्तिरपि कुलालादिभावव्यवस्थितकायानाधिष्ठाय पटादिकं
निर्मिमाऐनैवेश्वरेण सुकरेत्याह-क्रियाव्युत्पत्तिरपि इति ।
ननु सर्गप्रलययोः सिद्धौ सर्वमेतदेवं स्यात्, तयोरेव सिद्धिः कुतस्त्येत्याह-सर्गादौ इति ।
सर्गसिद्धौ तावदनुमानमाह-विश्वसंतानो ऽयम् इति । अवयवावयविप्रवाहः संतानः, सिद्धसा-
ध्यतान्निवृत्यर्थमुक्तं-विश्व इति । दृश्यसंतानशून्यैः इति । यथा ह्यद्यत्वे घटादिकार्याणि
तदारम्भकैः परमाणुभिः तदारम्भात् पूर्वदृश्यमानमृत्पिण्डादिकार्यसंतानवद्भिरारभ्यन्ते, नैवं सर्व-
दापीति । कदाचिद्दृश्यसंतानशून्यैरनारब्धसर्वकार्यैः स्वरूपेणावस्थितैरिति यावत् । परमाणुभिर्विश्वं
कार्यमारभ्यते यथा हारणिजनितोऽग्निः संतानान्तरशून्यैरवारणिवर्तिभिरान्नेयपरमाणुभिरारभ्यत
प्रकाशः।
इत्येतार्थः । गतमिति । सर्गायगोव्यक्तौ व्यभिचारादित्यर्थः । योनिजेष्विति । योनिजमात्रवृत्ति-
गोत्वव्याप्यजातेस्तत्र हेतुत्वादित्यर्थः। तन्निश्चयश्च कालविशेषवृत्त्येति भावः ।
समयोऽपीति । नन्वीश्वरव्यवहाराच्छक्तिग्रहे स भ्रमः स्यात् । व्यवहारहेतुतज्ज्ञानस्य
नित्यतया शब्दजन्यत्वबाधात् । तथा च तन्मूलकः सर्वशाब्दव्यवहारो भ्रमः स्यात् । न । घट-
पदं घटज्ञानमित्यस्य भ्रगत्वेऽपि घटपदं घटशक्तमित्यस्य ज्ञानस्य सत्यज्ञानत्वाद् विषयाबाधावात्।
न च भ्रममूलकत्वेन भ्रगत्वम् । विशेष्यावृत्तिप्रकारकत्वस्योपाधित्वात् । अत एवानुरूपं
दृष्टान्तमाह । यथा हीति ।
विश्वसन्तान इति । ननु विश्वशब्देन ब्रह्माण्डपक्षत्वे तदसिद्ध्या आश्रयासिद्धि, कार्यमात्र-
पक्षत्वे क्रमारब्धदहनपवनादिन्यायेनारम्भेऽपि प्रलयासिद्धौ सिद्धसाधनम्। एकदेति विशेषणे
टिप्पणी।
प्रलयेऽहोरात्रत्वानभ्युपगमेऽपि ब्रह्माण्डस्यानित्यत्वे सर्गायहोरात्रव्यक्तित्वे साधनाव्यापक-

द्वितीयस्तबके ] प्रलयोपपादनम् । २९७
प्रकाशः ।
तेनैव व्यभिचारात् । एकदाऽऽरम्भहेतुसाकल्ये सतीति विशेषणासिद्धेः । साध्यमपि कार्यद्रव्य-
शून्यसमवाय्यारभ्यत्वं कार्यमात्रशून्यसमवाय्यारभ्यत्वं वा ? । आद्ये सिद्धसाधनमन्त्ये
बाधः, आरम्भकसंयोगादेः सत्त्वात् । अथैककालीनाः सर्वे परमाणवः कदाचित् समप्रोपादेय-
प्रबन्धशून्याः, आरम्भकत्वान्नष्टपवनारम्भकपरमाणुवत् । सर्वत्र पक्षतावच्छेदकावच्छिन्न-
साध्यं प्रतीयते इत्येककाले शून्यता लभ्यते । न च पवनपरमाणूनामपि पक्षत्वेनांशतः
सिद्धसाधनम् । पक्षधर्मतावल्लभ्यसाध्याप्रतीतेः । अमेदानुमानवज पक्षस्यापि दृष्टान्तत्वाविरोधः ।
न । कार्यद्रव्याधिकरणकालमात्रवृत्तित्वस्योपाधित्वात् ।
प्रकाशिका ।
दिति" कारिकायामुन्द्रिच्छब्देन तण्डुलीयकशाकविशेषो दृष्टान्त इत्यर्थः । तेनैवेति । धूमारब्धद
हनादिनेवेत्यर्थः । .. समप्रोपादेयप्रबन्धशून्यत्वं सामान्याभावः स च बाधितः । इदानीं
प्रतिबन्धसत्त्वादिति कदा चिदिति विशेषणम् । उपादेयपदं = स्वोपादेयद्रव्यपरमतः खण्डप्रल-
येऽपि कर्म्मादिसत्त्वान्न बाधः । आरम्भकत्वादिति । द्रव्यसमवायिकारणत्वादित्यर्थः । तेन ना
काशादौ व्यभिचारः । नष्टेति । न च तेजोट्वयोरपि संसर्गिद्रव्यतया तेनापि द्रव्यान्तरजनने
दृष्टान्तस्य साध्यवैकल्यमिति वाच्यम् । पूर्वद्रव्यनाशकालीनस्य परमाणोः साध्यवत्त्वानिश्चयात् ।
कार्यद्रव्येति । ननूपाधिदातुर्रमते मात्रपदव्यवच्छेद्याऽप्रसिद्धिः । न च न्यायमतेनैवाय-
मुपाधिः स्यादिति ग्रन्थयोजना दृष्टान्तीकृतपरमाणोरेव साध्याव्यापकत्वात् । न च प्रलयासिद्धौ
साध्यव्यापकतासन्देहोऽस्त्येवेति वाच्यम् । प्रलयस्य सिद्धावसिद्धौ चोपाधिताप्रयोजकान्यतररूपन्य-
मकरन्दः ।
उन्द्रित्पदेन शाकविशेष एव दृष्टान्ततयोक्त इति भावः । तेनैवेति । कमारब्धदहनपवनादिने-
त्यर्थः । तस्यैकदाऽऽरब्धत्वाभावादिति भावः । संप्रति तद्बाधितमित्यत आह कदा चिदिति ।
उपादेयपदं स्वोपादेयद्रव्यपरं, तेन खण्डप्रलयसाधने न बाधः । कार्यद्रव्येति । ननु मात्र-
पदोपादाने दृष्टान्तितपवनपरमाणावेव साध्याव्याप्तिः, तस्य प्रलयेऽपि वृत्त्या तादृशकालमा-
त्रवृत्तित्वाभावात् । तदनुपादाने साधनव्यापकत्वम् । उपादिदातृर्मते मात्रपदव्यवच्छेद्यकार्यद्रव्या-
नधिकरणकालाप्रसिद्धिश्च । अत एवेदमेवानुमानं सिद्धान्तितं शब्दखण्डे, अन्यथा सोपाधित्वे तद-
नुपपत्तेः, तस्मादयमनुपाधिरेव । प्रलयसन्देहदशायामुपाधित्वेनास्य सन्देहो दूषक इत्याशयेनास्यो-
पाधित्वेनोद्भावनम् । न च मात्रपदव्यवच्छेद्यासिद्धेरस्यैवाप्रसिद्धतया कथं तथात्वमपीति वाच्यम् ।
न्यायमतेन तथात्वसम्भवादिति वदन्ति । वयन्तु ब्रूमः । न्यायमतेनैवास्योपाधित्वम् । एवञ्चोपा-
धित्वादित्यस्य पूर्वे त्वन्मत इति पूरणीयम् । तथा च नाप्रसिद्धिर्न वा साधनव्यापकत्वम् । साध्या-
व्यापकत्वन्तववशिष्यते, तदपि न, सावयवत्वाणुभिन्नत्वाद्यवच्छिन्नसाध्यव्य पकतया पर्यवसित-
साध्यव्यापकत्वात् । न चैवं स्वीकृतत्रिविधोपाधिवहिर्भावेऽपसिद्धान्तः, तस्योपलक्षणपरत्वात् ।
अत एव वायुः प्रत्यक्षः प्रमेयत्वादित्यादौ रूपवत्त्वावच्छिन्नसाध्यव्यापकमुद्भूतत्वमुपाधिः सर्वसिद्धः ।
न च न्यायमतेन सिद्धान्तितत्वादव्यभिचरिते प्रकृतहेतौ नोपाधिरिति वाच्यं, शून्यपदस्य ध्वंस-
परतया कादाचित्काभावपरतया वा यथाश्रुते हेतोर्मनःप्रभृतौ व्यभिचारेणास्य सङ्गतत्वात् । अत
एवारम्भकत्वादिति हेतुरुक्तः, अन्यथा मेयत्वादिकमेव समर्थं स्यात् । द्रव्यसमवायिकारण-
त्वविवक्षया च सिद्धान्तत्वमिति न विरोधगन्धोऽपीति तत्त्वम् । कालमात्रपदयोरन्यतरान्तर्भावेण
तन्मतेऽपि सन्दिग्धोपाधिपरत्वमित्याहुः । न चेति । व्योमादिसमानकालीनतया तदति-
रिक्तत्वमसम्भवतीत्यत आह कार्येति । बाधवारणाय द्रव्येति । दृष्टान्तसिद्ध्यर्थमाह
टिप्पणी ।
त्वात् नित्यत्वे च तत्राप्यस्त्येवोपाधिरिति नासङ्गतिः । कार्यद्रव्याधिकरणकालमात्रेति ।

३८८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां
प्रकाशः।
न च परमाणवः कार्यद्रव्यसमानकालिकपरमाणुक्रियाऽतिरिक्तक्रियावन्तो मूर्तत्वात् पटवदि-
त्यावान्तरप्रलये, महाप्रलये च कार्यद्रव्यसमानकालिकैतद्वृत्तिध्वंसान्यध्वंसवन्तः तत एव तद्वदिति
प्रकाशिका।
तिरेकनिश्चयात् सामान्यतोऽनुपाधितानिश्चयात्, प्रलयस्वीकारे साधनव्यापकत्वनिश्चयेऽपि साध्या-
व्यापकत्वनिश्चयादस्वीकारे च साध्यव्यापकत्वनिश्चयेऽपि साधनव्यापकतानिश्चयात् । न च प्रलय-
स्वीकारेऽपि सावयवत्वावच्छिन्नसाध्यव्यापकोऽयमुपाधिरुपाधित्रैविध्याभिधानस्योपलक्षणपरत्वादिति
ति वाच्यम् । सावयवत्वावच्छिन्नसाधनव्यापकत्वात् । यद्धर्मावच्छिन्नसाध्यव्यापकस्तद्धर्मावच्छिन्न-
साधनव्यापकस्यैवोपाधित्वात् । अन्यथा प्रसिद्धानुमाने व्यञ्जनवत्त्वादेरुपाधितापत्तेः । किञ्चात्रानुमाने
व्याप्तिदोषो नास्त्येवेति कथमुपाधिः सङ्गच्छताम् । अत एव चिन्तामणिविदमेव सिद्धान्तानुमान-
मुक्तमिति । अत्राहूः। आरम्भकत्वमात्रं हेतुर्न च द्रव्यविशेषितमेवञ्च यथा निरुक्तस्य साध्यस्याका-
शादावसत्त्वेन हेतोर्व्यभिचार इति एवं द्रव्यविशेषितहेत्वभिप्रायेण च चिन्तामणौ सिद्धान्तानुमान-
मिदम् । अणुभिन्नत्वावच्छिन्नसाध्यव्यापकश्चायमुपाधिः । कपालादौ निरुक्तसाध्यव्यापकत्वादाका-
शादौ तदवच्छिन्नसाधनाव्यापकत्वाच्च न्यायमतेनैवायमुपाधिरतो न मात्रपदव्यवच्छेद्याप्रसिद्धिः। का-
लपदमुपाधौ त्याज्यमेव तथा सति आकाशादेरेव मात्रपदव्यवच्छेद्यत्वमित्यप्याहुः । वस्तुतं उपा-
धिपदं प्रकृतेऽवच्छेदकपरं तेनायमर्थः, एककालीना इत्यत्र प्रलयरूपकालोपाधेरेवावच्छेदकत्वेऽ-
प्रसिद्धिरिति संसाररूपकालोपाधिरेव पक्षतावच्छेदको वाच्यः । तथा सति बाधापत्तिरिति । अनयैव
रीत्या कार्यद्रव्यानधिकरणेत्यपि क्वाचित्कः पाठो योजनीयः, संसारकालस्यावच्छेदकत्वे बाध
इति तदन्यः कालोपाधिरवच्छेदको वाच्यः । तत्र चाप्रसिद्धिरित्येवं कृत्वा, मात्रपदं च उभयपाठप
क्षेऽपि व्युत्क्रमेण योजनीयम् । कार्यद्रव्याधिकरणकालवृत्तित्वमात्रमिति क्रमेणेति दिक् ।
न च परमाणव इति । व्योमादेः प्रलयेऽपि सत्त्वाद्वाध इति कार्येति । क्रियाकाले कार्यावश्य-
म्भावेन बाध इति द्रव्येति । दृष्टान्तसिद्ध्यर्थं परमाण्विति । पक्षधर्मतावलात् कार्यद्रव्यसमान-
कालीनक्रियासिद्धौ, प्रलयसिद्धिरिति भावः । योग्यतैवात्र साध्येति न निष्क्रिये विनष्टे व्यभिचारः ।
क्रियावत्त्वमेव वा हेतुत्वेन विवक्षितमिति स्मर्त्तव्यम् । तत एवेति । ध्वंसवत्त्वादेवेत्यर्थः । न च
यस्मिन् परमाणौ प्रथमत एव संयोगादिसमस्तकार्यध्वंसः, पश्चाच्च परमाण्वन्तरकर्मनांशेन महाप्रल-
यस्तस्मिन्नंशतो बाधव्यभिचाराविति वाच्यम् । संयोगनाशाय क्रियायास्तन्नाशाय वा संयोगस्य
स्वीकारेणादृष्टनाशादेव चरमनाशे सर्वत्र साध्यसत्त्वात्। योग्यतैवात्रापि साध्येति क्रियावत्वमेवात्रापि
मकरन्दः।
परमाण्विति । मूर्त्तत्वादिति । क्रियावत्त्वादित्यर्थः । तेन निष्क्रिये विनष्टे न व्यभिचारः । योग्यता
साध्येत्यन्ये । तत एवेति । मूर्त्तत्वादेवेत्यर्थः । अत्रापि योग्यतायाः साध्यत्वान्नोत्पन्नविनष्टे व्यभिचारः ।
वस्तुतो मूर्त्तपदं ध्वंसवत्परमन्यथाऽवच्छिन्नपरिमाणवत्परत्वे व्यर्थविशेषणत्वापत्तेरिति ध्येयम् ।
टिप्पणी।
न्यायमतेनैवेदमुपाद्युद्भावनम्, तव मते इति च शेषः । यद्यपि दृष्टान्ते साध्याव्या-
पकत्वम् । तथापि अणुभिन्नत्वावच्छिन्नसाध्यव्यापकत्वादाकाशे तादृशसाधनाव्यापकत्वाच्च
भवत्युपाधिः, न चाकाशे साध्यसत्त्वनिश्चयः, एतदनुमानपूर्व प्रलयस्य सन्दिग्धत्वात्,
साध्यवत्तया निश्चिते यावत्युपाधिनिश्चयस्यैव दूषकत्वात् साध्याव्यापकत्वस्य सन्दिग्धस्यापि दूष-
कत्वात् । मात्रपद्व्यावर्त्यस्य न्यायमते प्रलयस्य सत्त्वान्न तद्वैयर्थ्यशङ्का । वस्तुतस्तूपधिपदमव-
च्छेदकपरम्, तथा चैककालीनता इत्यत्र पक्षतावच्छेदककालवृत्तित्वं कार्यद्रव्याधिकरणकाल-

द्वितीयस्तबके १] प्रलयोपपादनम् । २८६
प्रकाशः ।
वाच्यम् । एतदन्यगुणवत्त्वस्योपाधित्वात् । नाप्यारम्भककालान्यवृत्तिध्वंसप्रतियोगिवृत्तिकार्यद्रव्यत्वं,
स्वाधिकरणानधिकरणवृत्तिध्वंसप्रतियोगिवृत्ति, कार्यमात्रवृत्तिधर्मत्वात्, एतत्प्रदीपत्ववदिति,
वाच्यम् । स्वपदेन पक्षभिन्नाभिधानेऽनन्वयात् । पक्षाभिधाने त्वप्रसिद्धिः ।
अत्राहुः। विश्वसन्तानपदेन कार्यमात्रवृत्त्यनेकवृत्तिधर्मः कार्यद्रव्यत्वं पक्षः। तथा हि, समयसम-
• प्रकाशिका ।
तत इत्यनेन परामृश्यते मूर्त्तत्वस्यावच्छिन्नपरिमाणवत्त्वार्थकत्वे अवच्छिन्नपदवैयर्थ्यादिति कश्चित् ।
एतदन्येति । पक्षेतरत्वनिरासाय तदन्यत्वं विहाय एतद्वृत्तिगुणान्यगुणवत्त्वपर्यन्तानुधावनम् ।
यद्यप्ययमपि पर्वतेतरद्रव्यत्ववन्नोपाधिः साध्यव्यापकताग्राहक सत्त्वे तु वह्नीतरत्ववदेतदन्यत्वमुपाधिः
सम्भवत्येव, तथापि हेतोरप्रयोजकत्वे तात्पर्य्यम् । नाप्यारम्भकेति । आकाशवृत्तिध्वंस-
प्रतियोगिवृत्तित्वमादायार्थान्तरमिति वृत्तयन्तः पक्षविशेषणम् । तस्यापि तादृशध्वंसप्रतियोग्यवृत्ती-
त्यर्थोऽन्यथो कार्यान्तरतादवस्थ्यात् । इयञ्च कालाघटितसाध्यपक्षे व्याख्या । यदा तु कालघटितं,
साध्यंतदोक्तार्थान्तरशङ्का विरहादुपरञ्जकमेव तद्विशेषणम् । स्वपदेनेति । पक्षभिन्नस्य दृष्टान्ती-
कृतैतत्प्रदीपत्वादेरभिधाने अनन्वयः, उद्देश्यप्रलयासाधकत्वात् । पक्षाभिधाने तु तादृशकालाप्रसि-
द्धेरित्यर्थः । इदञ्च कालघटितसाध्यपक्षे व्याख्यानम् । तदघटितसाध्यपक्षे तु पक्षभिन्नायावद-
भिधाने तदधिकरणानधिकरणधर्मिणोऽभावात् साध्यस्य क्वचिदप्यसत्त्वादनन्वयः । पक्षाभिधाने
त्वप्रसिद्धिः, दृष्टान्ते साध्यासिद्धिरिति व्याख्याता उक्तदोषनिरासाय स्वपदकालपदाघटितं साध्य-
मादाय सिद्धान्तयति-तथा हीति । आकाशादिवृत्तिध्वंसप्रतियोगिवृत्तित्वमादायार्थान्तरशङ्का
मा भूदिति बाघस्फोरणाय समयेत्यादि अवृत्तीत्यन्तं पक्षविशेषणम् । समयपदं साधारणाधिक-
रणपरमतो न पक्षविशेषणासिद्धिः, तादृशशब्दवृत्तित्वेनार्थान्तरमिति पक्षे, द्रव्यपदं स्वरूपासिद्धि-
वारणाय, पक्षे कार्यपदं महाप्रलयेनार्थान्तरवारणाय, साध्ये समानकालीनान्तमधिकरणान्त-
विशेषणं न तु ध्वंसविशेषणमिदानीन्तनध्वंसस्यापि महाप्रलये सत्त्वादुक्तार्थान्तरतादवस्थ्यात् । ध्वंस-
मकरन्दः ।
एतदन्येति । यद्यपि पक्षेतरत्वनिरासाय गुणवत्पदमयुक्तं, साध्यव्यापकताग्राहक सत्त्वे वह्नीतरत्व-
वत्त्वस्याप्युपाधित्वात्, तदसत्त्वे पर्वतेतरद्रव्यत्वादिवदस्यापि पक्षेतरतुल्यत्वेनानुपाधित्वात्, तथापि
हेतोरप्रयोजकत्वे तात्पर्य्यम् । अनन्वयादिति । प्रकृतानन्वयात् कार्य्यद्रव्याधिकरणकालासिद्धे-
रित्यर्थः । पक्षेति । कार्य्यद्रव्याधिकरणद्रव्यादेः प्रसिद्धत्वेऽपि तादृशंकालस्याप्रसिद्धेः साध्ये काल-
पदान्तर्भावादप्रसिद्धिरिति भावः । एतदनन्तर्भावेण सिद्धान्तमाह तथा हीति । समयेत्युपलक्षणं
तदुपाधि-दिक्-तदुपाध्यादिकमपि बोध्यम् । एतच्च तादृशाकाशवृत्तिध्वंसप्रतियोगिवृत्तित्वेनार्थो-
न्तरं मा भूदिति बाधस्फोरणाय समवायिपदं द्रव्यसमवायिपरम् । तादृशशब्दवृत्तित्वेनार्थान्तर-
वारणाय पक्षे द्रव्यपदम् । महाप्रलयेनार्थान्तरवारणाय कालीनान्तं ध्वंसविशेषणम् । कार्य्यप्राग-
भावपदयोरन्यतरान्तर्भावेण साध्यद्वयं बोध्यम्, अतो न व्यर्थविशेषणत्वम् । कार्यपदं भावकार्य्य-
परम् । कार्य्यद्रव्यानधिकरणत्वं कार्य्यद्रव्याभाववत्त्वं, तच्च कपालादावपीति तद्वृत्तिध्वंसमादायार्था-
टिप्पणी ।
वृत्तित्वं न तु प्रलयवृत्तित्वन्तस्यासिद्धेस्तथा च बाध इति भावः । एतदन्यगुणवत्त्वस्योपाधित्वा-
दिति । यद्यप्येतस्य पक्षेतरत्वतुल्यत्वम् । तथापि हेतोरप्रयोजकत्वे तात्पर्य्यम् । आरम्भकका-
लान्येति । आरम्भको द्रव्यसमवायिकारणं तस्मात् कालाच्च यदन्यत् तद्वृत्तिध्वंसप्रतियोगिवृत्ति-
त्वाभावादित्यर्थः । उक्तविशेषणोपादानादाकाशवृत्तिध्वंसप्रतियोगित्वमादाय नार्थान्तरम् । कालघ-
३७ न्या० कु०

यिभिरारब्धः। सन्तानत्वाद्वारोयसन्तानवत्। वर्त्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पा
इति। प्रलयेऽपि प्रमाणमाह-वर्त्तमान इति। यदि संतानानारम्भकत्वादित्येवोच्येत द्व्यणुकादिभि
र्व्यभिचारः स्यात्, न हि ते पूर्वमुत्पादितसंतानान्तराः अथ चारम्भकाः, अतस्तद्व्यवच्छेदायोक्तं-
वायिभिन्नवृत्तित्वंसप्रतियोग्यवृत्तिकार्यद्रव्यत्वं, कार्यद्रव्यप्रागभावसमानकालीनारम्भकातिरिक्तकार्यद्र-
व्यानधिकरणवृत्तित्वंसप्रतियोगिवृत्ति, कार्यमात्रवृत्तिधर्म्मत्वात्, शब्दत्ववत्। न चात्र विभुवृत्तित्वं वृत्तित्व
मुपाधिः। अन्त्यावयविकर्मत्वे साध्याव्यापकत्वात्। वर्त्तमानेति। ब्रह्माण्डस्यागमसिद्धत्वानाश्रया-
प्रागभावात्मककर्मादिसमानकालीनो द्रव्यध्वंसो महाप्रलयाव्यवहितक्षणे भवत्येवेति तमादायार्था-
न्तरवारणाय द्रव्यपदम् कार्यद्रव्यपदयोस्तु विकल्पेनान्वयः कार्यपदञ्च भावकार्यपरं कार्यद्रव्यान-
धिकरणत्वं कार्यद्रव्याभाववत्त्वमेवोक्तं तच्च कपालादावस्त्येवेति कपालादिकमादायार्थान्तरवारणाया-
रम्भकातिरिक्तेत्यनधिकरणान्तविशेषणम्। आरम्भकपदं द्रव्यसमवायिकारणपरमतो न दृष्टान्ते-
साध्यवैकल्यम्। कार्येति। अनन्तत्वे व्यभिचारवारणाय इति। मात्रेति। न चैवमपि ध्वंसत्वे
व्यभिचारः, भाववृत्तित्वे सतीति विशेषात्। नन्वेवमपि चरमक्रियात्वे व्यभिचारः, न च प्राग्भा-
वसमानकालीनकार्यमात्रवृत्तित्वादिति हेतुरिति वाच्यम्। तथापि चरमस्वर्गीयघटत्वे व्यभिचा-
रात्। न च तादृशध्वंसप्रतियोगिजातीयवृत्तित्वं साध्यमिति वाच्यम्। तथा सत्यनन्तत्वे तज्जातीय-
व्योमादिवृत्तितया साध्यसत्त्वेन मात्रपदवैयर्थ्यापत्तेः। न च ध्वंसप्रतियोगित्वमपि जातीयविशेषण
मिति वाच्यम्। तस्याप्रयोजकत्वेन व्यापकतानवच्छेदकत्वादिति।
अत्र मिश्राः। मात्रपदं हेतौ कात्स्न्र्यार्थकमिति विभाजकोपाध्यवच्छिन्नयावत्कार्यवृत्तित्वा-
दिति हेतुः। कार्यपदं च भावकार्यपरमिति वदन्ति। तदपि चिन्त्यम्। तथा सति पक्षे कार्यपद-
स्याप्रयोजकत्वापत्तेरिति। अत्र ब्रूमः। अनादितावच्छेदकधर्म्मत्वादिति हेत्वर्थः, अनादित्वं
च सजातीयध्वंसव्याप्यप्रागभावप्रतियोगित्वम्। व्याप्तिश्च कालिकीति न काप्यनुपपत्तिरिति दिक्।
अन्त्येति। अन्त्यावयविनिष्ठकर्म्मवृत्तितयैव कर्म्मत्वे साध्यमित्याविष्कर्त्तुमन्त्यावयविप-
न्तरवारणायारम्भकेति। द्रव्यसमवायिकारणातिरिक्त इत्यर्थः। कार्यमात्रेति। ननु ध्वंसत्वे व्य-
भिचारः। न च कार्यपदं भावकार्यपरं, मात्रपदवैयर्थ्यापत्तेः। न च भाववृत्तित्वे सति कार्यमा-
त्रवृत्तित्वमर्थः, तथा चानन्तत्वे व्यभिचारवारणाय मात्रपदमिति वाच्यं, तथापि चरमज्ञानत्वादौ
व्यभिचारापत्तेरिति चेन्न, तादृशध्वंसप्रतियोगिजातीयवृत्तित्वस्य साध्यार्थस्य तत्रापि सत्त्वात्।
न चैवमपि मात्रपदवैयर्थ्यमनन्तत्वे तज्जातीयव्योमादिवृत्तितयाऽपि साध्यसत्त्वादिति वाच्यम्। ध्वंस-
प्रतियोगित्वेनापि जातीयस्य विशेषणात्। अधिकं शब्दप्रकाशे द्रष्टव्यम्। अन्त्यावयविपदोपादानं
टितस्य साध्यत्वे तूपरञ्जकमेवेदम्। कार्यद्रव्यप्रागभावसमानकालीनेति। महाप्रलयेनार्थान्तरवा-
रणाय कालीनान्तम्। कार्यमात्रवृत्तिधर्म्मत्वादिति। ध्वंसवृत्तितया कार्यमात्रवृत्तावनन्तत्वे
व्यभिचारवारणाय मात्रपदम्, तस्याकाशादिवृत्तित्वात्। न च ध्वंसत्वे व्यभिचारस्तस्य कार्यमा-
त्रवृत्तित्वादिति वाच्यम्। तद्वारणाय भाववृत्तित्वे सतीत्यस्य विशेषणीयत्वात्। मात्रपदोपादानव-
लाद् वा भावकार्यवृत्तित्वे तात्पर्ष्यलाभात्। उक्तध्वंसप्रतियोगिजातीयध्वंसप्रतियोगिवृत्तित्वं
साध्यं नातः सर्वमुक्तत्मकंमहाप्रलयाव्यवहितपूर्ववर्त्तित्वज्ञानत्वे व्यभिचारः, विवक्षितसाध्यस्य

[द्वितीयस्तबके] प्रलयोपपादनम् । २६१
दितसजातीयसन्तानान्तराः, नित्यत्त्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवदित्या-
दि । अवयवानामावापोद्वापादुत्पत्तिविनाशौ च स्यातां, सन्तानाऽविच्छेदश्चेति को
विरोध इति चेन्न । एवं तर्हि घटादिसन्तानाविच्छेदोऽपि स्यात्, विपर्ययस्तु दृश्य-
ते । कर्त्रादिभोगविशेषसम्पादनप्रयुक्तोऽसाविति चेन्न । द्व्यणुकेषु तदभावात् । तथा
च तदवयवानामपगमाभावेऽनादित्वप्रसङ्गे द्व्यणुकत्वव्याघातः । तस्माद् यत्कार्यं
बोधनी ।
नित्यत्वे सति इति । पूर्वत्राप्यर्थतः प्रलयः सिध्यति, अत्रापि सर्ग इति द्रष्टव्यम् । अनुमानयो-
र्विपक्षे बाधकं पृच्छति-अवयवानाम् इति । यथा ह्ययतवे तन्त्ववयवानां संयोगविभागाभ्यामेव
पटादेरुत्पत्तिविनाशौ संतानानुच्छेदेन दृश्येते तथैव सर्वदापि तौ स्यातां, किमत्र बाधकमिति ।
एवं तर्हि इति । यदि संतानानुच्छेदः स्यात् तर्ह्यवयवावापोद्धारलक्षणो विनाशोऽपि न स्यात्,
दृश्यते चासाविति । कन्थादि इति । न संतानत्वप्रयुक्तः पटादेर्विनाशः, किन्तु विनष्टपटावयवार-
ब्धकन्थादिद्वारभोगविशेषप्रयुक्त इति । कर्त्रादिभोगविशेषेति पाठे त्वयमर्थः-पटादेः कर्तॄणां
कुविन्दादीनां पटाद्युत्पादनद्वारेण ये भोगास्तेषां तद्विनाशमन्तरेणानुपपत्तेस्तत्प्रयुक्तो विनाश इति ।
द्व्यणुकेषु इति । द्व्यणुकेषु तस्य भोगविशेषस्य विनष्टद्व्यणुकावयवद्वारस्य द्व्यणुकोत्पादनद्वारस्य वा
न संभव इति । ततः किमित्यत्राह-तथा च इति । तस्माद्द्भोगविशेषस्याप्रयोजकत्वात्कार्यस्योत्प-
त्तिविनाशयोः समवायिकारणसंयोगविभागावेव निवन्धनमङ्गीकर्तव्यमित्याह-तस्मात् इति ।
प्रकाशः ।
सिद्धिः । तदारम्भकत्वं तन्तुभिः पूर्वमनुत्पादितपटैरनैकान्तिकमित्यत उक्तम् । नित्यत्वे सतीति ।
नित्यत्वमात्रन्तु व्योमादिभिरनैकान्तिकमिति तदारम्भकत्वादित्युक्तम् । प्रदीपपरमाणूनां तैजसद्रव्य-
त्वेन संसर्गिद्रव्यतयाऽऽरब्धतेजोजातीयत्वसिद्धौ दृष्टान्तत्वम् । न चाप्रयोजकत्वम् । निरुपाधिमङ्ग-
प्रसङ्गस्य विपक्षबाधकत्वात् । न त्वागमो विपक्षबाधकः । तस्य कार्यद्रव्यानाधारकालावोधकत्वात् ।
सन्तानाविच्छेदेऽपि उत्पत्तिविनाशयोरन्ययोपपत्तिरित्याह । अवयवानामिति । आवापोद्वापौ
उपगमापगमौ । यदि नैवं कार्यद्रव्यस्यात्यन्तमुच्छेदस्तदाऽभिमतघटायुच्छेदोऽपि न स्यादित्याह ।
एवं हीति । विपर्ययस्त्विति । अत्यन्तोच्छेद इत्यर्थः । ननु न सन्तानप्रयुक्तोऽस्यन्तोच्छेदः,
किन्त्वन्योपाधिप्रयुक्त इत्याह । कर्त्रादीति । उपाधेः साध्याव्यापकत्वमाह । द्व्यणुकेष्विति ।
तदभावाद्भोगविशेषसम्पादकत्वस्योपाधेरभावादित्यर्थः । न च तत्राप्यत्यन्तानुच्छेदेऽपि अवयवा-
नामावापोद्वापाभ्यामेवोत्पादविनाशसम्भवः । तयोरप्राभावादित्याह । तथा चेति । नाशस्य भोग-
विशेषसम्पादनप्रयोजकत्वे द्व्यणुकनाशो न स्यात् । तेन भोगाजननात् । तथा च विनाशिभाव
स्यादनुत्पन्नत्वेन नित्यतया द्व्यणुकत्वव्याघात इति सन्तानत्वस्यात्यन्तोच्छेदेन स्वाभाविकः सम्ब-
न्धो मन्तव्य इत्यर्थः । सन्तानस्यावस्थानमहेतुकं नित्यहेतुकं वा यदि स्यात्तदा सन्तानाविच्छेदः
स्यादित्याह । तस्मादिति । यद्धेतुकमिति दृष्टान्तार्थम् । एतत्=कार्यं यन्निबन्धनस्थितीत्यादिकम् ।
प्रकाशिका ।
दोपादानम् । तस्येति । कार्यद्रव्यानधिकरणत्वेन तत्कालाबोधकत्वादित्यर्थः । किञ्चिद्भुवनाव-
च्छिन्ननाशस्यैव पुराणादौ प्रतिपादनादिति भावः । अभिमतति । घटाद्यत्यन्तोच्छेदोऽपीत्यर्थः ।
मकरन्दः ।
तमादाय साध्याव्याप्तिरिति कृत्वा, वस्तुतः कर्मत्व एव साध्याव्यापकत्वम् । तस्येति । यद्यपि
प्रलयवोधकागमसत्त्वादिदमयुक्तं, तथापि तदनाधारत्वेन तत्कालाबोधकत्वादित्यर्थादित्याहुः ।
अभिमतति । घटात्यन्तोच्छेदोऽपीत्यर्थः ॥ २ ॥
टिप्पणी ।
तत्र सत्त्वाद् । संसर्गिद्रव्यतयेति । भूयः संसृज्यमानस्वभावतया । तस्य कार्यद्रव्याना-

२६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां
यन्निबन्धनस्थिति, तदपगमे तन्निवृत्तिः, यद् यद्धेतुकं तदुपगमे तस्योत्पत्तिः । न च
कार्यस्य स्थितिनिबन्धनं नित्यमेव । नित्यस्थितिप्रसङ्गात् । न च नित्य एव हेतुः,
अकादाचित्कत्वप्रसङ्गात् । तदतिनिस्तरङ्गमेतत् ।
ईदृश्याञ्च वस्तुस्थितौ भोगोऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पा-
दनीय इति द्व्यणुकवत् पिपीलिकाण्डादेर्ब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गति-
रिति प्रतिबन्धसिद्धिः । तथा च ब्रह्माण्डे परमाणुसाङ्ख्वितरि परमाणुषु च स्वत-
न्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः क्व वर्त्तन्ताम् ? कुपितकपिकपोलान्त-
र्गतोदुम्बरमशकसमूहवद्, दवदहनदह्यमानदारूदरविधूर्ण्णमानघुणसङ्घातवत्, प्रलय-
पवनोल्लासन्तौर्वावानलनिपातिपोतसांयात्रिकसार्थवद्वेति ॥ २ ॥
अपि च—
जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्म्मणोः ॥
ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम् ॥ ३ ॥
बोधनी ।
अस्त्वेवं, तथापि कार्यस्थितिनिबन्धनमुत्पत्तिहेतुश्च किमिति सर्वदा न स्यातामित्यत्राह—न च
इति । निरस्तः प्रवाहोऽनादिमानित्यत्रेति ।
यदि कार्योत्पत्तिविनाशयोर्भोगविशेषोऽप्रयोजकः तर्हि भोगार्थः कर्मभिः सर्व्वषामुत्पाद इति
सिद्धान्तो व्याकुप्येतेत्यत्राह—ईदृश्याम् इति । इयं तावदर्थस्यितिनं च तत्र सिद्धान्तहानिः ।
कर्माण्येव वस्तुस्थितिमनतिक्रामन्ति तद्भोगसमर्थवस्तुत्पादनद्वारेण भोगविशेषं सम्पादयन्ति, तेन
येषां वस्तूनामुच्छेदस्वभावो न तेषामनुच्छिन्नानां भोगसाधनत्वम् , अन्यथा नानापुरुषाहृष्टोत्पादि-
तस्य कस्यैव पटस्य परःसहस्रं वत्सरानवस्थितस्य क्रमेण भोगसाधनत्वप्रसङ्ग इति भावः । तस्मा-
द्यथा द्व्यणुकेषु भोगाभावेऽपि स्थितिनिबन्धनहेत्वोरपगमोपगमाभ्यामेव विना शोत्पत्ती तथैव विश्व-
स्यापि कार्यस्य ते भविष्यत इत्याह-इति द्व्यणुकवत् इति । एवं विपक्षे बाधक सद्भावात्सृष्टिप्र-
लयानुमानयोः सिद्धः प्रतिबन्ध इत्याह-इति इति । तदेवमापरमाणोर्ब्रह्माण्डस्य विनाशसिद्धौ कैव
कथा तदन्तर्वर्त्तिनः कार्यस्येत्याह—तथा च इति । तदन्तर्वर्त्तिभिः सह विनश्यतीत्यत्र निदर्श-
नान्याह-कपिकपोल इति ॥ २ ॥
न केवलमनुमानं दर्शनं च प्रलयसद्भावानुगुणमित्याह—अपि च इति । जन्मादेर्ह्रासदर्श-
नात्स्वाध्यायाध्ययने कर्मणोऽनुष्ठाने पुरुषाणां शक्तेश्च ह्रासदर्शनात् संप्रदायस्य ह्रासोऽवगम्यत इति ।
प्रकाशः ।
ईदृश्यामिति । अनित्यहेतुनिबन्धनायां कार्यस्थितौ कर्मभिः संपादनीयो भोग एवमेव
वस्तुस्वभावानतिक्रमणेति योजना । नन्वेवमपि ब्रह्माण्डनाशसिद्धौ गिरिसागरादीनां कुतः प्रलय
इत्यत आह । तथा चेति । क्व वर्त्तन्तामिति । विनश्यन्तीत्यर्थः । महाद्रव्यान्तरेण निहन्यमा-
नाधारत्वाद्, महादहनदह्यमानाश्रयत्वाद्, महापवनक्षुभितसमुद्रविलीयमानाश्रयत्वादित्यत्र हेतु-
त्रये क्रमेण दृष्टान्तत्रयमाह कुपितेति । एतेनाधाराभावात् पतन्त एव सन्तीत्यपास्तम् ॥२॥
एवं सर्वस्य नाशे अर्थाद् वेदोऽपि नश्यतीत्युपपाद्य वेदह्रासदर्शनेनापि तन्नाशोऽनुमेय इत्याह ।
अपि चेति ।
प्रकाशिका ।
भोगस्य कर्मसंपादनीयत्वं मीमांसकोऽपि स्वीकरोत्येवेति तदभिधानमनर्थकमित आह—
कर्मभिरित्यादि ॥ २ ॥
टिप्पणी ।
षात्कालाबोधकत्वादिति । तत्तात्पर्यवत्त्वानिश्चयेत्यादि ॥२॥

द्वितीयस्तवके ] प्रलयोपपादनम् । २६३
पूर्वं हि मानस्यः प्रजाः सम्भवन्, ततोऽपत्यैकप्रयोजनमैथुनसम्भवाः, ततः
कामाऽवर्जनीयसन्निधिजन्मानः, इदानीं देशकालाद्यव्यवस्थया पशुधर्मादेव भूयिष्ठाः ।
पूर्वं चरुप्रभृतिषु संस्काराः समाधायिषत, ततः क्षेत्रप्रभृतिषु, ततो गर्भादितः
इदानीन्तु जातेषु लौकिकव्यवहारमाश्रित्य ।
पूर्वं सहस्रशाखः समस्तो वेदोऽध्यगायि, ततो व्यस्तः, ततः षडङ्ग एकः,
इदानीन्तु क्वचिदेका शाखेति ।
पूर्वम् ऋतवृत्तयो ब्राह्मणाः प्रायोऽतिष्ठन्, ततोऽमृतवृत्तयः, संप्रति मृतप्रमृत-
सत्यानृतकुसीदपाशुपाल्यश्ववृत्तयो भूयांसः ।
पूर्वं दुःखेन ब्राह्मणैरतिथयोऽलभ्यन्त, ततः क्षत्रियातिथयोऽपि संवृत्ताः, ततो
वैश्यावेशिनोऽपि, संप्रति शूद्रान्नभोजिनोऽपि ।
पूर्वममृतभुजः, ततो विघसभुजः, ततोऽन्नभुजः, संप्रत्यघभुज एव ।
पूर्वं चतुष्पाद् धर्म आसीत्, ततस्तनूयमाने तपसि त्रिपात्, ततो म्लायति ज्ञाने
द्विपात्, संप्रति जीर्यति यज्ञे दानैकपात्, सोऽपि पादो दुरागतादिविपादिकाशत-
दुःस्थोऽश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यत-
या इतस्ततः स्खलन्निवोपलभ्यते । इदानीमिव सर्वत्र दृष्टानाधिकमिष्यते इति चेन्न ।
बोधनी ।
जन्मनो ह्रासं व्याचष्टे-पूर्वं हिः इति । पूर्वं श्रुतयः स्मृत्तिदर्शनात्तत्स्मृतयश्च पूर्वतमविशिष्टाचारद-
प्रकाशः ।
वेदह्रासे दृष्टान्तार्थं जन्मादिह्रास उक्तः । प्रतियुगं क्रमेण ह्रासमाह । पूर्वे हीति ।
समाधायिषत सम्यगाहिता इत्यर्थः । श्रूयमाणा अपि वेदा उच्छेत्स्यन्ति, वाक्यत्वात् , उच्छि-
न्नशाखावदिति भावः ।
ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् ।
मृतं तु याचितं भैक्ष्यं प्रमृतं कर्षणं स्मृतम् ॥
सत्यानृतं तु वाणिज्यं कुसीदञ्च फलान्तरम् ॥
पाशुपाल्यं = गोरक्षादि । श्ववृत्तिः = सेवा । वैश्यावेशिनो = वैश्याऽतिथयः । अमृत-
भुजो = यज्ञशेषभुजः । विघशभुजो = अतिथिशेषभुजः । अन्नभुजो = भृत्यशेषभुजः । अघ-
भुजः = स्वार्थसाधितभुजः । चतुष्पादिति । तपोज्ञानयज्ञदानानि चत्वारः पादाः । दुरागतं=
दुष्टादुपायद् द्यूतादेरागतम् , तदेव विपादिका = पादरोगः ।
ननु न शाखोच्छेदः, किन्तु यावान् वेद इदानीमधीयते तावानेव सदाऽध्ययनविषय
इति वेदह्रासोऽसिद्ध इत्याह । इदानीमिति । विवादपदं स्मृतिः, स्मृत्यर्थानुभावकवेदमूला
प्रकाशिका ।
मूले पूर्वं सहस्रशाखा इत्यादिना विद्याह्रासे कथ्यमाने शक्तिस्वाध्याययोरपि ह्रास उक्त
एवेतिन तयोरदाहरणान्तरं पूर्वमृतवृत्तय इत्यादि किन्तु कारिकास्थाऽऽदिपदसंग्राह्यकथनम्, पूर्वं
चतुष्पादित्यादिना कर्म्मह्रास उक्त इति बोध्यम् । विवादपदमिति । प्रत्यक्षवेदाऽमूलाऽदृष्टा-
चेत्यर्थः । लोभमूलकस्मृतेस्तु स्मृतिपदेनैव वारणम् , स्मृतिपदस्य ऋषिप्राणीतवाक्यपरत्वात् । वेद-
मूलत्वं वेदजन्यानुभवजन्यत्वमदृष्टद्वारा वेदजन्यानुभवजन्यत्वासिद्धिशङ्कानिरासाय स्मृत्यर्थानु-
भावकेति साध्यविशेषणम् ।
मकरन्दः ।
विवादपदमिति । एतच्च प्रत्यक्षवेदमूलस्मृत्यंशे लोभादिमूलकस्मृत्यंशे च सिद्धसाधनत्राघादि-
टिप्पणी ।
ऋतमुञ्छशिलमिति । "उञ्छः कणश आदानं कणिशायर्जनं शिलम्” कपिशं=
शस्यमञ्जरी ।
इति धर्मदत्तोपाध्याय ( प्रसिद्ध बच्चाझा ) कृतकुसुमाञ्जलिप्रकाशद्वितीयस्तवकटिप्पणी समाप्ता ॥

२६४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ ३ कारिकां व्याख्यायां
स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् । स्वातन्त्र्येण स्मृतीनामा-
चारस्य च प्रामाण्यानभ्युपगमात् । मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभा-
वात् । आचारात् स्मृतिः स्मृतेश्चाचार इत्यनादिताऽभ्युपगमे अन्धपरम्पराप्र-
सङ्गात् । आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् ।
बोधनी ।
र्शनादिति, बीजाङ्कुरन्यायेनानादित्वेन स्मृत्याचारयोः प्रामाण्यसिद्धेः किं शब्दानुमानेनेत्याश-
ङ्कयाह-आचारात् इति । अन्धानां मुग्धरूपस्मरणतुल्यताप्रसङ्गात् । यथा हि तद् रूपनिर्णयसा-
पेक्षं तथा धर्मनिर्णये स्मृत्याचारः स्मृतेरनुभवापेक्षत्वादाचारस्य प्रमेयत्वेन प्रमाणापेक्षत्वात्, अत-
स्तयोरेवान्योन्यमूलत्वाभ्युपगमेऽन्धवाक्यपरम्परापङ्क्तितुल्यता प्रसज्यत इति । तर्हि तयोर्वेदमेव मूल-
मनुमास्यामः स तु वेदो मन्वादीनां प्रत्यक्षः इदानीमुच्छिन्न इति नाभ्युपगच्छामः, किन्तु तैरपि
पूर्वस्मृत्यादिना तैरपि पूर्वतमस्मृत्यादिना, ततश्च सर्वेषां नित्यानुमेयस्यैव वेदस्य मूलत्वान्न शाखो-
च्छेदः, नाप्यन्धपरंपराप्रसक्तिरिति प्राभाकरस्तन्नाह — आसंसारम् इति । यदि सर्वैरप्यनाम्नातः
प्रकाशः ।
अक्लृप्तमूलान्तरत्वे सति महाजनपरिगृहीतस्मृतित्वात् , प्रत्यक्षवेदमूलस्मृतिवत् । अतो न न्याया-
दिमूलकस्मृतौ व्यभिचारः । तथा, मङ्गलाचारो वेदबोधितः, अलौकिकविषयाविगीतशिष्टाचार-
त्वात् यागवदिति स्मृत्याचारमूलस्य वेदस्याप्रत्यक्षत्वात् तदुच्छेदे तदध्यीयमानवेदस्याप्युच्छेदो
भावीत्याह । स्मृतीति । ननु, वेदवत् स्मृत्याचारयोरदृष्टे स्वतः प्रामाण्यमेवेति न तन्मूलकवे-
दानुमानमित्यत आह । स्वातन्त्र्येणेति । वेदनिरपेक्ष्येण स्मृत्यादेस्त्वयाऽपि प्रामाण्यानभ्युपगमा-
दित्यर्थः । ननु स्मृतिकर्त्तारः स्वयमेवापूर्वं साक्षात्कृत्य तत्साधनमुपदेक्ष्यन्तीति न तेषां तदर्थं
वेदापेक्षेत्यत आह । मन्वादीनामिति । अतीन्द्रियार्थदर्शित्वे तेषामनाश्वासादिति भावः । ननु
भूयः शिष्टाचारदर्शनात् स्मृतिप्रणयनम् , ततः पुनःरिदानीं शिष्टाचारपरम्परा स्यादिति किं तन्मू-
लवेदानुमानेनेत्यत आह । आचारादिति । उभयोरप्यनुमानमूलकत्वेनाव्यवस्थापकत्वात् तादृश-
स्मृत्याचारयोर्वेदमूलकत्वव्याप्तिस्तव देशनाया एव धर्मे मानत्वाच्च तयोरमानकत्वापातादित्यर्थः ।
ननु नित्यानुमेयो वेदस्तन्मूलं स्यादतो न शाखोच्छेद इत्यत आह । आसंसारमिति । अनाम्ना-
प्रकाशिका ।
अक्लृप्तेति । न्यायमूलकत्वे सत्यन्तार्थः । लोभमूलकस्मृतौ व्यभिचार इति महाज-
नपरिगृहीतेति । प्रत्यक्षमूलकवाक्ये व्यभिचार इति स्मृतीति । स्मृतित्वञ्चादृष्टज्ञा-
पकवाक्यत्वम् । अतो न ऋषिप्रणीतदृष्टान्तार्थकवाक्ये व्यभिचारः । नन्वनुमानमपि स्वतः
प्रमाणमेवेति कथं तन्मूलकत्वे नाश्वास इत्यरुचेराह । तादृशस्मृत्याचारयोरिति । ननु
तत्रापि व्याप्तावसम्भवन्मूलान्तरत्वमुपाधिरित्यरुचेराह-तव देशनाया इति । मीमांसकस्ये-
मकरन्दः ।
वारणार्थम् । ताद्रूप्यसिद्धयेऽनुभावकान्तम् । न्यायादिमूलकस्मृतौ व्यभिचारवारणाय अक्लृ-
प्तेति । असम्भवन्मूलान्तरत्वे सतीत्यर्थः । ननु महाजनपरिगृहीतपदं व्यर्थमिति चेत् । सत्यम् ।
भ्रम एवात्र मूलमित्यसिद्धिशङ्कानिरासाय तदुपादानात् न तु हेतुविशेषणत्वे तात्पर्य्यमित्येके ।
लोभादिभिन्नन्यायादिमूलकत्वाभावमात्रे सत्यन्ततात्पर्य्यम् । एवं च लोभादिमूलकस्मृताविव व्यभि-
चारवारणाय तदित्यन्ये । लोभस्य वस्तुगत्या मूलत्वाभावान्मूलपदस्य प्रामाणिकमूलपरत्वाद्वा
सत्यन्तेन लोभमूलकस्मृतौ व्यभिचारवारणाय तदुपादानमित्याहुः । अलौकिकेति । एतच्च
द्रव्यप्रकाशे व्याख्यातम् । नन्वनुमानमूलकत्वेऽपि नान्धपरम्परा न हि प्रत्यक्षमात्रं प्रमाणमित्या-
शयादाह तादृशेति । नन्वत्राप्यसम्भवन्मूलान्तरत्वमन्यथा न्यायादिमूलकस्मृतावपि तथात्वा-
पत्तिरित्‍यनुशयादाह तवेति । मीमांसकस्येत्यर्थः । तथा च तवापसिद्धान्त इति भावः ।

द्वितीयस्तवके ] प्रलयोपपादनम् । २४५
उत्पत्तितोऽभिव्यक्तितोऽभिप्रायतो वाऽनवच्छिन्नवर्णमात्रस्य निरर्थकत्वात् ।
बोधनी ।
तर्हि वेद एव स न स्यात् । वेदो नाम शुश्रूषाराधितगुरुमुखादिगतं द्विजातिभिरधीयमानं क्रमस्व-
रादिविशेषोपेतं वर्णकदम्बकं न तु वर्णमात्रम्, न चैतन्नित्यमनुच्चारितस्य संभवति, तेन नित्या-
नुमेयो वेद इति परस्परपराहतं वचनमिति । इत्थं न वेदत्वं तस्येत्याह-उत्पत्तितः इति ।
धर्माधर्मयोरवेदनाद्वेदः, वेदत्वं चानुपूर्व्या विशिष्टानां वर्णानां न केवलानाम्, आनुपूर्वी च वर्णा-
नामुत्पत्तितो भवति यथा नैयायिकानाम्, अभिव्यक्तितो वा यथा वैयाकरणानाम्, अभिप्रायतो
वा यथा न्यूनवाक्यप्रयोगे वक्तुरभिप्रायोपलक्षितैर्वर्णैर्वाक्यपूरणेनार्थप्रतीतिः । त्रिधा चेयमानुपूर्वी
नित्यमनुच्चारितानां न संभवतीत्यनर्थकत्वाद्वेदत्वव्याघात इति । ननु मा भूद् वेदत्वं तथापि
शिष्टैराचर्यमाणत्वादष्टकादेरिष्टसाधनत्वं कर्तव्यत्वं च ज्योतिष्टोमवदनुमाय तत्र चानुमेयवेदस्य
प्रकाशः ।
तस्य = अपठितस्य । उत्पत्तित इति स्वमते, अभिव्यक्तित इति परपक्षे, अभिप्रायत इति
उभयत्र । यथा मौनिश्वोकोऽपठितः श्रोत्रानभिव्यक्तश्चाभिप्रायस्थस्तथा वेदोऽपीत्यपि नेत्यर्थः ।
तथात्वेऽनिश्चितानुपूर्वीकपद्कदम्बस्वरूपत्त्वे नित्यानुमेयत्वव्याघात इति भावः ।
अत्र स्मृत्याचारमूलं वेदोऽध्ययनविषयो न वा, वेदत्वमध्ययनविषयत्वव्याप्यं न वेति विप्र-
तिपत्तिः, ननु स्मृत्यर्थज्ञापकत्वेन ज्ञातस्यैव वेदस्य स्मृत्यर्थानुभावकत्वम् , न हि शाब्दबोधे निय-
तपदानुपूर्वी हेतुः, गामानयानय गामित्यत्र तदभावेऽपि तत्सत्त्वात् । पदस्य वर्णविशेषानुपूर्वी-
नियमेऽपि तत्तद्वर्णानुपूर्वीकपदविशेषो न हेतुः, घंटकलशंपदानां प्रत्येकं व्यभिचारात् । किन्त्व-
व्यभिचारितदर्थज्ञापकत्वेन ज्ञातस्य, लाघवादावश्यकत्वाच्च । अत एव; वर्णलोपे दन्त्यादिसका-
रादिसन्देहे सत्यपि वाक्यार्थधीः । न च क्रमिकपदवत्त्वं वाक्यत्वम् अनुच्चार्यमाणस्य चोच्चार-
णघटितक्रमासम्भव इति वाच्यम् । गौरश्व इत्यादौ तत्सम्भवेऽपि वाक्यत्वाभावात् । विशिष्टा-
र्थपरशब्दत्वंन्वत्रापि तुल्यम् । न चानुच्चार्यमाणस्य न वाक्यत्वम् । लिप्यनुमितानां मौनि-
श्लोकस्य च वाक्यत्वात् । किञ्च वाक्यमुच्चार्यते, न तूच्चारणाद्वाक्यत्वम् । वाक्यमुच्चारयेदि-
त्यत्रानन्वयापत्तेः । उच्चारणदशायां वाक्यत्वे वाक्यस्यासत्त्वापत्तेः । एकदा तावत्पदानामुच्चार-
णाभावात् । अथ तदर्थज्ञापकत्वेन ज्ञातात् पदात् पदार्थज्ञानमात्रं स्यान्न संसर्गज्ञानम् । अन्व-
यप्रकारकप्रत्यागुपस्थापकविभक्त्यादिसमभिव्याहाराभावात् । मैवम् । अनुमितवेदाद्वाक्यार्थानु-
भवे सामग्र्या वैलक्षण्यात् । धर्मिग्राहकमानेन तवाशरीरेश्वरकर्तृकत्वस्यैव स्मृत्यर्थानुभावकत्वे-
नैव तस्य सिद्धेः । अन्यथाऽन्यत्र कॢप्तहेतुं विना न सोऽनुभावक इत्यादौ तदसिद्धावाश्रयासि-
द्धिस्तत्सिद्धौ च बाधः । अत एव स्तुतिनिन्दार्थवादकल्पितविधिनेषेधकवेदार्थमवगत्य प्रवृ-
त्तिनिवृत्ती । अन्यथा विधिनिषेधकवेदानां नानाप्रकारत्वेन विभक्त्यादिविशेषवत्पदस्यानुमा-
तुमशक्यत्वान्न ततोऽर्थधीः स्यात् । एवमाचारानुमितवेदादपि प्रवर्तककर्तव्यताधीः स्मृत्याचारा-
नुमितो वेदोऽर्थं बोधयतीति पूर्वपूर्वानुमितवेदादुत्तरोत्तरस्मृत्याचारविति नान्धपरम्परा, स्वतन्त्र-
प्रमाणमूलकत्वादिति ।
प्रकाशिका ।
त्यर्थः । तथा च तत्रापि सिद्धान्तविरोध इति भावः । घटकलशेति ।, घटपदकलसपदादीनामि-
त्यर्थः । घटरूपार्थबोधे तेषां जनकत्वेनानुपूर्व्याः परस्परव्यभिचारादिति भावः । अत्र चार्यवा-
मकरन्दः ।
घटकलशेति । घट्कलसपदानमित्यर्थः । शेषं शब्दप्रकाशे द्रष्टव्यम् ।

२६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां
यदि च शिष्टाचारात्त्वादिदं हितसाधनं कर्त्तव्यं वेत्यनुमितं किं वेदानुमानेन, तदर्थ-
स्यानुमानत एव सिद्धेः। न च धर्मवेदनत्वादिदमेवानुमानमनुमेयो वेदः। प्रत्यक्ष-
सिद्धत्वात्। अशब्दत्वाच्च॥
अथ शिष्टाचारात् प्रमाणमूलोऽयमिति चेत्। ततः सिद्धसाधनम्। प्रत्यक्षमू-
बोधनी।
प्रामाण्यमपि निश्चित्य मन्वादयः स्मरिष्यन्ति अनुष्ठास्यन्ति चेत्यत्राह-यदि हिं इति। तदर्थस्य=
अनुमेयवेदप्रमेयस्य शिष्टाचारात्त्वानुमानेनैव सिद्धेरिति। धर्माधर्मावेदकत्वं हि वेदत्वं, तच्च शिष्टा-
च्चारानुमानस्यास्तीति तदेवानुमेयो वेदो भविष्यतीत्यत्राह-न च इति। शिष्टाचारस्य प्रत्यक्ष-
त्वान्न तावदनुमेयत्वम् अशब्दात्मकत्वादिति।
ननु यदि वयं शिष्टाचारत्वेन कर्तव्यत्वहितसाधनत्वे अनुमास्यामः, ततो वेदानुमानमनर्थकं
स्यात्। प्रमाणमूलमात्रमनुमीयत इत्याह-अथ इति। तत्र च पक्षधर्मतावलाद्वेदमूलत्वमेव सिध्य-
तीति भावः। ततः इति। आचारस्वरूपस्य प्रत्यक्षमूलत्वात्सिद्धसाधनमिति। ननु शिष्टाचार-
प्रकाशः।
अत्राहूः। उच्छिन्नवेदार्थं प्रतीत्य स्मृत्याचारयोरुपपत्तेः सामग्र्यन्तरकल्पने गौरवम्।
अत एव च न बाधाश्रयासिद्धी। स्मृत्याचारमूलस्य वेदस्यास्माभिरभ्युपगमात्, तथा च स्मृत्या-
चारयोर्वेदजन्यानुभवमूलकत्वानुमानादेव पक्षधर्मताबलेन प्रत्यक्षवेदमूलकत्वसिद्धिः। अननुभा-
वकस्य मूलत्वानुपपत्तेः। स्तुतिनिन्दार्थवादाभ्यामपि प्रवृत्तिनिवृत्तिपराभ्यां प्रवृत्तिनिवृत्तिहेतुरर्थ
एव कल्प्यते, लाघवात्। न तु विधिंनिषेधवाक्यं, गौरवादुक्तदोषाच्च। यत्र चार्यवादादेव तज्ज्ञानं,
तत्र "तरति मृत्यु" मित्यादौ न तत्कल्पनाऽपि। न च बहुभिर्मेधाविभिरध्यात्तिकशक्तिसम्प-
न्नैर्ध्रियमाणायाः शाखाया न शाखान्तरवदुच्छेदसम्भव इति वाच्यम्। एकस्य न समग्रशा-
खाऽध्ययने शक्तिरित्येकेनेवापरैरपि तदनध्ययने तदुच्छेदसम्भवात्। एकानधीतायास्तस्या अप-
राध्ययनविषयत्वनियमे मानाभावात्। न च शाखोच्छेदे वर्गादिवानिश्चङ्कया प्रत्यक्षवेदादपि
वाक्यार्थप्रयोगयोरनिश्चये वैदिकव्यवहारोच्छेदः, श्रूयमाणमात्रस्यैव महाजनपरिगृहीतत्वेन तत एव
तन्निश्चयात्, तस्माद् स्मृत्याचारानुमितो वेदः प्रत्यक्षोऽध्ययनविषयश्च वेदत्वात् संमतवत्। विपक्षे
च बाधकमुक्तं गौरवमिति सङ्क्षेपः।
दूषणान्तरमाह। यदि चेति। वेदेनापि हि प्रवृत्तिहेतुकार्यत्वज्ञानं तद्धेतुत्वज्ञानं वोत्पाद्य
प्रवृत्तिर्जन्येत्यावश्यकत्वान्नाघवाच्च तदेवानुमीयतां, किं तद्बोधकवेदेनेत्यर्थः। तदर्थस्य =
कार्यत्वज्ञानादेः। ननु धर्मवेदकत्वहेतुको वेदव्यवहारस्तच्च लिङ्गेऽप्यस्तीति तदेव नित्यनुमेयवेद-
शब्देनोच्यते इत्यत आह। न चेति। प्रत्यक्षसिद्धत्वान्न नित्यनुमेयत्वम् अशब्दत्वाच्च न वेदत्व-
मित्यर्थः।
प्रमाणसामान्यानुमानेऽपि पक्षधर्मतावलात् तद्विशेषवेदसिद्धिः स्यादित्याह-
अथेति। सामान्यबुद्धेरीश्वरप्रत्यक्षविषयत्वेनाप्युपपत्तेर्न सा विशेषमवगमयतीत्याह।
प्रत्यक्षेति। ईश्वरप्रत्यक्षानभ्युपगन्तृमतेऽपि भोजनादेरिव कर्त्तव्यताज्ञानेऽनुमानमेव मूलं स्यादि-
प्रकाशिका।
दादेवेति बलवदनिष्टाननुबन्धित्वज्ञानञ्च न प्रवर्तकमिति भावः। तदेवेति। कार्यत्वं हि तद्धेतु-
कत्वं वेत्यर्थः। तदर्थस्येति। तत्प्रयोजनस्येत्यर्थः। विशेषमिति। वेदमित्यर्थः। धर्मिग्राहकैनैव
मकरन्दः।
तदेवेति। कार्यत्वं तद्धेतुत्वं वेत्यर्थः। तदर्थस्येति। तत्प्रयोजनस्येत्यर्थः। प्रमाण-

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:

द्वितीयस्तवके ] प्रलयोपपादनम् । २६७
लत्वाभ्युपगमात् । तदसम्भवेऽप्यनुमानसम्भवात् । नित्यमज्ञायमानत्वात्तदप्रत्यायकं,
कथमद्युमानं, कथञ्च मूलमिति चेत् । वेदः किमज्ञायमानः प्रत्यायकोऽप्रत्यायक एव
वा मूलं, येन जडतम ! तमाद्रियसे । अनुमितत्वाज्ज्ञायमान एव इति चेत् । लिङ्ग-
मप्येवमेवास्तु । अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता, कारणत्वात् , न तु प-
श्चातनीति चेत् । शब्दप्रतीतिरप्येवमेव । आचारस्वरूपेण शब्दमूलत्वमनुमीयते,
तेन तु शब्देन कर्त्तव्यता प्रतीयते इति चेन्न । आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन
बोधिनी ।
श्रेष्टसाधनत्वे प्रत्यक्षमूलत्वासम्भवाद्गेद एव मूलं भविष्यतीत्याह-तदसंभवेऽपि इति । तत्रापि
शिष्टाचारत्वानुमानस्य मूलत्वासम्भवात्सिद्धसाधनतैवेति । अथवा धर्मादीनां कस्यचिल्लोकोत्तरस्य
प्रत्यक्षत्वाभ्युपगमात् न वेदमूलत्वसिद्धिः, अर्वाचीनानां च मन्वादीनां प्रत्यक्षत्वासम्भवे शिष्टाचा-
रानुमानमूलत्वासम्भवात्सिद्धसाधनतेति । नित्यम् इति । न तावदाचाराणां श्रेयःसाधनत्वेन
व्याप्तं किमपि लिङ्गमिदं नामेति विशेषतो मन्वादिभिरुपगतम् । यथा हि वयं शिष्टानाचरतो दृष्ट्वा
कर्तव्यताज्ञानमन्तरेण तदसंभवात्तस्य च ज्ञानस्य प्रत्यक्षमूलत्वासम्भवात् किमप्येवामंनुमानं मूल-
मिति सामान्यतोऽनुमिमीमहे, तथा मन्वादयोऽपि विशिष्टानामाचारमूलं किमप्यस्त्यनुमानमिति
सामान्यतोऽनुमिन्वते, न तु लिङ्गविशेषम् । नित्यं च विशेषतोऽज्ञायमानं लिङ्गं कथं प्रत्यायकं
भवेत्, अप्रत्यायकं च कथमनुमानं कथं वाऽनुष्ठातॄणां कर्तव्यज्ञानस्य मूलं, ततो वेदत्वस्यैव सिद्धेः
कथमनुमानेन सिद्धसाधनतेति भावः । वेदः इति । नित्यानुमेयत्वपक्षे विशेषरूपेणाज्ञातो वेदः
कथं प्रत्यायको भवेत् कथं च वा मूलमिति । अनुमितत्वात् इति । अभियुक्तराचरितत्वेनाष्ट-
कादेरिष्टसाधनत्वकर्त्तव्यत्वे तावदभ्युपगम्य तत्प्रतिपादक एव वेदविशेषोऽनुमीयते, तेन विशेषतो
विज्ञात एवेति । लिङ्गमपि इति । शिष्टाचारात्तन्मूलत्वेनानुमीयमानं लिङ्गमपि विशिष्टमेवेति ।
अनुमेय इति । अत्र ह्याचारस्य हितसाधनत्वकर्त्तव्यतयोरनुमापकं लिङ्गमः अनुमेयं, तंच यदि
ताभ्यामेवानुमीयते न ततोऽनुमेयप्रतीतेर्लिङ्गप्रतीतिरिति स्यात्, तच्चायुक्तमिति । तदेतद्वेदानुमा-
नेऽप्यविशिष्टमित्याह - शब्द इति । आचाराद्धि कर्तव्यतां ज्ञात्वा तज्ज्ञानमूलं वेदोऽस्माभिरनु-
मीयते यथा, तथा मन्वादिभिरपि प्रमेयभूतकर्तव्यतावगतेः पश्चात्निर्णायकप्रमाणभूतवेदावगति-
रिति । ननु स्यादेवं यदि कर्तव्यतया वेदोऽनुमीयते न त्वेवमित्याह - आचार इति । न इति ।
प्रकाशः ।
त्याह । तदिति। विशिष्य लिङ्गाज्ञानान तद् गमकमतो न मूलमित्याह । नित्यमिति । नित्यानु-
मेयो वेदोऽपि विशेषाकारेणानिश्चितत्वान्न तद्वोधकः स्यादित्याह । वेद इति । विशेषत इति
शेषः । सामान्यतस्तज्ज्ञानं वेद इवानुमानेऽपि तुल्यमित्याह । अनुमितत्वादिति । आचार-
कर्त्तव्यताऽनुमानमूलेत्यनुमेयपूर्वमाचारकर्त्तव्यतासिद्धौ स्यात् । सा च कर्तव्यताबोधकलिङ्गप्रतीतेः
प्रागेव सिद्धेति नानुमानमित्याह । अनुमेयेति । एवं शब्दप्रतीति विनाऽपि कर्त्तव्यताबुद्धेः
सिद्धत्वाद् व्यर्थं शब्दानुमानमिति तुल्यमित्याह । शब्देति । विशिष्टशिष्टाचारेण वेदमूलत्वमनु-
मीयते, अतो न प्रत्यक्षादिना सिद्धसाधनमित्याह । आचारेति । आचारस्वरूपसिद्ध्यर्थं वेदानुमानं,
तत्कर्त्तव्यताबोधार्थं, व्याप्तिमात्रेण वा ? नाद्यः । तत्र प्रत्यक्षस्यैव मूलत्वादित्याह । प्रत्यक्षेति । न
द्वितीयः । कर्तव्यतायामज्ञातायां वेदानुमानात् तज्ज्ञाने च तदनुमानवैयर्थ्यादित्याह ।
प्रकाशिका ।
प्रमाणत्वमपि तस्य ज्ञातमित्यज्ञायमानत्वमसम्भवीत्यत आह विशिष्येति । वेदस्यापि प्रमाणत्वेन
रूपेण ज्ञायमानत्वमस्त्वेवेत्यतः पूरयति-विशेषत इतीति । तथा च यथा विशिष्याज्ञातस्य
मकरन्दः ।
स्त्वेनानुमितत्वादज्ञायमानत्वमसम्भवीत्यत आह । विशिष्येति । उक्तमभिप्रायेणाह : विशेषत
३८ न्या० कु०

२६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्या० ]
मूलान्तरानपेक्षणात् । तत्कर्त्तव्यतायास्तु प्रत्यक्षाभावादप्रमिततया च शब्दानुमा-
नानवकाशात् प्रत्यक्षश्रुतेरसम्भवाच्छिष्टाचारत्वेनैव कर्त्तव्यतामनुमाय तया मूल-
शब्दानुमानम्, तथा च किन्तेन ? तदर्थस्य प्रागेव सिद्धेः । तथाप्यागममूलत्वेनैव
तस्य व्याप्तेरिति चेत् । अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् । आदिम-
तस्तत्त्वं स्यादयं त्वनादिरिति चेत् । आचारोऽपि तर्हि प्रथमतस्तथा स्यादयं त्वनादि-
र्विनाऽप्यागमं भविष्यति । आचारकर्त्तव्यतानुमानयोरैवमनादित्वमस्तु किन्नश्छि-
न्नमिरित चेत् । प्रथमं तावन्नित्यानुमेयो वेद इति, द्वितीयं च देशेनैव धर्मे प्रमाण-
बोधनी ।
आचारकर्त्तव्यताया हि मूलान्तरापेक्षेति । तर्हि तयैव वेदोऽनुमास्यत इत्याह—तत्कर्त्तव्य-
तायास्तु इति । ततः किमित्यत्राह—अप्रमिततया इति । मा भूच्छब्दानुमानं प्रत्यक्षवेदेनैव
तु कर्त्तव्यताप्रतीतिरस्त्वित्यत्राह—प्रत्यक्ष इति । आचारमूलस्य नित्यानुमेयत्वाभ्युपगमादिति ।
तस्माच्छिष्टाचारत्वेन कर्त्तव्यतामनुमाय वेदोऽनुमातव्यः । सा चेदनुमिता किं तेनानुमितेन वेदेन,
तत्प्रमेयस्य कर्त्तव्यताया अनुमानादेव सिद्धेरिति । नन्वनुमानादेवाचारकर्त्तव्यतावगमेऽपि वेदमूलतैव
तस्या अनुमीयते । कर्त्तव्यताया वेदमूलत्वेन ज्योतिष्टोमादौ व्याप्तिवधारणादित्याह—तथापीति ।
यदि व्याप्तिबलादागमो मूलमनुमीयते तर्ह्यत एवानुमीयमानस्य वेदस्य प्रत्यक्षानुमानयोरन्यतर-
मूलत्वमनुमीयताम्, आगमत्वस्य तन्मूलत्वेन लोके व्याप्तिवधारणादित्याह—त एव इति ।
एतच्च प्रकृतानुपयोगेऽपि परेषामनिष्टमित्येतावता प्रसञ्जितमिति । आदिमत इति । आगमस्य
प्रत्यक्षानुमानमूलत्वं दृष्टम्, अयं त्वनुमीयमानो वेदागमोऽनादिरतः कथमस्य तन्मूलतेति । तदे-
तदाचारेऽपि वक्तुं शक्यत इत्याह—आचारोऽपि इति । य आचार आचरित्रा स्वयमेव मूल-
भूतमागममुपलभ्य प्रवर्तितः तस्यैवेदं प्रथमस्य ज्योतिष्टोमादेरागममूलत्वमुपलब्धम् । अयं त्वद्य-
त्तनानाचारः पूर्वपूर्वाचारपरम्परोप लम्भमात्रेणानुष्ठीयमानोऽनादिरतोऽयमागमनिरपेक्षो भविष्य-
तीति । ननु मा भूदागमो मूलमाचारस्य शिष्टाचारत्वेन कर्त्तव्यतानुमानमेव मूलं भविष्यति, शिष्टा-
नामपि पूर्वानाचरतो दृष्ट्वा कर्त्तव्यतामनुमायाचारस्तेषामपि पूर्वतरानाचरतो दृष्ट्वा इत्याचारात्
कर्त्तव्यतानुमानं, तदनुमानाच्चाचार इति अनन्ताभ्युपगमान्नेतरेतराश्रयत्वादिदोषप्रसक्तिरित्याह—
आचार इति । किन्नश्छिन्नम् इति । स्मृत्याचारयोर्मूलभूतो वेदो नित्यानुमेयः, चोदनैव धर्मे
प्रमाणमिति राद्धान्तद्वयमपि छिद्यते, अनुमानस्यैव धर्ममूलत्वाभ्युपगमादिति । पुनरपि नित्यानु-
प्रकाशः ।
तदिति । तृतीयं शङ्कते । तथापीति । दर्शादिव्यवहारस्य वेदपूर्वकत्वसहचारदर्शनादित्यर्थः ।
न हि सहचारमात्राद् व्याप्तिः । पौरुषेयवाक्यस्येव वैदिकवाक्यस्यापि प्रत्यक्षानुमानविवक्षापूर्व-
कत्वप्रसङ्गादिति परिहरति । अत एवेति । अत्रोपाधिमाह । आदिमत इति । आगमस्येत्यर्थः ।
आचारस्याप्यागमपूर्वकत्वे साध्ये स एवोपाधिरित्यनादिः स तन्निरपेक्षोऽपि स्यादित्याह ।
आचारोऽपीति । द्वितीयमिति । अनुमानस्यापि धर्मे प्रमाणत्वाभ्युपगमादित्यर्थः । आचार-
प्रकाशिका ।
लिङ्गस्य न मूलत्वमेवं तादृशवेदस्यापीति भावः । आचारोऽपीतीति । साद्याचारोऽपि प्रत्यक्षवे-
मकरन्दः ।
इति । तथा च यथा न नित्यानुमेयलिङ्गममूलत्वं तथा न नित्यानुमेयवेदमूलत्वमपीति निगमः । आचा-
रोऽपीतीति । तथा च व्याप्तिबलादपि प्रत्यक्षश्रुतिमूलत्वमेव सिद्ध्यति, अन्यादृशश्रुतेरक्लृप्ततया मू-

द्वितीयस्तबके ] . प्रलयोपपादनम् । २६६
मिति । अथायमाशयः । वैदिका अप्याचारा राजसूयाश्वमेधादयः समुच्छिद्यमाना
दृश्यन्ते, यत इदानीं नानुष्ठीयन्ते, न चैते प्रागपि नानुष्ठिता एव, तदर्थस्य वेदरा-
शेरप्रामाण्यप्रसङ्गात्, समुद्रतरणोपदेशवत् । न चैवमेवास्तु, दर्शाद्युपदेशेन तुल्य-
योगक्षेमत्वात् । एवं, पुनः स कश्चित् कालो भविता यत्रैते अनुष्ठास्यन्ते, तथाऽन्ये-
ऽप्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते चेति न विच्छेदः । ततस्तद्वदागममूलते-
तिचेत् । एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्त्तव्यत्वागमयोरनुमानादसत्यां प्रत्यक्ष-
श्रुतौ आचारसङ्कथाऽपि कथमिति सर्वविप्लवः । तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचा-
रस्य सा चेदानीं नास्तीति शाखोच्छेदः ।
अधुनाप्यस्ति सान्यत्रेति चेदत्र कथं नास्ति ? । किमुपाध्यायवंशानामन्यत्र
बोधनी।
मेयवेदवादिनामेवाशयमाशङ्कते-अथायम् इति । प्रत्यक्षवेदमूलानामपि न तावदाचरितपूर्वाणा-
माचाराणामुच्छेदो दृश्यते, न हि ते पूर्वमप्यनाचरिता वक्तुं युक्तं तद्विषयस्य वेदस्यानुष्ठानलक्षणां-
प्रामाण्यप्रसङ्गात् । न च तस्याप्रामाण्यमेवास्त्विति युक्तम्, अनुष्ठीयानार्थदर्शपौर्णमासादिवाक्यैर-
श्वमेधादिवाक्यानां प्रामाण्यहेत्वविशेषात् । पूर्वकालवदुत्तरकालमनुष्ठास्यन्ते च कदाचिदश्वमेधाद-
यस्तद्वदन्येऽप्यप्रत्यक्षवेदमूला आचारत्वादेवोच्छेत्स्यन्ते पुनरनुष्ठास्यन्ते चेति तेषामपि विच्छेदेन
भवितव्यम् । अतोऽनादित्वाभावादाचारपरम्परामूलत्वासंभवेनाश्वमेधादीनामिव्राष्टकादीनामप्या-
चारस्यागमो मूलं, स चानुमेय इति भावः । विवादपदाचारा वेदमूला उच्छेदामन्तरभावित्वात्
राजसूयाश्वमेधादिवदिति । एवं तर्हि इति । यद्येषामुच्छेदस्तर्हि किं मूलाः पुनः प्रवर्त्तन्ताम् ।
न तावत्कर्त्तव्यतानुमानम् अनुमेयवेदो वा मूलं संभवति, तल्लिङ्गस्याचारस्य तदानीमभावात् , न
चाऽश्वमेधादिवत्प्रत्यक्षश्रुतिरस्ति तदाचारस्वरूपस्य परिप्लवः स्यात्, न केवलं वेदमूलत्वमस्येत्यु-
पसंहरति-तस्मात् इति । तदेवं नित्यानुमेयत्वेन शाखानामुच्छेदाभावं वदन्तो निरस्ताः ।
संप्रति मतान्तरमाशङ्कते-अधुनापि इति । स्मृत्याचारयोर्मूलभूता श्रुतिरिदानीमपि देशान्तरेऽ-
धीयते तेन न तच्छाखोच्छेद इति । तदपि विकल्प्य दूषयति-अत्र इति । स्वाध्याय इत्यध्ययनमुच्यते
अध्येतृसमानकर्तृकत्वादिति । न ह्यनधीयानानामनुष्ठेयज्ञानासंभवादनुष्ठानं संभवतीति । देशान्तरा-
प्रकाशः ।
स्यागममूलकत्वव्याप्तौ प्रयोजकमाह । अथेति । अप्रामाण्येति । नित्यमननुष्ठानादित्यर्थः ।
तद्वदिति । विवादाध्यासिता आचारा वेदमूलाः, उच्छेदानन्तरभाविप्रवाहवत्त्वाद्वाजसूयवदिति
न प्रत्यक्षादिना सिद्धसाधनं, नाप्यत्यन्तमुच्छेद इत्यर्थः । प्रलये स्मृत्याचारयोरुच्छेदाल्लिङ्गाभावे-
नासत्यां प्रत्यक्षश्रुतौ अनुष्ठानमेव न स्यादित्यसिद्धो हेतुरित्याह । एवं तर्हीति । न च घटादि-
संप्रदायप्रवर्त्तनार्थमीश्वरस्यापि शरीरपरिग्रहात् तदाचारादेव कर्त्तव्यताऽनुमितिः स्यादितिवाच्यम्।
बहुव्यापारघटितस्य तत्तदाचारस्य गुरुत्वाल्लाघवेन वेदरूपवाक्यस्य कल्पनादिति भावः । शाखो-
च्छेद इति । व्यासादीनां ससहस्रशाखवेदज्ञातॄणां सत्त्वेऽपि साम्प्रतं तदध्ययनाभाव एव शाखोच्छेदः।
स्मृत्याचारमूलं वेद इदानीमप्यन्यत्राध्ययनगोचर इति भट्टमतं शङ्कते । अधुनाऽपीति ।
परिहरति । अत्रेति । भारतवर्षे तदध्ययनाभावेऽप्यन्यत्र तदध्ययनकल्पनायां गौरवमिति भावः ।
प्रकाशिका ।
मूल एवान्यादृशस्य वेदस्य मूलत्वानुपपत्तेरुक्तत्वादिति भावः । असिद्धो हेतुरिति । इदमुप-
मकरन्दः ।
लत्वानुपपत्तेरित्यभिसन्धिः। असिद्ध-इत्युपलक्षणं, चैत्यवन्दनाद्याचारप्रवाहे लौकिकाचारप्रवाहे च

३०० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां
गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित् स्वाध्यायविच्छेदात् ? न प्रथमद्वितीयौ ।
सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्टाचारस्याप्युच्छेद-
प्रसङ्गात्, तस्याध्येतृसमानकर्तृकत्वात् । अन्यत आगतैराचारप्रवर्त्तने, अध्ययन-
प्रवर्त्तनमपि स्यात् । न तृतीयः । आध्यात्मिकशक्तिसम्पन्नानामन्तेवासिनामविच्छेदे
तस्यासम्भवात् ।
तस्मादायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात्
स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिदनुवर्त्तते । विश्वपरिग्रहाच्च न सहसा सर्वो-
च्छेद इति युक्तमुत्पश्यामः ।
गतानुगतिको लोक इत्यप्रामाणिक एवाचारो, न तु शाखोच्छेदः, अनेकशाखा-
गतेतिकर्त्तव्यतापूरणीयत्वात्, एकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्गादिति चेत् । एवं
हि महाजनपरिग्रहस्योपप्लवसम्भवे वेदा अपि गतानुगतिकतयैव लोकैः परिगृह्यन्ते
बोधनी ।
दागतैरप्येतैराचाराः प्रवर्त्तिष्यन्त इत्यत्राह अन्यतः इति । आध्यात्मिकी शक्तिर्वक्ष्यमाणायु-
र्ादिकम् । तस्य स्वाध्यायविच्छेदस्य । तस्मात्स्वाध्यायविच्छेदोऽपि तावदस्मत्पक्षानुगुण एव
भवेदित्याह नात्तस्मात् इति । आयुरादीनां ग्रहणादिशक्तेश्च प्रत्यहमपचयादेव स्वाध्यायानुष्ठान-
योर्विशेषणं न तूपचितेष्वेव तेषु । तत्र कथंचित् केषुचिदेव पुरुषेषु कस्याश्चिच्छाखायाः स्वाध्या-
यानुष्ठानमनुवर्तते, परिग्रहीतॄणामनेकत्वात्तेषां युगपदनुच्छेदाच्च नैकदैव सर्वस्य स्वाध्यायस्य
कर्मानुष्ठानस्य वोच्छेद इति । अनेन शक्तेः स्वाध्यायकर्मणोरित्येतद्विवृतमिति द्रष्टव्यम् ।
ननु यद्यष्टकाद्याचारः प्रमाणमूलः स्यात् ततस्तन्मूलस्य वेदस्येदानीमनुपलम्भादुच्छेदः
कल्प्येत, अयं त्वप्रामाणिक एव । 'गतानुगतिको लोको न लोकस्तत्त्वचिन्तकः' इति तालतल-
बन्धनानन्यायेन प्रवर्त्तत इत्याह-गतानुगतिकः इति। ननु महाजनपरिग्रहात्प्रामाणिकत्वमेव तेषाम-
ङ्गीकृत्य शाखोच्छेद एव किमिति न कल्प्य इत्यत्राह-अनेकशाखा इति । सर्वशाखाप्रत्ययमेकं
प्रकाशः ।
तस्येति । यद्यप्याचारस्याप्यध्येतृसमानकर्तृकतयाऽध्ययनगोचरशाखाबोधिताचारस्यानुपपत्तिः,
तथाप्यत्राध्ययनाभावः शक्त्यभावप्रयुक्तः, स च नैतद्देशनियतस्त प्रागप्यत्र तदभावापत्तेः, किन्त्वे-
तत्कालनियतः । अतो भारतवर्षोऽन्यदेशः, स्मृत्याचारमूलाध्ययनशून्यो, देशत्वात्, एतद्देशव-
दिति भावः ॥
उच्छिन्नशाखाबोधितेतिकर्तव्यताशङ्कया एकस्मिन्नपि कर्मणीतिकर्त्तव्यतेयत्तानिश्चयो न स्या-
दित्यमानक एवायमाचार इत्याह—
गतेति । महाजनपरिगृहीताचारस्यामानकत्वंशङ्का वेदेऽपि स्यादित्याह । एवं हीति ।
प्रकाशिका ।
लक्षणम् लौकिकाचारे चैत्यवन्दनाचारे च प्रवाहपन्ने व्यभिचार इत्यपि द्रष्टव्यम् । किन्त्वेतत्का-
लनियत इति । एतद्देशावच्छिन्नैतत्कालनियतत्वे च शक्त्यभावस्य गौरवमेव बाधकमिति
भावः । स्मृत्याचारेति । ननु यथाश्रुते दृष्टान्ते साध्यवैकल्यम् । न च विवादपदे स्मृत्या-
मकरन्दः ।
व्यभिचारोऽपीति द्रष्टव्यम् । किन्त्वेतत्कालेति । यद्यप्येतत्कालावच्छिन्नैतद्देशत्वाभ्युपगमे नोक्त-
दोषस्तथापि लाघवादेतत्कालावच्छेदेनैक शक्त्यभावः कल्प्यते इति भावः । स्मृत्याचारेति ।
विवादपदस्मृत्याचारेत्यर्थः । इदानीं तच्छून्य इति साध्यम् । तेन दृष्टान्तस्य न साध्यवैकल्यम् ।