सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

द्वितीयस्तबके ] प्रमाश्वतस्त्वखण्डनम् । २१५
स्यादेतत् । शब्दे तावद्विप्रलिप्सादयो भावा एव दोषाः, ततस्तदभावे स्वत
बोधनी ।
अस्त्वेव प्रत्यक्षे विशेषादर्शनादेरभावस्य दोषत्वं, न तु प्रमाणान्तर इत्याह-स्यादेतत्
इति । शब्दे तावद्भावात्मकदोषाभावे सति स्वत एवातिरिक्तभावानापेक्षाज् ज्ञानकरणादेव शब्दा-
त्प्रमोत्पद्यत इति दृष्टम् । शब्दे तावदेवम्, अनुमानादावपि तथा द्रष्टव्यमिति तावच्छब्दस्यार्थः ।
प्रकाशः ।
मैवम् । प्रमामात्राहितृत्वेऽपि संशयविपर्ययोत्तरप्रमायां तस्य हेतुत्वात् । तत्र विशेषाद-
र्शनस्य दोषत्वेनान्यत्रापि तथात्वात् । पित्ताद्युत्कर्षस्यापि भूयोविशेषादर्शनप्रतिबन्धकत्वेनान्यथा-
सिद्धत्वात् ।
ननु प्रत्यक्षप्रमादौ गुणजन्यत्वेऽपि वेदे भ्रमाद्यभावचतुष्टयं प्रमाहेतुः । लोके भ्रमाद्यभाव
एव प्रमोत्पत्तेः । न तु वक्तृवाक्यार्थयथार्थज्ञानवरदादिगुण इत्याह-
स्यादेतदिति । लिङ्गसादृश्यादिश्रभरूपदोषाभावमात्राज्ञानुमित्यादिः प्रमेति लिङ्गसादृ-
श्यादियथार्थज्ञानमपि गुणस्तद्धेतुरिति शाब्दप्रमायामपि दोषाभावे सति यथार्थवाक्यार्थज्ञानं
प्रकाशिका ।
संशयविपर्ययोत्तरप्रमायामिति । विशेषादर्शनप्रयोज्यसंशयविपर्ययोत्तरप्रमायामित्यर्थः ।
तेन नान्धकारकालीनघटसंशयोत्तरप्रत्यक्षे आलोकममवधानमात्रजन्ये व्यभिचारः। ननु संशयोत्तरं
यत्र न प्रत्यक्षं तत्र संशयानुनुत्तरप्रत्यक्षसामग्रीसत्त्वे तत्प्रत्यक्षमेव कुतो न जायते तदसत्त्व
तत एव न प्रत्यक्षमिति न विशेषदर्शनं कारणम् कार्यव्यतिरेकप्रयोजकव्यतिरेकाप्रतियोगित्वादिति
चेत् । न । तदनुत्तरकालीनप्रत्यक्षं प्रति तदनुत्तरकालीनस्य कारणतया तदभावादेव तादृशप्रत्यक्षसां-
मग्रीविरहात् । न च विशिष्टाभाव एव विशेषादर्शनविशिष्टग्राह्यसंशयाभावरूपः कारणमस्तु न तु
विशेपदर्शनं कारणम् । अत एव न सिद्धयुत्तरानुमितौ सिषाधयिषाविशेषसामग्रीति वाच्यम् ।
विशेषादर्शनोत्तरजायमानप्रत्यक्षस्य विशेषविषयत्वनियमेन तत्र विशेषणज्ञानतया विशेषादर्शनस्य
जनकत्वे विशेषरूपेणापि तस्यैव कारणता कल्प्यते तद्धर्मिणः कारणत्वकल्पनात् । अत एव निश्चयो-
त्तरसंशयं प्रति प्रामाण्यसंशयः कारणं कोटिज्ञानत्वेन तत्र तस्य कारणतावश्यकत्वात् , सिषाधयिषा
तु न केनापि रूपेणानुमिति प्रति कारणत्वेन क्लृप्तेति न तत् प्रतिवन्दिरिति दिक् । ननु निर्हेतुकं
मूलेऽभिधानं स्वत इति न युक्तमात्माश्रयादतो व्याचष्टे । ननु प्रत्यक्षप्रमादाविति । शाब्द-
प्रमायां गुणकारणत्वापेक्षायामनुमितिप्रमादौ तदुपपादनमर्थान्तरमत आह । लिङ्गेति ।
मकरन्दः ।
संशयविपर्ययोत्तरेति । यद्यपि संशयोत्तरप्रत्यक्षमात्रे विशेषदर्शनं न हेतुः, अन्धकारे
घटसंशयोत्तरप्रत्यक्षस्य तद्दिनाऽप्यालोकसमवधानमात्रेणैवोपपत्तेः । तथापि यत्र विशेषादर्शनादि
दोषाधीनः संशयस्तदुत्तरप्रत्यक्षे तस्य हेतुत्वम् । उक्तस्थले च व्यञ्जकाभावाधीनः स इति भावः ।
ननु तत्रापि विशेषदर्शनं न हेतुः, संशयानुत्तरप्रत्यक्षसामग्रीसत्त्वे तदुत्पत्त्यापत्तेः । तदसत्त्वे तद्व्य
तिरेकादेव तद्व्यतिरेक इति किं विशेषसामग्र्यन्तरकल्पनया ? । अत एव सिद्धयुत्तरानुमितित्वा-
वच्छिन्ने सिषाधयिषा न विशेषसामग्री, किन्तु तद्विरहविशिष्टसिद्धयभावः सामान्यसामग्री । तद्
भावादेव तदा नानुमितिरिति चेत् । तर्हि तद्वदेव विशेषादर्शनविरहविशिष्टसंशयाभावः सामान्य-
सामग्रीत्यत्रैव तात्पर्यमित्याहुः । विस्तरस्त्वनुमानप्रत्यक्षप्रकाशयोरनुसन्धेयः ।
लिङ्गसादृश्येति । यद्यपि परामर्शादिरूपसामान्यसामग्रीविरहादेव तत्र नानुमित्यादिः,

२१६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१ कारिकाव्याख्यायां
एव शाब्दी प्रमेति चेन्न । अनुमानादौ लिङ्गविपर्यासादीनां भावानामपि दोषत्वे
तदभावमात्रेण प्रमाऽनुत्पत्तेः । अन्यत्र यथा तथाऽस्तु, शब्दे तु विप्रलिप्सार्य-
भावे वक्तृगुणापेक्षा नास्तीति चेन्न । गुणाभावे तदप्रामाण्यस्य वक्तृदोषापेक्षा
नास्तीति विपर्ययस्यापि सुवचत्वात् । अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेकौ

बोधनी ।
न-इति । अनुमाने लिङ्गविषयविपर्यासविरुद्धत्वादीनां भावानां दोषत्वे सत्त्वेऽपीत्यपिशब्दो भिन्न-
क्रमः, अवधारणे वा । भावरूपदोषाभावमात्रेण लैङ्गिकज्ञानहेतोर्हृत्संशचाराद् दृष्टव्यभिचारालि-
ङ्गाद्य्याप्तिलक्षणगुणाभावे प्रमाद्यनुत्पत्तेस्तवापीष्टत्वात् । न च व्याप्तिरप्यनुमितिज्ञानमात्रे हेतुर्न प्रमाया
इति युक्तम् । व्याप्त्यभावेऽपि मैत्रीतनयत्वादेवानुमितिज्ञानोत्पत्तेः । अत्रादिशब्दाभ्यामर्थापत्तिमनु-
पपद्यमानविपर्यासञ्च संगृह्णाति । अन्यत्र-इति । अनुमानादावतिरिक्तभावापेक्षाऽस्तु मा वा, न हि
नस्तत्र निर्भरः, शब्दे तु दोषाभावे सत्यपि न स्वतः प्रम्रोत्पत्तौ गुणापेक्षाऽस्तीति नः समीहित
वेदप्रामाण्योपयोगादिति । तदेतदनिष्टप्रसङ्गमुद्भाव्य शङ्कितं, तत्समान्धिमन्त्रापि समीकुर्वन्
परिहरति—गुणाभाव इति तुल्यत्वादित्यन्तेन । तर्हि पौरुषेयवाक्ये गुणान्वयव्यतिरेकदर्शनात्
तदधीनमस्तु प्रामाण्यम्, अपौरुषेये तु वेदे तदसम्भवादोषाभावमात्राधीनं प्रामाण्यमङ्गीकर्त्तव्यमि-

प्रकाशः ।
गुणे हेतुरित्याह । अनुमानादाविति । ननु यथार्थवाक्यार्थज्ञानादौ गुणे सत्यपि करणापा-
टवाद् यत्रान्यमभिधित्सिते अन्यद् ब्रूते तत्र वाक्यं न प्रमाणम्, दोषाभावस्य तु प्रमाहेतुत्वे
करणापाटवान्न सोऽस्तीति तत्र न प्रामाण्यमुपपद्यते इति शङ्कते । अन्यत्रेति । वक्तृदोषे
सत्यपि भ्रान्तविप्रलम्भकवाक्ये संवादात् प्रामाण्यदर्शनाद्दोषोऽपि नाऽप्रामाण्यप्रयोजकः ।
तात्पर्यविषये त्वप्रामाण्यमेवेति प्रामाण्येऽपि तुल्यमिति परिहरति । गुणाभाव इति ।

प्रकाशिका ।
तथा च दृष्टान्तार्थ तदुपपादनमिति भावः । न च लिङ्गादिज्ञानाभावदशायां सामान्यसामग्रीविर-
हादेव न प्रमेति वाच्यम् । एवं सति यत्र सामान्यमित्यादिन्यायेन यथार्थपरामर्शादेव प्रमाहे-
तुत्वे सिद्धेऽनुमित्यादिदृष्टान्तेन शाब्देऽपि गुणजन्यत्वमुपपादितमेवेति शङ्खैवेयं तुच्छेत्यतस्तां
दीपयति । ननु यथार्थेति । तात्पर्थ्यविषये त्विति । यद्यपि न भ्रान्तप्रतारकस्थले तात्प-
र्यविषयघटसत्तांशे प्रामाण्यं तथाप्यन्यथानुबुद्धमन्यथा बोधयामीति यत्तत्र तात्पर्यं तद्विषयीभूतदु-
ग्धांशेऽप्रामाण्यमस्त्येवेति भावः। प्रामाण्येऽपि तुल्यमिति । यद्यपि करणापाटवस्थले तात्पर्यविषये-
न प्रामाण्यं तात्पर्यस्यैवाभावादिति न तौल्यार्थः । तथापि भ्रान्तप्रतारकस्थलेऽपि नाप्रमाजनकत्वं व-
स्तुत इति । यद्युपनीतभानस्थलेनैव पूर्वग्रन्थे मयाप्येवमुपगन्तव्यमिति तुल्यार्थः, वस्तुतः करणापा-
टवस्थले प्रकृतवाक्यार्थयथार्थज्ञानाभावादेवाप्रामाण्यं भ्रान्तप्रतारकवाक्यस्थले चाहार्यसंसर्गज्ञानस्यैव
यथार्थस्य सत्त्वात् प्रामाण्यमित्यभिसन्धिः । ननु युज्यतां तथैव विभाग इत्युपेक्षाज्ञानादपि प्रवृत्ति-

मकरन्दः ।
तथापि यत्सामान्ये यत्सामान्यमिति न्यायात् प्रमात्वस्यानुमित्यादिविशेषे सत्यपरामर्शादिविशेषस्य
हेतुत्वमिति भावः । तात्पर्यविषये त्विति । अघटे घटत्वं तत्तात्पर्यविषयस्तत्र च प्रमा नो-
त्पन्नेवेत्यर्थः । प्रामाण्येऽपीति । यद्यपि तात्पर्यविषयीभूतेऽर्थे करणापाटवस्थलेऽपि प्रामाण्य-
मेवेति न तौल्यार्थस्तत्र प्रामाण्याभावात्, तथापि प्रकृतवाक्यार्थगोचरयथार्थज्ञानलक्षणो गुण-
एव तत्र नास्तीति भावः ।

३. तृतीय स्तबक: बौद्ध प्रत्यक्ष-अनुमान खण्डन एवं ज्ञान-प्रामाण्य

द्वितीयस्तवके ] प्रामाण्यस्वतस्त्वखण्डनम् । २१७
स्त इति चेन्न । प्रामाण्यं प्रत्यपि गुणानां तयोः सत्त्वात् । पौरुषेयविषये इय-
मस्तु व्यवस्था, अपौरुषेये तु दोषनिवृत्त्यैव प्रामाण्यमिति चेन्न । गुणनिवृत्त्याऽ-
प्रामाण्यस्यापि सम्भवात् । तस्या अप्रामाण्यं प्रति सामर्थ्यं नोपलब्धमिति चेत् ।
दोषनिवृत्तेः प्रामाण्यं प्रति क्व सामर्थ्यमुपलब्धम् ? । लोकवचसीति चेत् ।
तुल्यम् । तदप्रामाण्ये दोषा एव कारणं, गुणनिवृत्तिस्त्ववर्जनीयसिद्धसन्निधिरिति
चेत् । प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत् । गुणानां दोषोत्सारणप्रयुक्तः सन्नि-
धिरिति चेद्, दोषाणामपि गुणोत्सारणप्रयुक्त इत्यस्तु । निःस्वभावत्वमेवमपौरु-
षेयस्य वेदस्य स्यादिति चेत्, आत्मानमुपालभस्व । तस्माद्यथा द्वेषरागाभावा-
विनाभावेऽपि रागद्वेषयोरनुविधाननियमात् प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषका-
रणकत्वं, न तु निवृत्तिप्रयत्नो द्वेषहेतुकः, प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुवि-
बोधनी ।
र् ह-पौरुषेय-इति । तदेतत्परिहरन् प्रसङ्ग तावदाह-गुणनिवृत्ति-इति । तत्समाधि-
माशङ्क्य साम्यापादनेन परिहरति-तस्याः-इति । यदि लोकवचसि दोषनिवृत्तेः प्रामाण्ये
हेतुत्वमुपलब्धं तर्हि गुणनिवृत्तेरप्रामाण्यहेतुत्वमपि तत्रैवोपलब्धमिति शङ्कोत्तराभ्यामाह-
लोक-इति । ननु तस्य लोकवचसऽप्रामाण्ये दोषा एव कारणमनन्यथासिद्धान्वयव्यतिरेकत्वात्,
गुणनिवृत्तिस्तु विरोधिदोषसंनिधाननान्तरीयकेत्याह -तदप्रामाण्य-इति । तर्हि प्रामाण्यकार-
णेषु गुणेषु सत्सु तद्विरोधिनां दोषाणां निवृत्तिरप्यवर्जनीयसंनिधिरिति स्यादित्याह-प्रामाण्यं
प्रति-इति । यदि गुणानामन्यत्रोपक्षयेण प्रमायामहेतुत्वं तर्हि दोषाणामपि तथात्वे नाप्र-
मायामहेतुत्वं भवेदिति शङ्कोत्तराभ्यामाह -गुणानाम्-इति । ननु प्रामाण्याप्रामाण्योरथैवं
वक्तृगुणदोषाधीनत्वे सति वक्तृविधुरस्य वेदस्योभयोरप्यभावेन प्रामाण्याप्रामाण्योरन्यतरस्व-
भावत्वमपि न स्यादित्याह - निःस्वभावत्वम् इति । आत्मानम् इति । अपौरुषेयं वेद-
मातिष्ठमानमिति शेषः, न तु गुणवद्वक्तृत्वेन वेदस्य प्रामाण्यमङ्गीकुर्वतोऽस्मानिति भावः ।
उक्तमर्थं दृष्टान्तमुखेन विशदयन्नुपसंहरति-तस्मात्-इति । द्वेषरागाभावाविनाभावेऽपीत्यस्य
प्रकाशः ।
निःस्वभावत्वमिति । वेदे प्रमाणत्वाप्रमाणत्वप्रयोजकगुणदोषयोरभावादित्यर्थः । तस्मादिति ।
यथा प्रवृत्तौ द्वेषाभावहेतुकत्वे निवृत्तौ रागाभावहेतुकत्वे सत्यपि उपेक्षाज्ञानादपि प्रवृत्तिनिवृत्ती स्या-
तामिति रागद्वेषयोः प्रवृत्तिनिवृत्तिहेतुत्वमेकैकभावाऽन्यथासिद्ध., तथा प्रमाऽप्रमयोरपि गुण-
दोषौ, न तु दोषाभावगुणाभावावित्यर्थः ।
प्रकाशिका ।
प्रसङ्गेन पूरयित्वा व्याचष्टे । यथा प्रवृत्ताविति । न च तत्रोक्तातिप्रसङ्गात्तथास्तु प्रकृते तु न
किञ्चिदनिष्टमिति वाच्यम् । प्रकृतेऽपि सुषुप्तिदशायामेव प्रमाद्युत्पत्तिप्रसङ्गस्यानिष्टत्वात् परामर्शो-
द्बोध सामान्यसामग्रीत्वे तद्विशेषस्यैव प्रमाहेतुत्वादित्युक्तत्वात् । रागद्वेषयोरिति । न च प्र-
वृत्त्यभाव एव निवृत्तिरिति नाक्तविभागसङ्गतिरिति वाच्यम् । वैपरीत्यापत्तेः । न च सुषुप्तिदशायाम-
प्येवं प्रवृत्तिप्रसङ्गे तत्कार्यचेष्टापत्तिरिति वाच्यम् । शरीरमनःसंयोगाभावेनैव तद्विरहोपपत्तेः । न
चैवं सुषुप्तिदशायां प्रवृत्तोऽयमिति व्यवहारप्रसङ्ग इति वाच्यम् । निवृत्तव्यवहारस्यापि तदाभावेन
मकरन्दः ।
रागद्वेषयोरिति । अत्रेदं चिन्त्यम् । प्रवृत्तिविरह एव निवृत्तिरिति न प्रयत्नद्वैविध्यं,
मानाभावात् । न च वैपरीत्यापत्तिः । सुषुप्तिदशायामपि निवृत्तिविरहस्य सत्त्वेन प्रवृत्तिह्याप्य-
२८ न्या० कु०

२१८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
धाने द्वेषाभावहेतुक इति विभागो युज्यते, विशेषाभावात्, तथा प्रकृतेऽपि ।
तथापि वेदानाम्पौरुषेयत्वे सिद्धे, मपेतवक्तृदोषत्वादेव प्रामाण्यं सेत्स्यति, ततः
सिद्धे प्रामाण्ये गुणाभावेऽपि तदिति दोषाभाव एव हेतुरकारणं गुणा इति चेन्न ।
अपेतवक्तृगुणत्वेन सत्प्रतिपक्षत्वप्रसङ्गात् । स्वत एव प्रामाण्यनिश्चयः, किन्तु
शङ्कामात्रमनेनापनीयते दोषनिबन्धनत्वात्तस्य तदभावेऽभावात्, अतो नेदमनु-
बोधनी ।
प्रवृत्तिनिवृत्तप्रयत्नयोरित्यनेन संबन्धः, न त्वित्यस्य युज्यते इत्यनेन । विशेषाभावादिति । द्वेषानु
विधायिनो निवृत्तिप्रयत्नाद्रागानुविधायिनः प्रवृत्तिप्रयत्नस्यैतदनुविधायित्वे विशेषाभावादिति । न
चात्र द्वेषाभाव एव प्रवृत्तेः कारणमिति युक्तम्, उपेक्षाज्ञानादपि प्रवृत्तिप्रसङ्गात् । तथा प्रकृते
प्रामाण्यविषयेऽपि दोषगुणाभावाविनाभावेऽपि प्रामाण्याप्रामाण्योरन्यथासिद्धगुणदोषानुविधान-
नियमात्तद्धेतुक्त्वम् । न त्वप्रमा दोषहेतुका, प्रमा तु सत्यपि गुणानुविधाने दोषाभावहेतुकेति-
विभागो युक्त इति ।
नन्वस्तु गुणानुविधानं प्रामाण्यस्य तथापि न तद्धैतुकत्वमित्याह—तथापि—इति ।
वेदानां प्रामाण्यमपौरुषेयत्वं च तावत्सिद्धं तेन दोषाभावमात्रेण प्रामाण्यं सेत्स्यतीति सिद्ध्य-
त्येव ततो गुणाभावेऽपि दोषाभावादेव वेदे तत्प्रामाण्यं दृष्टमिति व्यभिचारादकारणं गुणाः-
सर्वत्र दोषाभावस्तु कारणमव्यभिचारादिति । न-इति । न तावद्यापि वेदानाम्पौरुषेयत्वेन
प्रामाण्यमिति सिद्धं, येन तत्र गुणव्यभिचारो निर्दिश्येत । लोकाधीननिर्णयो हि वेदो लोके चान्य-
भिचाराद् गुणः प्रामाण्यहेतुरिति स्थितम्, तत्र यदि वेदस्यापौरुषेयत्वमाश्रित्य दोषाभावात् प्रामा-
ण्यमुच्येत तदा गुणाभावादप्रामाण्यमपि वक्तुं शक्यत इति । स्वतः-इति । न तावद्वेदानां
प्रामाण्यमपेतदोषवक्तृत्वेनानुमीयते, स्वतो बोधजनकत्वेन निश्चिते प्रामाण्ये हेत्वन्तरादप्रामाण्य-
शङ्कायां तन्निराकरणमात्रमप्रामाण्यकारणदोषाभावावधारणेन क्रियते । तदाहुः—
तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धौ प्रमाणता ।
अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते । ( श्लो० वा, ) इति ।
प्रकाशः ।
नन्वन्यत्र गुणस्य प्रमाहेतुत्वेऽपि वेदस्यापौरुषेयतया वक्तृगुणाभावाद्दोषाभावमात्रप्रयुक्तमेव
प्रामाण्यमिति प्रामाण्ये गुणस्य व्यभिचाराद् न हेतुत्वं, किन्तु दोषाभावस्यैवेत्याह । तथा
पीति । सिद्धिर्ज्ञप्तिः । सिद्धेः=निश्चिते । वेदाः प्रमाणम् , अपेतवक्तृदोषत्वादित्यनुमानादि
त्यर्थः । अत्र वेदा न प्रमाणम् , अपेतवक्तृगुणत्वादिति सत्प्रतिपक्षमाह । अपेतेति । ज्ञान-
ग्राहकादेव प्रमात्वं स्वीक्रियते, दोषाधीना तु शङ्का अपेतवक्तृदोषत्वादेव निरस्येत्याह ।
स्वत एवेति । तथापि गुणाभावहेतुकोऽप्रमाण्यसंशयस्तदवस्थ एवेत्याह । गुणनिवृत्तोति ।
तस्या इति । दोषसहितगुणनिवृत्तेरेवाऽप्रमात्वहेतुत्वादित्यर्थः । दोषेति । गुणसहितदोषनिवृ-
त्तेरेव प्रमात्वप्रयोजकत्वादित्यर्थः ।
ननु तथापि शुकादिवाक्यं भ्रान्तप्रतारकवाक्यं च संवादि कथं प्रमाणं, गुणाजन्यत्वात् ।
मकरन्दः ।
चेष्टादिकार्योत्थापत्तेः । न च तदा निवृत्तिरेवेति वाच्यम्, तदा तत्कारणद्वेषाभावेन तदभावात्
द्वेषाभावश्च तत्कारणदुःखसाधनत्वज्ञानाभावादिति ॥

द्वितीयस्तबके ] प्रामाण्यस्वतस्त्वखण्डनम् । २१६
मानवत् सप्रतिसाधनोकर्तुमुचितमिति चेत् । न । गुणनिवृत्तिनिबन्धनायाः
शङ्कायाः सुलभत्वात् । तस्याः केवलाया अप्रामाण्यं प्रत्यनङ्गत्वान्न शङ्केति चेद्,
बोधनी ।
ततो नेदमपेतवक्तृदोषत्वं सप्रतिसाधनीकर्तुं युक्तमिति । न-इति । दोषाभावे तद्दोषनिबन्ध-
नाप्रामाण्यशङ्कानिवृत्तावपि प्रामाण्यहेतुगुणनिवृत्तिनिबन्धनायास्तस्याः स्वस्यत्वात् । न हि स्वतः
प्रामाण्यनिश्चय इत्यग्रे निवेदयिष्याम इति भावः । तस्या-इति । न तावद्दोषसंसर्गमन्तरेण
प्रकाशः ।
धूमभ्रमाद्धिमत्येव वह्नयनुमितिर्वा कथं प्रमा, यथार्थलिङ्गज्ञानाजन्यत्वात् । न च वह्नयन्तरमेव
तद्विषयः । प्रत्यभिज्ञानात् । गोत्वायैकव्यक्तिके तदभावाच्च । उच्यते । शुकादिवाक्ये भ्रान्त-
प्रतारकवाक्ये च प्रमाणशब्दत्वेनातोक्तत्वाद्देववदीश्वरस्यैव यथार्थवाक्यार्थज्ञानं गुणो हेतुः, तस्य
कार्यमात्रकर्तृत्वात् । शुकादिवाक्ये वेदतुल्यतया दोषाभावादिनाऽपि मन्तव्यत्वात् । न चैवं
शब्दाभासोच्छेदः, तस्यापीश्वरकर्तृकत्वादिति वाच्यम् । तद्वाक्यार्थस्यासत्त्वेनेश्वरज्ञानाविषय-
त्वात् । एवं लिङ्गाभासजन्यप्रमायामपीश्वरस्यैव यथार्थलिङ्गज्ञानं गुणः ।
एवं प्रमाया गुणजन्यतया शाब्दप्रमाया अपि गुणजन्यतया वेदे वक्तृन्तरस्याभावात् तदा-
प्रकाशिका ।
तुल्यत्वात् । ईश्वरस्यैवेति । भ्रान्तप्रतारकवाक्य आहार्यसंसर्गज्ञानमेव यथार्थं गुणः सम्भवति
तथापि शुकादिवाक्यसाधारण्यार्थमिदमेवोक्तम् । केचित्तु भ्रान्तप्रतारकस्यैव वाक्यं भ्रान्तप्रतारक-
वाक्यं तथा च भ्रान्त एवान्यस्मिन् वक्तव्ये यत्रान्यद् वदति तत्संवादिवाक्यमत्र तत्पदेनोक्तमित्याहुः।
न च भ्रान्तप्रतारकवाक्ये गुणसत्त्वेऽपि दोषसत्त्वात् कथं प्रमेति वाच्यम् । भ्रमस्य भिन्नविषय-
त्वात् । प्रतारणायाश्च सद्वस्तुप्रतिपादनेच्छायास्तत्राभावात् । एवं लिङ्गाभासेति । अत्रापि
शुकादिवाक्यसाधारण्यार्थमीश्वरज्ञानानुधरणम् । वस्तुतः पक्षतावच्छेदकविरोधिसाध्यनिष्ठप्रकृत-
हेतुप्रतियोगिकव्यापकतानिषयत्वमेव परामर्शप्रयोजकमिति कूटलिङ्गपरामर्श एव तत्र गुणः । अत
एवायथार्थरूपपरामर्परूपदोषसत्त्वात् कथं प्रमेति निरस्तम् । निरुक्तयथा विरोघिन एवायाथार्थ-
याप्रमाप्रयोजकत्वात् । प्रकृते च तदभावादितिदिक । शाब्दप्रमाया अपीति । यद्यपि शाब्दप्र-
मकरन्दः ।
भ्रान्तप्रतारकवाक्य इति । अत्राहार्यारोपं विना प्रतारणाया अभावात् स एव विषया-
बाधात् प्रमारूप इति तमादाय यद्यपि गुणजन्यत्वमप्रत्यूहं तथापि समाधिसौकर्यादेतदुक्तम् ।
यद्वा, भ्रान्तप्रतारकस्येव वाक्यं भ्रान्तप्रकारकवाक्यं, तथा च बाधितमन्यदवगत्या-
न्यदबाधितं यन्न दैववशाद् ब्रूते, तत्र भगवदनुद्देशेर्गुणत्वमिति वयं पश्यामः । अत एवो-
क्तगुणजन्यत्वेऽपि भ्रमादिदोषजन्यत्वादप्रामाण्यमपि स्यादित्यपास्तम् । भ्रमस्य भिन्नविषयत्वेन
तद्वाक्याजनकत्वात् , प्रतारणायाश्चाभावात् । केचित्तु विप्रलिप्सा विसंवादिप्रवृत्तिजनकेच्छा,
टिप्पणी ।
वह्नयन्तरमेव तद्विषय इति । धूमसंसर्ग्यैव वह्निर्धूमलिङ्गकानुमितौ विषयः स च
वह्निस्तत्र नास्त्येव यश्चास्ति स धूमसंसर्गिबह्नेर्विभिन्न एवेत्यर्थः । यद्यपि वह्नित्वेन गृही-
तवह्निव्याप्तिकस्य लिङ्गस्य वह्निमास्यानुमितौ सामर्थ्यम् तथा च तत्रत्यवह्निभाने न क्षतिः ।
तथाप्येतद्दूरे सत्येव, यः पूर्वं धूमसम्बन्धित्वेन गृहीतः, तस्यैव धूलिपटलेन धूमत्वेन
गृहीतेनानुमितौ भाने तद्वहेर्धूमसंबन्धिनिभिन्नत्वस्य प्रत्यभिज्ञानबाधितत्वादित्युत्तरं सौक-
र्यार्थमाह । प्रत्यभिज्ञानेति । विशिष्टबुद्धौ विशेषणज्ञानस्य हि हेतुत्वमनभ्युपगम्येदम् ।

२२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१ कारिकाव्याख्यायां
दोषनिवृत्तेरपि केवलायाः प्रामाण्यं प्रत्यनङ्गत्वान्न तया शङ्कानिवृत्तिरिति
तुल्यमिति ।
एवं प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्य
बोधनी ।
केवलाया गुणनिवृत्तेप्रामाण्यहेतुत्वं लोके दृष्टं, न चापौरुषेये दोषः सम्भवति । तेन गुणनिवृत्ति-
मात्रेण नाप्रामाण्यशङ्केति । दोषनिवृत्तेरपि इति । गुणसहिताया एव दोषव्यावृत्तेः प्रामा-
ण्यहेतुत्वं लोके दृष्टमिति न दोषनिवृत्तिमात्रेणाप्रामाण्यशङ्का निवर्त्तत इति ।
यच्च ज्ञानानां स्वरूपात्स्वग्राहकाद्वा प्रामाण्यं ज्ञायते नान्यस्माद् गुणसंवादादिज्ञानादिति
स्वतःप्रामाण्यमुक्तं परैस्तदपि निराकुर्वन्नुपसंहरञ् ज्ञप्तिरपि परत इत्याह। एवम् इति। स्वविष-
प्रकाशः।
श्रयेश्वरसिद्धिरित्युक्तम् । सम्प्रति प्रमात्वग्रहोऽपि न स्वतः, अपि तु परत इति वैदिकप्रमाया
अपि तत्त्वमातोक्तवाक्यजन्यत्वेन ग्राह्यमिति ततोऽपीश्वरः सिद्ध्यतीत्याह—
एवमिति । अत्र यद्यपि ज्ञानप्रामाण्यं ज्ञानग्राहकसामग्रीग्राह्यं न वेति न संशयः, परतः
पक्षेऽपि ज्ञानस्यापि पक्षतया प्रमात्वानुमितौ ज्ञानग्राहकत्वात्, अप्रामाण्यस्यापि स्वतो ग्राह्यत्वा-
पत्तेश्च । तथापि तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यं न वेति संशयः । स्वतः पक्षे प्रामाण्यवत
एव ज्ञानस्य ग्रहात् । परतः पक्षे ज्ञात एव ज्ञानेऽनुमित्या प्रामाण्यग्रहात् । तत्र तेनैव प्रामाण्य-
ग्रह इति प्राभाकराः । ज्ञानस्यातीन्द्रियतया तदनुमित्या तद्ग्रह इति भाट्टाः । मनसैव ज्ञानस्व-
रूपयत् तत्प्रामाण्यग्रह इति मुरारिमिश्राः । त्रितयसाधारणं च स्वतस्त्वं निरुक्तमेव ।
पूर्वपक्षस्तु, यद्यपि विशेष्यावृत्त्यप्रकारकत्वम्, अगृहीतग्राह्यत्वं वा, प्रभाकरपक्षे स्मृत्यन्यज्ञा-
नत्वं विशिष्टज्ञानत्वं वा प्रामाण्यं नानुव्यवसायग्राह्यम्, विशेषणज्ञानं विना विशिष्टज्ञानाभावात् ।
तथापि तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यं ग्राह्यम्, निष्कम्प-प्रवृत्त्यर्थत्वाल्लाघवाच्च । तच्च
ज्ञानग्राहकसामग्रीग्राह्यमेव । तथा हि । विशेष्ये तद्धर्मवत्त्वं तत्प्रकारकत्वं च व्यवसायस्यानु-
प्रकाशिका ।
यायां यथार्थयोग्यताज्ञानमेव गुणः सम्भवतीति न तदर्थं वक्तुरपेक्षा वेदे, तथापि विशेष्यवृत्तित्वि-
शेषणज्ञानं गुणः प्रमासामान्यप्रयोजक इत्यभावत्वप्रकारकप्रथमाभावप्रमायामीश्वरीयमभावत्वज्ञानं
तदंशप्रमात्वनिष्पत्तये गुण इत्याशयेनेदमुक्तम् । सम्प्रतीति । तथा च प्रमायाः परतन्त्रत्वा-
दिति कारिकायां परतन्त्रत्वमुत्पत्तिज्ञप्त्यो विवक्षितमिति ध्येयम् । तज्ज्ञानविषयकेति । पक्षश्च ज्ञान-
प्रामाण्यमित्यनुषज्यते । अनुव्यवसायेन गृह्यत इति । तज्ज्ञानविषयकसमानाधिकरणसमानका-
मकरन्दः ।
यापि यथार्थैव दोषः, तादृशी च तत्र नास्त्येवेत्याहुः । वस्तुतो गुणविरह एव दोषः, स च तत्र
नास्तीति । अत एव लिङ्गाभासजन्यप्रमायामीश्वरयथार्थलिङ्गज्ञानजन्यत्वेऽप्ययथार्थलिङ्गज्ञानरूप-
दोषजन्यतया व्याप्तावकाश एवं भ्रमत्वमपि स्यादित्यपास्तम् । एतदपि सम्प्रदायानुरोधादुक्तम् ।
वस्तुतोऽसङ्कीर्णबाधस्थले बाधानवतारकाले यथार्थपरामर्शाद्यद्यप्यथार्थानुमित्युत्पत्तेर्बाधितत्वप्रमा
गुणः, तद्भ्रमो दोषः । शब्दे च वाक्यार्थभ्रमो दोषस्तत्प्रमा गुणः, योग्यताभ्रमो दोषस्तत्प्रमा-
गुण इति वा विवक्षितमिति सर्वमवदातम् ।
तज्ज्ञानविषयकेति । पक्षश्च ज्ञानप्रामाण्यमित्यनुषज्यते प्रत्यक्षाकाशे चैतदनुसन्धेयम् ।
टिप्पणी ।
तत्र तेनैवेति । ज्ञानस्यातीन्द्रियेति । ज्ञानत्वेन ज्ञाततात्वे सामान्यतो व्याप्तिज्ञानादेव
तज्ज्ञानानुमितिरिति कारणीभूतज्ञाने तज्ज्ञानस्य विषयत्वान्न निरुक्तस्वतस्त्वानुपपत्तिरिति
भावः । व्यवसायस्यानुव्यवसायेनात । ज्ञानविषयकज्ञानेनेत्यर्थः । तेन गुरुमतस्यापि

द्वितीयस्तबके ] प्रामाण्यपरतस्त्वोपपादनम् । २२१
बोधनी ।
यनान्तरीयस्यार्थक्रियादेः कारणगुणस्य वा विज्ञानान्निश्चितप्रामाण्यैः प्रवर्त्तकज्ञानैः सह संजातीय-
त्वानुसंधानमभ्यासद्दशापत्तिः, तद्दशापन्नानां ज्ञानानामनंतरेणाप्य ऽक्रियादिविज्ञानं तजातीयानुस-
न्धानादेव प्रामाण्यं निश्चीयते, तेन तत्र संशयिकत्वमसिद्धं भवेदित्यत उक्तम्-अनभ्यासदशा-
याम्-इति। न च व्यभिचारव्यावर्त्तनायैव हेतोर्विशेषणम्। रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वा-
दित्युक्तानसिद्धिपरिहारार्थमपि दृष्टत्वादिति। तज्जातीयत्वानुसंधानदशायां हि जाते ज्ञानेऽपि निश्चि-
तेऽपि तत्स्वरूपे प्रामाण्यं प्रति संशेरते ज्ञातारः किमिदं प्रमाणमप्रमाणं वेति। तस्माज् ज्ञानस्वरू-
पाद् स्वग्राहकाद्वा न प्रामाण्यनिश्चयः, किन्तु परतोऽर्थक्रियादिविज्ञानाद्, यथैवाप्रामाण्यनिश्चयः परतो
प्रकाशः ।
व्यवसायेन गृह्यते । ज्ञानस्य विषयन्निरूप्यतया ज्ञानवित्तिवेद्यो विषय इति व्यवसाये भासमाने
धर्मधर्मिवत्तद्वैशिष्ट्यमपि विषयः, व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् । अत एव रजतत्वेन पुरो-
वर्तिनं जानामीति तदाकारः । अन्यथा, पुरोवर्तिनं रजतञ्च जानामीति तदाकारापत्तिः । अप्रा-
माण्यं तु परतो ज्ञायते, तदभाववत्त्वस्य भ्रमांगुलिखितत्वेनानुव्यवसायाविषयत्वात् । न चैव-
मनुव्यवसायस्य यावद्व्यवसायविषयविषयकत्वे भ्रान्तभ्रान्तिज्ञसङ्करः, बाधानवतारदशायामिष्ट-
त्वात् , तदवतारे तस्यैव प्रतिबन्धकत्वादिति ।
तत्र सिद्धान्त्याह । एवमिति । अनभ्यासदशायामिति भागासिद्धिवारणार्थम् , न तु
व्यभिचारनिरासार्थम् । परतो ज्ञेयत्वस्य केवलान्वयित्वात् । ननु स्वस्याप्यन्यापेक्षया परत्वाद्
भट्टमते ज्ञाताऽनुमितिग्राह्यत्वाच्च सिद्धसाधनम् । परतो ग्राह्यत्वेऽपि कदाचित् स्वतो ग्राह्यत्वावि-
रोधाद् , अर्थेन व्यभिचारश्च । तस्य तज्ज्ञानग्राह्यस्य ज्ञानप्रामाण्यसन्देहेन सन्दिह्यमानत्वात् ।
न च ज्ञानत्वेन हेतुर्विशेषणीयः । ज्ञानविषयकज्ञानप्रामाण्यसन्देहाहि-ज्ञानरूपार्थसन्देहेऽपि
प्रकाशिका ।
लीनज्ञानेनेत्यर्थः । तेन सार्वसाधारण्यम् । व्यवसायरूपेति । व्यवसायविषयं प्रत्येव प्रत्यासत्तिक-
थनमिदम्, एतदभावेऽपि ज्ञानत्वादिभानादिति स्मर्त्तव्यम्। भागासिद्धिवारणार्थं पक्षविशेषणं बोद्धव्य-
मितिशेषः । नन्विति । हेतुविशेषणमिति शेषः। न च ज्ञानत्वेनेति । न चैवं स्वरूपासिद्धिर्दृष्टान्ता-
सिद्धी इति वाच्यम् । ज्ञानधर्मत्वेनेत्यर्थात् । न चैवं ज्ञानरूपार्थे व्यभिचारप्रदर्शनमग्रेतनं विरुद्धमिति
वाच्यम् । तत्रापि ज्ञानपदेन ज्ञानत्वमभिधानात् । केचित्तु ज्ञानत्वेनेत्यस्य ज्ञानाविषयप्रतीत्यविषय-
मकरन्दः ।
भागासिद्धिरिति । पक्षविशेषणं बोध्यमिति शेषः । न त्विति । हेतुविशेषणमिति शेषः ।
न च ज्ञानत्वेनेति । ज्ञानाविषयप्रतीत्यविषयत्वेनेत्यर्थः । यथाश्रुते स्वरूपासिद्धिप्रसङ्ग इति
बोध्यम् । यत्तु ज्ञानधर्मत्वेनेत्यर्थ इति तन्न। ज्ञानरूपार्थेऽनुपदं व्यभिचारोपदर्शनविरोधात् ।
टिप्पणी ।
संग्रहः । अत एवेति । वैशिष्ट्यस्यापि विषयत्वादेव । ननु स्वतो ग्राह्यत्वं परतो-
ग्राह्यत्वञ्च परस्परविरुद्धमिति स्वतो ग्राह्यत्वमङ्गीकर्तॄणामसिद्धमेव परतो ग्राह्यत्वमत आह ।
परत इति । तथा च न तयोर्विरोध इति । स्वाश्रयानतिरिक्तज्ञानग्राह्यत्वस्य परतस्त्वस्वरूपत्वाद्
भट्टेति । अविरोधादिति । परतो ग्राह्यत्वस्य स्वतो ग्राह्यत्वासिद्धत्वं कल्पयितुन्न शक्यत
इति भावः । तज्ज्ञानप्रामाण्यं तज्ज्ञानेन गृह्यत इत्येवं साधने त्वाह-अर्थेन व्यभि-
चारश्चेति । तज्ज्ञानग्राह्यस्येति । अनेन साध्यव्यतिरेको दर्शितः । न च ज्ञानत्वेनेति ।
ज्ञानाविषयकप्रतीत्यविषयोऽत्र ज्ञानपदार्थः। तेन प्रामाण्यस्य ज्ञानत्वाभावेन स्वरूपासिद्धिरिति शङ्काया

२२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
प्रकाशः ।
तस्य निश्चितत्वेन तथापि व्यभिचारात् । उच्यते । अनभ्यासदशोत्पन्नज्ञानप्रामाण्यं न
स्वाश्रयग्राह्यं तदन्यग्राह्यं वा, स्वाश्रये सत्यपि तदुत्तरतृतीयक्षणवृत्तिसंशयविषयत्वात् ,
प्रकाशिका ।
त्वेनेत्यर्थः । अतो न पक्षदृष्टान्तासिद्धि। न वाग्रे दर्शितव्यभिचारविरोध इत्याहुः । अनभ्यासद-
शोत्पन्नेति । इदं च भागासिद्धिवारणाय पक्षविशेषणम् हेतोरन्यतरोप लक्षणम् । न स्वाश्रयेति ।
न यावत्स्वाश्रयग्राह्यमित्यर्थः, तेन योगिज्ञानादिग्राह्यत्वमादाय न बाघः, सर्वविशेष्यकत्वे सति सर्व-
प्रकारकत्वन्तु प्रामाण्यमपक्ष एवेति न निरुक्तसाध्येऽप्यंशतो बाघः । तदन्येति । यावत्स्वाश्रयग्रा-
ह्यत्वे सति स्वाश्रयातिरिक्ताग्राह्यत्वं साध्यम् । तेन यथाश्रुतेऽनुमितिमादाय-सिद्धसाधनं मात्रपदप्र-
वेशे योगिज्ञानमादाय बाध इति दूषणं निरस्तम् । स्वाश्रयीभूतास्मदादिज्ञानव्यक्त्यतिरिक्तमात्रग्रा-
ह्यत्वं साध्यम् । तेन नोक्तदोषावकाश इति कश्चित् । स्वाश्रये सत्यपीति । अपिशब्दो विपक्ष
बाधकसूचनाय सतिसप्तमीमहिम्ना सामानाधिकरण्यं लभ्यते तेन स्वाश्रयसमानाधिकरणस्वाश्र-
मकरन्दः ।
ज्ञानत्वे व्यभिचारोपदर्शनपरं तदिति ज्ञानधर्मपरत्वेऽप्यदोष इत्यन्ये । मनभ्यासदशापन्नेति ।
कर्त्तव्यहेतुर्यावति तावंत एव पक्षत्वमभिमतम् । अनभ्यासदशापन्नेऽपि सर्वत्र न संशय इति
यथाश्रुते भागासिद्धितादवस्थ्यापत्तेरिति ।
न स्वाश्रयेति । न यावत्स्वाश्रयग्राह्य मित्यर्थः । तेन योगीश्वरज्ञानस्य सर्वप्रामाण्याश्रयतया
तद्ग्राह्यत्वेन न बाधः । यद्यपि सर्वविषयकज्ञानमात्रवृत्तिप्रामाण्यांशे बाधः । तथापि तस्य पक्ष-
बहिर्भाव एवेति बोध्यम् । तदन्येति । स्वाश्रयान्येत्यर्थः । ननु परेषामपि प्रामाण्यस्यानुमिति-
ग्राह्यत्वाभ्युपगमेन सिद्धसाधनम् । न च स्वाश्रयातिरिक्तमात्रग्राह्यत्वमित्यर्थः, उक्तन्यायेन प्रामा-
ण्यमात्रस्यैव स्वाश्रयीभूतयोगीश्वरज्ञानादिग्राह्यतया बाधापत्तेरिति चेन्न । स्वाश्रयपदेन स्वाश्रय-
त्वावच्छिन्नं न विवक्षितं, येनोक्तदोषः स्यात् , किन्तु स्वाश्रयीभूतास्मदादिज्ञानव्यक्तिः, तदति-
रिक्तमात्रग्राह्यमित्यर्थः ।
स्वाश्रये सत्यपीति । विपक्षबाधक तर्कसूचनायापिशब्दः, सतिसप्तमीमहिम्ना च स्वाश्रयसा-
मानाधिकरण्यं पक्षविशेषणं लभ्यते । तथा च स्वाश्रयसमानाधिकरणस्वाश्रयाधिकरणक्षणावधिकतृ-
टिप्पणी ।
निराशः प्रामाण्यस्याप्युक्तज्ञानत्वात् । तस्य निश्चितत्वेनेति । ज्ञानरूपार्थस्य प्रामाण्याश्रयत्वे
नाभिमतज्ञानज्ञानग्राह्यत्वेन निश्चितत्वेनेत्यर्थः । न स्वाश्रयग्राह्यमिति । भट्टं प्रति साधने च
स्वाश्रयविषयकयावद्ग्राह्याभावः साध्यः । तेन नेश्वरज्ञानमादाय स्वमते बाधः, मीमांसकमात्रं
प्रत्येव साधनीयत्वेन गुरुमते स्वाश्रययावद्ग्राह्यत्वस्यैव सत्त्वेन न सिद्धसाधनम् विशिष्य स्वाश्रय-
विषयकज्ञानाजन्यज्ञानविषयत्वस्य विषयेऽपि सत्त्वाविरोधादित्यर्थः । तदन्यग्राह्यं चेति ।
मीमांसकसामान्यं प्रत्येव साधनस्य प्रस्तुतत्वेन प्रभाकरमते स्वाश्रयेणापि ग्रहणाद्
भट्टादिकम्प्रत्येव तथात्वे जन्यस्वाश्रयातिरिक्तमात्रग्राह्यत्वमित्यर्थः । नातो भट्टादिमते
स्वाश्रयातिरिक्तानुमित्यनुव्यवसायग्राह्यत्वेऽपि सिद्धसाधनम् । यद्वा भट्टादिमतेऽनुमित्य-
नुव्यवसाययोः स्वातन्त्र्येणापि व्यवसायविषययावद्ग्राहकतवेन तयोस्तदंशे व्यवसायसमाना-
कारकत्वा स्वाश्रयत्वेनैव सिद्धसाधनाभावान्मात्रपदन्न देयम् , स्वमते च प्रामाण्यानुमितिर्न
व्यवसायसमानाकारिका व्यवसायविषयवह्निमत्पर्वतादेराधेयतया विशेष्यत्वे प्रकारत्वात्
पर्वतादौ बह्वयधिकरणत्वादरेव वा प्रमात्वघटकत्वादिति । संशयविषयत्वादिति । स्वाश्रय-

द्वितीयस्तबके ] प्रामाण्यपरतस्त्वोपपादनम् । २२३
प्रकाशः ।
प्रामाण्यसंशयाजन्यसंशयविषयत्वाद्वा, अप्रामाण्यवत् । अर्थे निश्चितेऽपि न निश्चयानन्तरतृतीय-
क्षणेऽर्थसंशयो न वा प्रामाण्यसंशयं विनेति नार्थेन व्यभिचारः । स्वशब्दस्य सम्बन्धिशब्दत्वेन
समभिव्याहृतपरत्वान्न स्वस्य परत्वम् । यथोक्तं, "यावद्व्यवसायोल्लिखितप्रकारविशिष्ट एव धर्म्य-
नुव्यवसाये भासते" तन्न । तथा हीदं रजतञ्च जानामीति नानुव्यवसायः, बहिर्विशेष्यके मनसो-
ऽस्वातान्त्र्यात् , किं स्विदमिदन्त्वेन रजतत्वेन जानामीति । तत्रेदन्त्वरजतत्वे प्रकारत्वेन, तत्प्र-
कारकज्ञानवत्त्वञ्चात्मनि भासते, अन्यथा प्रकारवाचितृतीयाऽर्थोऽसम्भवः । न च रजतत्ववैशिष्ट्यमेव
तृतीयार्थः, व्यवसायेऽपि तदुल्लेखापत्तेः । अतः, इदन्त्वरजतत्ववैशिष्ट्यं पुरोवर्तिनो नानुव्यव-
सायविषय इति कुतः स्वतः प्रामाण्यग्रहः ।
ननु परतः प्रामाण्यपक्षेऽपि परस्य शब्दादेरभावेऽनुमानं वाच्यम् , तच्च लिङ्गाभावादसं-
भवि । समर्थप्रवृत्तिजनकत्वं लिङ्गमिति चेन्न । कारणतावच्छेदकरूपग्रहं विना तद्ग्रहात् । तद्
प्रकाशिका ।
यावधिकतृतीयक्षणवृत्तिसंशयविषयत्वादिति हेतुः पर्यवस्यति, यत्र विशेष्ये तादृशसंशयकोटित्वं तत्र
विशेष्ये न स्वाश्रयग्राह्यमिति सामान्यव्याप्त्येदेमनुमानमभिप्रेतमतो न रूपं गुण इति ज्ञानानन्तरं ज्ञानं
गुणो न वेति यथोक्तसंशयकोटौ गुणत्वे व्यभिचारः । वस्तुतो यज्ज्ञानव्यक्त्यनन्तरं तृतीयक्षणे नैतादृ-
शसंशयः, तद्व्यक्त्युत्तरतृतीयक्षणवृत्तिसंशयविषयत्वादित्येव हेतुरतो नोक्तक्रमेण गुणत्वे व्यभिचा-
रशङ्का । एतेन यत्र धर्मोत्पत्तिपूर्वमेव धर्मिज्ञानकोटिस्मरणे दैवात् तत्र ज्ञानोत्पत्तेरनन्तरं प्रामाण्य-
संशयः, तदनन्तरमर्थसंशय इत्यर्थे हेतोर्व्यभिचार इत्यपास्तम् । अतादृशव्यक्तिविशेष्योत्तरतृतीय-
क्षणवृत्तिसंशयविषयत्वस्यैव हेतुत्वात् । प्रामाण्येति । स्वाश्रयविशेष्यकप्रामाण्यसंशयजन्यसंशययो-
ग्यत्वादित्यर्थः । समर्थप्रवृत्तिजनकत्वमिति । न च जनकतावच्छेदकप्रामाण्याग्रहे कथं जनकता
ग्रह इति वाच्यम् । उक्तग्राहक सत्त्वे तृणारणिमणिन्यायेन व्यक्तावपि तद्ग्रहसम्भवात् । ज्ञाने प्रवृ-
त्तिजनकत्वं प्रवृत्तौ समर्थत्वं गृह्यत इति विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति न्यायेन विशि-
मकरन्दः ।
तीयक्षणवर्त्तिद्विमात्रकोटिकसंशयकोटित्वादित्यर्थः । तेन यत्र रूपं गुण इति ज्ञाने गुणत्वतदभाव-प्रा-
माण्यतदभावकोटिकः समूहालम्बनः संशयः, तत्र गुणत्वे हेत्वभावादेव न व्यभिचारः । यत्र च
गुणत्वतदभावमात्रकोटिकः संशयः, तत्र तादृशसंशयविषयप्रामाण्याश्रयज्ञानग्राह्यत्वाभावरूपसाध्य-
सत्त्वादेव न व्यभिचार इति । यद्वा, तादृशतदधिकरणकसंशयकोटित्वादिति हेतुः । तथा च यत्र-
तादृशतदधिकरणकसंशयकोटित्वं तत्र तन्निष्ठतया न स्वाश्रयग्राह्यत्वमिति सामान्यतो व्याप्तिरभि-
मता । एवञ्च गुणत्वस्य रूपनिष्ठतया स्वाश्रयेण ग्रहेऽपि स्वाश्रयनिष्ठतयाऽग्रहेण विशिष्टाभावसत्त्वात्
तत्र न व्यभिचार इति । के चित्तु यद्व्यवसायविषयकोटिको यद्व्यवसायधर्मिकश्च सन्देहस्तृतीय-
क्षणे जायते तत्प्रामाण्यस्यैव पक्षत्वात् तत्प्रामाण्याश्रयग्राह्यत्वाभावो गुणत्वेऽस्त्येवेति न व्यभि-
चार इत्याहुः ।
प्रामाण्यसंशयेति । स्वाश्रयविशेष्यकप्रामाण्यसंशयायोग्यत्वादित्यर्थः । विस्तरस्तु प्रत्यक्ष-
प्रकाशेऽनुसन्धेयः । समर्थेति । न च जनकतावच्छेदकस्य प्रामाण्यस्याग्रहे कथं तद्ग्रह इति
वाच्यम् । उक्तग्राहक सत्त्वे तृणारणिमणिन्यायेन व्यक्तावपि तद्ग्रहसम्भवात् । यद्वा, ज्ञानवृत्तिप्रवृ-
टिप्पणी ।
समानाधिकरणस्वाश्रयावधिकतृतीयक्षणवर्त्तिसंशयविषयत्वादिति पर्यवसितो हेत्वर्थः । न
स्वस्य परत्वमिति । न प्रामाण्यमात्रपरत्वमित्यर्थः । तेन दृष्टान्तेऽप्रामाण्ये न साध्यवैकल्यम् ।
व्यवसायेऽपीति । रजतत्वेनेदमिति व्यवसायस्याप्यभिलापापत्तेः । कारणतावच्छेदकरूपं-

२२४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ १ कारिकान्याख्यायां

प्रकाशः ।
यदि प्रमात्वमेव, तदाऽऽत्माश्रयः । अन्यच्चेत्, तदेव प्रामाण्ये लिङ्गमस्तु, उपजीव्यत्वात् ।
न च तृणारणिमणिन्यायेन व्यक्तावेव कारणत्वं गृहीत्वा समर्थप्रवृत्तिजनकत्वग्रहः, ग्राहकाभा-
वात् । न च प्रत्यक्षमेव तद्ग्राहकम् । तद्धि न बहिरिन्द्रियजन्यम् । आन्तरत्वात् । नापि मान-
सम् । तद्धि समर्थप्रवृत्तेः प्रागुत्तरकालं वा ? नाद्यः । समर्थप्रवृत्तेरभावात्तद्वैशिष्ट्याग्रहात् ।
नान्त्यः । ज्ञानस्य नष्टत्वेन मनसा प्रत्यासत्त्यभावात् । नाऽपि तज्जातीयत्वं लिङ्गम् । तद्धि
करचरणवति शरीरज्ञानत्वादि । तत्र करचरणाद्यन्तरवति करचरणाद्यन्तरवत्त्वज्ञाने व्यभिचारः ।
तत्रापि शरीरांशे प्रमात्वमेवेति चेत्, तर्हि, करचरणादीति व्यर्थम् । शरीरभ्रमेऽपि कस्याश्चि-
च्छरीरव्यक्तेर्भानात्, तत्र तस्य प्रामाण्यात् । अन्यथा शरीरत्वस्यैव भानायोगात् । करचरणा-
दिशून्ये यच्छरीरत्वेन ज्ञानं तद्व्यावृत्त्यर्थं तदिति चेत् । करचरणादिमत्त्वमुपलक्षणं विशेषणं वा ?
नाद्यः । व्यावृत्तोपलक्ष्याभावात् । नान्त्यः । विषयतया हि न ज्ञानविशेषणत्वं करचरणवत्प्र-
कारकज्ञानविषयत्वस्य व्यभिचारात्, अशरीरेऽपि तादृशभ्रमसम्भवात्, शरीरज्ञाने तदसिद्धे-
श्च । विषयविशेष्यत्वे च करचरणवद्विषयकशरीरज्ञानत्वस्य व्यभिचारात् । शरीरभ्रमस्यापि।

टिप्पणी ।
विनेति । अवच्छेदकरूपग्रहं विनेत्यर्थः । तदाऽऽत्माश्रय इति । जनकताया जनकताव-
च्छेदकरूपत्वाभिमानेनात्माश्रय इत्यन्यथान्योऽन्याश्रयो बोध्यः । आन्तरत्वादिति । कार्यकार-
णयोः प्रवृत्तिप्रमयोर्बहिरिन्द्रियाग्राह्यत्वेन तत्कार्यकारणभावस्यापि तत्त्वादित्यर्थः । वैशिष्ट्या-
ग्रहादिति । सम्बन्धग्रहस्य सम्बन्धिग्रहसापेक्षत्वेन प्रवृत्तेरग्रहे तत्सम्बन्धस्य कारणत्वघट-
कस्य कार्यकारणभावस्य वा ग्रहीतुमशक्यत्वादित्यर्थः । ज्ञानस्य नष्टत्वेन इति। प्रवृत्त्युत्तर-
क्षणस्य प्रमातृतीयक्षणत्वेन तदानीं तत्र विशेष्यसन्निकर्षाभावादित्यर्थः । करचरणवतीति ।
अत्र सप्तम्या विषयत्वमात्रपरत्वमभिप्रायोऽवासेयः । इदं ज्ञानं शरीरप्रमात्त्ववत् करचरणादिम-
द्विषयकशरीरज्ञानत्वादित्यनुमाने तच्छरीरे तच्छरीरवृत्तिकरचरणज्ञानस्य भ्रमत्वेन साध्याभाववत्त्व-
मभिमत्य दोषमाह । तत्रेति उक्तज्ञानस्य भ्रमत्वेऽपि करचरणादिमत्त्वांश एव न तु शरीरांशे,
विशेष्यांशे सर्वज्ञानस्य प्रमात्वाभ्युपगमात् , साध्यञ्च शरीरप्रमात्वमेवेति कुतो व्यभिचार
इत्याशङ्कते । तत्रापि शरीरांश इति। शरीरभ्रमेऽपीति । शरीरत्वविशिष्टशरीरविषयकभ्र-
मेऽपीत्यर्थः, न तु शरीरत्वत्वेन भ्रमेऽपीत्यर्थः, तस्य शरीरविषयकस्यापि सम्भवात् । करचरणा-
दीति । शरीरप्रमात्वञ्च शरीरत्ववति शरीरत्वप्रकारकज्ञानत्वं तदेव साध्यं, हेतुघटकं शरीरज्ञानञ्च
न शरीरत्वविशिष्टविषयकज्ञानत्वं किन्तु शरीरत्वप्रकारकज्ञानत्वमेव तस्य च स्थाण्वादौ शरीरभ्रमे
सत्त्वेन व्यभिचारः स्यादिति करचरणादिमद्विशेष्यकत्वमुपादेयमित्याह । करेत्यादि । व्यावृत्तो-
पलक्ष्याभावादिति । अविद्यमानेन येन यदितरतो व्यावर्त्यते तदुपलक्षणमुपरञ्जकञ्चोच्यते
दशाविशेषे करचरणादिशून्यस्या शरीरव्यावृत्तस्याभावात् कथमुपलक्षणं स्यादिति भावः। विषतया
हीति करचरणवतीत्यत्र सप्तम्या आधेयत्वमर्थः, प्रकारतया करचरणवद्वृत्तिशरीरत्वप्रकारकज्ञानत्वं
हेतुः पद्यवसितः। करचरणवत्प्रकारकेति । “करचरणवत्प्रकारकशरीरत्वज्ञानस्य व्यभिचा-
रादिति” क्वचित् पाठः। विषयत्वस्य व्यभिचारादिति । विषयतया शरीरत्वप्रकारप्रमाव्यभि-
चारादित्यर्थः । तथा च स्थाणुविषयके करचरणादिमदिदं शरीरमिति भ्रमेऽपि हेतोः सत्त्वेन साध्यस्य
तत्राभावात् व्यभिचार इति भावः । शरीरज्ञानेऽपीति । इदं शरीरमिति प्रमायाः करायप्रका-
रकत्वेन तत्र भागासिद्धेरिति भावः । शरीरज्ञानत्वस्येति । करचरणवद्विषयकत्वे सति शरी-
रत्वप्रकारकज्ञानत्वस्येत्यर्थः । शरीरभ्रमस्यापीति । स्थाणुशरीरयोः शरीरत्वस्यानुगत

द्वितीयस्तवके ] प्रामाण्यपरतस्त्वोपपादनम् । २२५
प्रकाशः ।
वस्तुतः करादिमद्विषयकत्वात् । न च करचरणशून्ये यच्छरीरत्वेन ज्ञानं न भवतीति विवक्षितम् ।
तृतीयार्थस्य विषयत्वे स्वरूपासिद्धेः । शरीरज्ञानस्य तच्छून्यशरीरत्वादिविषयकत्वनियमात् ।
अत्राहूः । समर्थप्रवृत्तिजनकत्वं प्रवृत्त्युत्तरकालं संस्कारोपनीतज्ञाने प्रमेयत्वाभिधेयत्वव्या-
प्तिवद् गृह्यते । यद्वा पूर्वं पृथिवीज्ञाने पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितौ कदाचित् तत्रैव
गन्धस्य तद्विरोधिविरहस्य साक्षात्कारे पुनः स्मृतिरूपे पृथिवीज्ञाने सति तत्सन्निकृष्टेन प्रत्य-
भिज्ञान इव विशेषणज्ञानजनितसंस्कारापेक्षेण मनसा गन्धवत्त्वेनेवाय निश्चय इत्याकारेण सुरभि
चन्दनमिति चान्नुपवज्ज्ञानजननान्न ग्राहकाभावादत्वसिद्धिः । तज्जातीयत्वमपि करचरणबद्वि-
शेप्यकशरीरत्वप्रकारकज्ञानकत्त्वादि । शरीरभ्रमे करचरणवतो विशेषणत्वात् । प्रथमं च प्रामा-
ण्यानुमितिः केवलव्यतिरेकिणा ।
प्रकाशिका ।
ष्टविशेषणकहेतुग्रहसम्भवाच्च ।
पुनः स्मृतिरूप इति । अत्र केचित् । पृथिवीज्ञानि = पृथिवीज्ञानज्ञाने । अन्यथा पृथिवी-
वीस्मरण एव गन्धवद्विशेष्यकत्वनिश्चयलाभे पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितावित्यस्य वैय-
र्थ्यापत्तेः । एवं च ततः सन्निकृष्टेनेत्यस्य तत्स्मृतिरूपसन्निकर्षवतेत्यर्थ इति व्याचक्षते ।
वस्तुतो गन्धवद्विशेष्यकत्वोपनयार्थमेव पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसायोपयोगः । एवं
च पृथिवीत्वपदं गन्धवत्त्वपरम् , एवं च पृथिवीज्ञाने जाते तद्विषये गन्धवत्त्वपरिच्छेदे गन्धव-
त्त्वप्रकारकनिश्चयत्वानुव्यवसितौ स्मृतिरूपे पृथिवीज्ञाने तत्सन्निकृष्टेन मनसा स्मृत्युपनीतगन्धव-
मकरन्दः ।
त्तिसामान्यजनकत्वमेक हेतुप्रविष्टम् , तथा चोपनोते ज्ञाने प्रवृत्तिजनकत्वे प्रवृत्तौ च समर्थत्वमुप-
नीतं गृह्यत इत्यथोद्दिशिष्टवैशिष्ट्यरूपहेतुग्रह उपपद्यत इति ।
स्मृतिरूपे पृथिवीज्ञाने इति । पृथिवीज्ञानज्ञाने इत्यर्थः । अन्यथा पृथिवीस्मरण एव
गन्धवद्विशेष्यकत्वनिश्चयलाभे पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितावित्यनर्थकमापद्येत । एवञ्च
तत्सन्निकृष्टेनेत्यस्य स्मृतिरूपसविषयकसहकारिणेत्यर्थः । तथा च स्मृत्युपनीते पूर्वानुभव एव
गन्धवद्विशेष्यकत्वनिश्चय इति तद्विशेष्यकपृथिवीत्वप्रकारकज्ञानत्वाद हेतुग्रह इति भावः ।
टिप्पणी ।
प्रकारकभ्रमस्यापीत्यर्थः । तृतीयार्थस्य विषयत्व इति । विषयत्वरूपत्वे, सप्तम्या अपि तत्त्व
इत्यपि वाच्यम् । अभिधेयत्वव्याप्तिवद् गृह्यते इति । प्रमादिघटिते तत्र नियमेनोपनया-
पेक्षासम्भवात् । तद्विरोधिविरहस्येति । गन्धविरोधीशीतोष्णस्पर्शादिग्रहे गन्धसाक्षात्-
कारे शङ्खपीतत्वसाक्षात्कार इव दोषजत्वशङ्कया प्रामाण्यसंशये गन्धवद्विशेष्यकत्वांशपरिच्छेदो
न स्यात्तस्य तत्र विरोधित्वात् अतः सर्वथैव तदभावदार्थ्याय गन्धविरुद्धत्वेन ये ये गृहीतास्त-
त्कालमुपस्थिताश्च तेषामभावसाक्षात्कारपर्यन्तानुसरणमिति भावः । पृथिवीज्ञाने स-
तीति । पृथिवीज्ञानज्ञाने सतीत्यर्थः । गन्धवत्त्वे चाद्यनिश्चय इति । गन्धवद्विशेष्यकपृ-
थिवीत्वप्रकारकोऽयं निश्चय इत्यर्थः । इत्याकारेण सुरभिचन्दनमितीति । अभेदे तृतीया
ततश्च तज्ज्ञानेत्यत्रान्वेति । करचरणवद्विशेष्यकेति । करचरणवनिष्ठविशेष्यतानिरूपित-
शरीरत्वप्रकारतानिरूप कज्ञानत्वादिरूपं निर्वक्तुं शक्यत इत्यर्थः । शरीरभ्रमे चेति । स्थाणुत्वा-
दिना शरीरभ्रमे न तु शरीरत्वेन शरीरप्रकारकभ्रम इत्यर्थः । तत्र व्यभिचारस्याप्रसक्तत्वाद्धेतोः
सत्त्वाच्च करचरणवतोऽविशेषणत्वादिति न विद्यते ज्ञाने विवक्षितशरीरत्वरूपविशेषणं यत्र
तत्त्वादित्यर्थः । अन्यथा विशेषणत्वोक्त्या विशेष्यत्वमेव व्यावत्त्यं स्यात्तस्य शरीरादेः सखण्डत्वे-
२६ न्या० कु०

२२६ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [१ कारिकाव्याख्यायां
प्रकाशः ।
ननु न् प्रामाण्यप्रसिद्धिं ना ऽव्याप्त्यग्रहात् कथमनुमानं ? अथ, व्याघातात् प्रमातद्विषय-
सिद्धौ सामान्यतः साध्यप्रसिद्ध्या न तदप्रसिद्धिः, विशिष्यानिर्णयाच्च नान्वयिवासाधारणत्वे
इति चेत्, तर्हि, कस्यापि प्रथमं स्वार्थे प्रामाण्यानुमितिर्न स्यात् । प्रामाण्यनिषेधरूपस्य परकीय-
व्याघातस्य तदाऽनुपस्थितेः । स्वयं प्रामाण्यनिषेधस्य च तद्धीपूर्वकत्वात् । मैवम् । प्राग्भवीय-
संस्काराद्विशेष्यावृत्त्यप्रकारकत्वं तद्वति तत्प्रकारकज्ञानत्वं वा प्रामाण्यमात्रं स्मृतं, पृथिवीज्ञानादौ
साध्यभानं सर्वनाममहिम्ना पक्षधर्मताबलात् पृथिवीज्ञानस्य विशेष्यावृत्त्यप्रकारकत्वादौ पर्यवस्यति
स्वतः प्रामाण्यनिषेधे प्राथमिकप्रामाण्यज्ञानस्यान्यथोपपादयितुमशक्यत्वादिति साम्प्रदायिकाः ।
अस्मत्पितृचरणास्तु, - प्रथमं प्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणा साध्यम् । तत एव
निष्कम्पप्रवृत्तेरुपपत्तेः । तदेव वा सिद्ध्यत् पक्षधर्मताबलेन तद्वति तत्प्रकारकनिश्चयत्वादिक-
प्रकाशिका ।
द्विशेष्यकत्वग्रह इति न हेत्वसिद्धिरिति समुदयार्थः । सर्वनाममहिम्नेति । इदं च दृष्टान्ततयो-
क्तम् । तेन यथा शाब्दबोधे सर्वनाममहिम्ना विशेषविषयता तथानुमानिके पक्षधर्मताबलात्तथे-
त्यर्थः । ननु देवदत्तत्वादिप्रकारं ज्ञानं जन्मान्तरे नानुभूतं तद्वति तत्प्रकारकत्वञ्चैकं नास्त्येवेति न त-
त्रोक्तगतिः, किंच प्रकारान्तरसत्त्वेऽनुपपत्तिरपि प्राग्भवीयसंस्कारोद्बोधिका नास्तीत्यनुशयेनाह । अ-
स्मत्पितृचरणास्त्विति । तदेवेति । यद्यपि पक्षधर्मताबलेन व्यापकत्वेन गृहीतस्य धर्मस्य पक्ष-
सम्बन्धमात्रं सिद्ध्यति न तु तत्समनियतधर्म्मान्तरमपि तथाप्यग्रिमव्यतिरेकिणा तत्सिद्धिरित्यत्र (१)
तात्पर्यम् । अयं च प्रकारः क्वचित् सम्भवतीत्युपन्यस्तो न तु सार्वत्रिकः । एतेन प्रमेयत्वप्रकारकज्ञाने
नायं कल्पः, तत्राप्रामाण्याप्रसिद्धेः । किञ्चायमपि कल्पोऽप्रामाण्यप्रसिद्धौ, तत्प्रसिद्धिश्च जन्मान्तरी-
यसंस्कारादुपपाद्या तथा च प्रामाण्यप्रसिद्धिरपि तथैवास्तु किमनेन कल्पेनेत्यादि दूषणं निरवका-
मकरन्दः ।
सर्वनाममहिम्नेत्यनेनानुपपत्तिविशेषः पक्षधर्मतासहकारी विवक्षित इति नानुमाने तदुप-
योग इति दूषणमनवकाशमित्येके । दृष्टान्तपरतया तदित्यन्ये । ननु तद्वत्त्वस्यैकस्याभावाद् देव-
दत्तादिज्ञानप्रामाण्यं जन्मान्तरे नानुभूतमिति तत्र नोक्तगतिसम्भवः । गत्यन्तरसत्त्वे प्राग्भवीय-
संस्कारोद्बोधे मानाभावश्चेत्यनुशयादाह । प्रथममिति । तत एवेति । अप्रामाण्यशङ्काविधू-
ननस्य ततोऽपि भावादिति भावः । तदेवेति । यद्यपि पक्षधर्मतावलादप्यखण्डाभावस्य पक्षी-
यत्वं व्यापकतानवच्छेदकप्रकारेण सिद्ध्यति, न तु तद्वत्तत्यादिकं, तथापि तदनन्तरमर्थात्तत्सिद्धिरि-
त्यत्र तात्पर्यम् । अत्र चाप्रसिद्धाभावोऽपि प्रतियोगिप्रसिद्ध्या व्यतिरेकव्याप्तिग्रहे सति सिद्ध्येत् ।
न चाप्रामाण्यं प्रसिद्धं, प्रामाण्यवत्तस्याप्यतीन्द्रियत्वात् । तदर्थं प्राग्भवीयसंस्काराद्यनुसरणं च
प्रामाण्यानुमानार्थमेव तदनुसरणमर्हं, लाघवादावश्यकत्वाच्च । प्रमेयमित्यादिज्ञाने चाप्रामाण्या-
टिप्पणी ।
नासम्भवदिति । अथ व्याघातादिति । परेण प्रमातद्विषयनिषेधोद्भावनात् ; तद्वति तत्
प्रकारकत्वमादाय पक्षधर्म्मताबलेनेति व्यापकस्य तत्तद्रूपेणागृहीतस्य भानेऽनुभवानुरोधाद्या-
लाघवज्ञानादेः सामर्थ्यं कल्प्यते तथा निरुक्तव्याप्तिग्रहकालीनपक्षधर्मताग्रहस्याप्यनुभवानुरोधाद्
विशेष्ये विशेषणमिति रीत्या निरुक्तप्रामाण्यभाने सामर्थ्यकल्पनादिति भावः । निर्द्धम्मितावच्छे-
(१) अप्रामाण्याभावविशेष्यकप्रथमानुमितेरितरबाधविधया द्वितीये तत्प्रकारकानुमितौ
प्रामाण्यभाने पक्षधर्मतासहकारित्वमिति भावः ।

द्वितीयस्तवके ] प्रामाण्यपरतस्त्वोपपादनम् । २२७
प्रकाशः ।
मादाय सिद्ध्यति । तथा हि । अयं पृथिवीत्वेनानुभवो न पृथिवीत्वाभाववति पृथिवीत्वप्रकारकः;
गन्धवद्विषयकप्रयत्नजनकपृथिवीत्वप्रकारकज्ञानत्वात् यन्नैवं तन्नैवम् । यथा पृथिवीभ्रमः।
एवञ्च पृथिवीभ्रमे पृथिवीत्वाभाववति पृथिवीत्वप्रकारकत्वसमर्थप्रवृत्तिजनकत्वाभावयोर्व्याप्तिग्रहा-
दप्रामाण्यव्यापकहेत्वभावाभावरूपाद्धेतोराप्रामाण्याभावरूपं साध्यं सिद्ध्यति । यद्व्यापकतया
हेत्वभावो गृहीतस्तदभाव एव हि हेतुना साध्यते । यत्र त्वभावव्यापकता हेत्वभावस्य ज्ञायते,
तत्र साध्यप्रसिद्धिरनुमानाङ्गम् , तां विना तदभावात् यत्र च भावव्यापकता हेत्वभावस्य, तत्र न
साऽङ्गम्, तां विनाऽपि व्यतिरेकव्याप्तिग्रहात् । विशेषणज्ञानं विना कथं प्रामाण्यविशिष्टानुमिति-
रिति चेत् । प्रथमं न कथम्चित् । ज्ञाने प्रामाण्यमित्यनुमित्यनन्तरं तेनैव हेतुना तत्र प्रामाण्य-
विशिष्टानुमितिः, अभावविशेष्यकज्ञानानन्तरम् , अभाववद् भूतलमिति ज्ञानवत् । एवं तदभाववति
तत्प्रकारकत्वव्यतिरेकः सिद्धस्तद्वति तत्प्रकारकत्वमादाय पक्षधर्मताबलेन सिद्ध्यतीतिं तत्त्वचिन्ता-
प्रकाशिका ।
शम् । अप्रामाण्यशङ्काविरहस्य क्वचिदेव संभव इत्याशयेनैतत्कल्पावतारात् । अयमिति । अनु-
भवपदं निश्चयपरम् तल्लाभायैव च हेतुनिष्ठनिश्चयपदं न तु हेतुप्रविष्टं वैयर्थ्यात् । निष्प्रकारक-
त्वेनान्यप्रकारकत्वेन वार्थान्तरवारणाय तृतीयान्तम् । पृथिवीभ्रमपक्षैकदेशतो बाधः स्यादिति तद्वार-
णाय अयमिति । पृथिवीविशेष्यक इत्यर्थः । पृथिवीत्वाभाववतीति । अत्र पृथिवीत्वाभाववद्वि-
शेष्यकत्वाभावमात्रं साध्यमन्यथा वैयर्थ्यात् । अप्रामाण्यस्याभावरूपत्वेन व्याप्त्यवेन च व्यर्थविशेष-
णतायाः दुष्परिहरत्वात् पृथिवीत्वप्रकारजलंज्ञाने व्यभिचार इति गन्धवद्विषयकेति । अत्र पृथिवि-
त्वमिति ज्ञानस्यापि प्रवर्त्तकतया तत्र व्यभिचार इति पृथिवीत्वप्रकारकेति । पृथिवीत्वप्रकारत्वा-
वच्छेदेन तादृशप्रयत्नजनकत्वं हेतुरतो न जलपृथिव्याविति समूहालम्बने व्यभिचारः । निश्चयपद-
न्तु निरुक्तमेवेति । कदाचिदपोताति । न च कदाचित् दोषात् प्रामाण्यसंशयेऽपि तद्विरहदशायां
स्वतःप्रामाण्यग्रहे बाधकाभावः, दोषात् कदाचिद्रजतत्वसंशयेऽपि कदाचिद्रजतत्वग्रहवदिति वाच्यम् ।
स्वप्रकाशपक्षस्य सामग्रीविरहादनुपपत्तेः । ज्ञाततायाश्चाप्रामाणिकतया तल्लिङ्गकानुमितेरप्रसिद्धेः ।
मनंसश्चोपनयसहकृतस्य बहिरर्थग्राहकत्वेऽपि उपनायकज्ञानगोचरस्य ज्ञानस्य स्वातन्त्र्येण बहिरर्था-
विषयकत्वात् । अनुव्यवसायस्य व्यवसायप्रामाण्यग्रहोत्तरकालीनस्याप्रवर्त्तकत्वेन तथा कल्पनात् ।
उपनायकज्ञानविषयत्वन्तु क्वचिदेवेत्यत्रादृष्टमेव नियामकम् । एवं च ज्ञानोपनीतप्रामाण्यग्रहेऽपि न
मकरन्दः ।
भावेऽनुमानासम्भवे तत्र प्रकारान्तरानुसरणे स एव प्रकारः सर्वत्रानुस्रियतामित्यादि दूषणं प्रत्यक्ष-
प्रकाशे द्रष्टव्यम् ।
अयमिति । अनुभवपदं निश्चयपरम् । तेन संशयव्यावृत्तसाध्यसिद्धिः, स्मृतेरपि प्रवृत्तेस्त-
त्पाधारण्येत्येत्याहुः । निष्प्रकारकत्वेनार्थान्तरवारणाय तृतीयान्तम् । पृथिवीत्वाभाववति नेत्येव
साध्यम् । व्यतिरेकव्याप्तौ साध्याभावस्य व्याप्त्यत्वेन तत्र नीलधूमवदधिकस्य व्यर्थत्वात् । अप्रा-
माण्यस्य भावरूपतया साध्याभावस्याखण्डत्वेन न वैयर्थ्यमित्यस्याप्यसम्भवादिति ध्येयम् । पृथिव-
वीत्वभ्रमे व्यभिचारवारणाय जनकान्तम् । अत्र पृथिवीत्वमिति निश्चयस्य पृथिवीत्वाभाववत्पृथिव-
वीत्वविशेष्यकस्य पृथिवीप्रवर्त्तकत्वाभ्युपगमपक्षे तत्र व्यभिचार इत्यत उक्तं, पृथिवीत्वप्रका-
रकेति । निश्चयपदं च निश्चयपक्षतासूचनार्थमविवक्षितार्थंकम् । विस्तरः प्रत्यक्षप्रकाशे ।
टिप्पणी ।
दकसंशयस्याभावाद् धम्मितावच्छेदकः कश्चिद् वाच्यस्तंस्य च विशेषणत्वात्तज्ज्ञानमपेक्षितं स्यात्-

२३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
वत्। यदि तु स्वतः ज्ञायेत, कदाचिदपि प्रामाण्यसंशयो न स्यात्, ज्ञानत्वसं-
शयवत्। निश्चिते तदनवकाशात्। न हि साधकबाधकप्रमाणाभावमवधूय समा-
नधर्मादिदर्शनादेवाऽसौ, तथा सति तदनुच्छेदप्रसङ्गात्। अथ प्रमाणवदप्रमाणे-
ऽपि तत्प्रत्ययदर्शनाद्विशेषादर्शनाद्भवति शङ्केत्यभिप्रायः, तत् किं प्रमाणज्ञानोप-
लम्भेऽपि न तत्प्रामाण्यमुपलब्धं, प्रमाणज्ञानमेव वा नोपलब्धम् ? आद्ये, कथं स्वतः
प्रामाण्यग्रहः, प्रत्ययप्रतीतावपि तदप्रतीतेः, द्वितीये, कथं तत्र शङ्का, धर्मिण एवा-
बोधनी ।
विसंवादादेरिति । संशयिकत्वाद्संशयत्वादित्यर्थः । साध्यविपर्ययाङ्गीकारेऽनिष्टप्रसङ्गमाह-यदि
इति । यथा हि निश्चिते ज्ञानस्वरूपे संशयो नास्ति ज्ञानमिदं न वेति, तद्वत्प्रामाण्येऽपि संशयः
कदाचिन्न स्यात् तस्यापि निश्चयात्, निश्चितेऽपि विषये संशयस्यानुत्थानादिति । ननु निश्चितेऽपि
प्रामाण्ये ज्ञानत्वादेः प्रमाणाप्रमाणसाधारणधर्मस्य दर्शनात् संशयः स्यादित्याश्राव- न हि-इति ।
असत्येव च साधकबाधकप्रमाणाभावे समानधर्मादर्शनादेः संशयहेतुत्वे को दोषस्तत्राह-तथा स-
ति-इति । विशेषदर्शनोत्तरकालेऽपि समानधर्मादिदर्शनस्य संशयहेतोः सत्त्वादिति । अथ-इति ।
ज्ञानेन सह गृह्यमाणेऽपि प्रामाण्ये प्रमाणज्ञानेष्विवाप्रमाणज्ञानेष्वपि प्रामाण्यदर्शनादिदं प्रमाणज्ञान
मिदं त्वप्रमाणमिति नियामकविशेषादर्शनाच्च संशयोपपत्तिरिति भेदतद्विशेषोपलम्भे संशयस्यानु-
त्पत्तेः, प्रामाण्यसंशयवादिनापि तदनुपलब्धिरवश्यं वक्तव्येति मन्वानो विकल्प्य दूषयति-तत्कि-
म्-इति । धर्मिण एव-इति । उपलब्धे हि धर्मिणि धर्मविषयकः संशयो न त्वनुपलब्ध इति ।
अत्रायं संक्षेपः-गृह्यमाणं ज्ञानं यद्यप्रमाणविलक्षणं न गृह्येत ततः प्रामाण्यमेव न गृहीतं स्यात्,
अथ तथा गृह्येत ततो न कदाचिदपि प्रामाण्यसंशयः स्यादिति । एवं स्वपक्षसाधनमभिधायेदानीं
प्रकाशः ।
मणावाहुः । कदा चिदपीति । प्रामाण्यग्रहोत्तरकालमिव तत्पूर्वमपीत्यर्थः । न च ज्ञानत्वस्य साधा-
रणधर्मस्य ज्ञानमात्राद् इत्याह । न हीति । प्रामाण्यज्ञानमात्रं न विरोधि, अपि तु प्रमाणमेवे-
त्यवधारणाऽऽत्मकमित्याशयेन शङ्कते । अथेति । निश्चयमात्रमेव संशयविरोधि, न तु तद्वि-
शेषोऽवधारणमित्याशयेन परिहरति । तत्किमति । प्रमाणेति । प्रमाणरूपं ज्ञानमित्यर्थः ।
तदप्रतीतेः = प्रामाण्याप्रतीतेः ॥
धर्मिण एवेति । ननु धर्मिज्ञानं न संशयहेतुः । कोटिस्मरणविशेषादर्शनधर्मेन्द्रियसन्नि-
कर्षात् प्रामाण्यसंशयरूप एव ज्ञानग्रह उत्पद्यते । अन्यत्र विशिष्टज्ञाने विशेष्यज्ञानस्याहेतुत्वात् ।
अत्राहुः । तुरगादौ वेगेन गच्छतस्तद्विषयेन्द्रियसन्निकर्षेऽपि यावद्विशेषाज्ञाने यदेव धर्मि ज्ञायते
तत्रैव विशेषादर्शनादितः संशयो जायते, न त्वज्ञाते धर्मिणीति धर्मिज्ञानं तद्धेतुः । किञ्च, यद्य-
मकरन्दः ।
कदा चिदपीतीति । तत्र दोषात् कदाचित् प्रामाण्यसंशवेऽपि कच्चिन्मनसा तद्ग्रहे बाध-
काभावान्म नोयोग्यत्वलक्षणं स्वतस्त्वं न खण्डितं भवति, अन्यथा रजतत्वादेश्चक्षुरादियोग्यत्वं न
स्यात् । दोषतदभावाभ्यामुभयोपपत्तिरिति तु तुल्यम् । न च तत्र सामग्रीबलात् तथा, प्रकृते
मनसो बहिरस्वातन्त्र्यात् स्वातन्त्र्येण तद्वत्प्राहकस्यैव तत्सत्तानिश्चयरूपतया प्रामाण्याग्राहक-
त्वान्न तथेति वाच्यम् । तर्हि सामग्रीविरहान्न स्वतस्त्वमित्यायातं, संशयानुपपत्तेः कोपयोगः ? ।
न च सोऽपि उपनीते मनसः स्वातन्त्र्याभ्युपगमात् । अन्यथा तत्राप्युपनयसहकारेण तत्तत्तद-
ग्रहणं सर्वसिद्धं विरुद्ध्येतेति चिन्त्यम् ।
टिप्पणी ।
च्चनेन्द्रियादिना धर्मिणमगृहीत्वा सम्भवतीत्युक्तदोषो न स्यादत आह । किञ्चेति । यद्धर्मि-

यहाँ दी गई पृष्ठ-छवि का पंक्ति-दर-पंक्ति देवनागरी पाठ प्रस्तुत है:

द्वितीयस्तवके ] प्रामाण्यपरतस्त्वोपपादनम् । २२६
नुपलब्धेरिति । यदपि झटिति प्रचुरतरसमर्थप्रवृत्त्यन्यथानुपपत्त्या स्वतः
प्रामाण्यमुच्यते, तदपि नास्ति । अन्यथैवोपपत्तेः । झटिति प्रवृत्तिर्हि झटिति
तत्कारणोपनिपातमन्तरेणानुपपद्यमाना तमाक्षिपेत्, प्रचुरप्रवृत्तिरपि स्वकारण-
प्राचुर्यम्, इच्छा च प्रवृत्तेः कारणम्, तत्कारणमपीष्टाभ्युपायताज्ञानम्, तदपि
तज्जातीयत्वलिङ्गानुभवप्रभवम्, सोऽपीन्द्रियसन्निकर्षादिजन्मा, न तु प्रामाण्य-
ग्रहस्य क्वचिदप्युपयोगः । उपयोगे वा स्वत एवेति कुत एतत् ? । ततः समर्थ-
प्रवृत्तिप्राचुर्यमपि प्रामाण्यप्राचुर्याद्वा, तद्ग्रहणप्राचुर्याद्वा । स्वतस्त्वं तु तस्य कोप-
युज्यते । न हि पिपासूनां झटिति प्रचुरा समर्था च प्रवृत्तिरम्भसीति पिपासोपश-
बोधनी ।
स्वतः प्रामाण्यं ज्ञायत इत्यत्र परोक्तं प्रमाणं दूषयितुमनुभाषते-यदपि-इति । समर्था=संगतार्था
प्रयोजनाविसंवादिनीति यावत् । यदाह भाष्यकारः-‘सामर्थ्यं पुनरस्याः फलेनाभिसंबन्धः’-
इति । तदेतत्प्रवृत्तिसामर्थ्यं प्रवर्त्तकविज्ञानस्य प्रामाण्यमन्तरेणानुपपद्यमानं तदाक्षिपति । तस्यापि
प्रवृत्तेः प्रामाण्यसंशयादप्युपपत्तिमाशङ्क्योक्तं—प्रचुर इति । संशयेन हि कदाचित् क्वचित् प्रवृ-
त्तिः स्यात्, न तु प्रचुरेति । ननु ततः प्रामाण्यनिश्चयोऽस्तु स्वत एवेति कुत इत्यत्रोक्तं-झटि-
ति-इति । प्रमाणान्तरानपेक्षमेव ज्ञानोत्पत्त्यन्तरं भवन्ती तादृशी प्रवृत्तिः स्वतः प्रामाण्यनिश्चयं
गमयति । ततश्च परतस्त्वानुमानं बाधप्रतिरोधयोरन्यतरदोषकलुषितमिति भावः । दूषयति-
तदपि-इति । तामेवान्यथैवोपपत्तिमाह-झटिति-इति । न तु तत्रैवोपयोगः प्रामाण्यग्रहस्येति
दर्शयंस्तत्कारणपरम्परां दर्शयति-इच्छा च इति । दृष्टार्थेषूपयोगाभावेऽप्यदृष्टार्थेषु ज्योतिष्टोमा-
दिषु प्रागेव प्रवृत्तेः प्रामाण्यनिश्चयोपयोगमाशङ्क्याह । ततः समर्थ इति । यतः प्रामाण्यग्रहस्य
न प्रवृत्तिं प्रत्युपयोग इति कथं प्रामाणादप्यगृहीतप्रामाण्यात् समर्था प्रवृत्तिरित्याह-तद्ग्रहण
इति । प्रवर्त्तकविज्ञानप्रमाण्यग्रहणस्यावश्यंभावेऽपि विशिष्टप्रवृत्तेर्न तद्ग्राहकादेव तद्धर्मप्रामाण्यग्रह
इत्येतद् दृष्टान्तेनोपपादयति-न हि इति । न हि पिपासाशमनशक्तमिति विशिष्टा प्रवृत्तिः पाथः-
प्रकाशः ।
र्निगतसाधारणधर्मस्य येन सह भूयःसहचारावसायस्तत्रोत्कटकोटिकता संशयस्य धर्मिज्ञानस्या-
हेतुत्वे न स्यात् ।
यदपीति । प्रामाण्यस्यानुमेयत्वे लिङ्गपरामर्शापेक्षया विलम्बः स्यादित्यर्थः । तथा चार्थी-
पत्त्या परतस्त्वसाधनं प्रतिबद्धमिति भावः । अन्यथैवेति । प्रवृत्तिमात्रे प्रामाण्यग्रहो न
हेतुः, अर्थसन्देहादपि प्रवृत्तेरित्यन्यथोपपत्तेरित्यर्थः । उपयोगे चेति । झटित्यभ्यासाप-
न्ने लिङ्गानुसन्धानादप्युपपत्तेरित्यर्थः । पर मतेऽपि व्यभिचारमाह । न हीति । न ह्यविलम्ब
टिप्पणी ।
णीति वक्तुमुचितम् । धर्मिज्ञानस्याहेतुत्वे न स्यादिति । धर्मस्योभयकोटिसह-
चरितत्वविशेषाभावात् क्वचिद्धर्मिणि भावेन क्वचिच्चाभावेन भूयस्तदग्रहात् सहचारग्रहांशस्य
विशेष्यकत्वस्य वक्तुमशक्यत्वात् धर्मितावच्छेदकग्रहस्यापि विशेषकत्वासम्भवाद् विशेषो न
स्याद्, धर्मिग्रहस्य हेतुत्वे च यद्धर्मिणि येन भूयस्सहचारग्रहस्तद्धर्मिगोचरसहचारज्ञानजन्य-
त्वस्य संशये सत्कार्योत्कटत्वनियामकत्वस्य वक्तुं शक्यत्वादिति भावः । न च संशयस्यैव
तद्धर्मिविषयकत्वं तत्कोट्यंत्कटत्वप्रयोजकमस्त्विति वाच्यम्, तद्धर्मिविषयकपरोक्षासाधार-
णधर्मधर्मिज्ञानजनितसंशये तद्धर्मिमात्रविषयकत्वस्य नियामकाभावेनोपपादयितुमशक्यत्वात्तत्को-
ट्योत्कटत्वव्यवस्थायास्तत्रोपपादयितुमशक्यत्वात् । धर्मिज्ञानस्य हेतुत्वे च संशयस्य तन्न धर्मि-
मात्रविषयकत्वं सुपादम् कारणगतविशेषाप्रयोज्यत्वे कार्य्यगतविशेपस्याकस्मिकत्वमपि दोषो

२३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
सनशक्तितस्त्य प्रत्यक्षा स्यात् ।
स्यादेतत् । प्रामाण्यग्रहे सति सर्वमेतदुपपद्यते । स च स्वतः यदि न स्याद्,
न स्यादेव; परतः पक्षस्याऽनवस्थादुःस्थत्वादिति चेन्न । तद्ग्रहेऽप्यर्थसन्देहादपि
सर्वस्योपपत्तेः । न चानवस्थाऽपि, प्रामाण्यस्यावश्यज्ञेयत्वानभ्युपगमात् । अन्यथा
बोधनी।
स्वरूपग्राहकप्रत्यक्षादेव तच्छक्तिग्रहमपेक्षते, धौहित्यलिङ्गेनापि तद्ग्रहोपपत्तेः । तथा प्रवर्त्तक-
विज्ञानस्वरूपग्राहिणः प्रमाणादन्येनापि तज्जातीयत्वादिनो लिङ्गेन तत्प्रामाण्यानुमानमविरुद्धमिति ।
स्यादेतत्-इति । सर्वमिदं-प्रवृत्त्यादिकमिति । न इति । मा भूदनवस्थादुःस्थत्वात्
परतः प्रामाण्यग्रहः । तथापि न स्वतःत्वसिद्धिः, प्रामाण्याग्रहेऽप्यर्थग्रहोपपत्तेरर्थसंदेहेऽपि च प्रवृ-
त्युपपत्तेरिति । ननु प्रामाण्ये कदाचित् ज्ञातव्ये भवत्येवानवस्थेत्याशङ्क्य न तावत्फलज्ञानमाश्रि-
त्येयं प्रसज्यत इत्याह-न च इति । यथा ह्यर्थे गृह्यमाणे न तद्विषयकज्ञानप्रामाण्यग्रहापेक्षा, तथा
प्रवर्त्तकविज्ञानप्रामाण्ये गृह्यमाणेऽपि न तद्ग्राहिणो गुणसंवादिविज्ञानस्य प्रामाण्यग्रहापेक्षा । तेन
यदा कदाचित् केनचित् प्रामाण्यं जिज्ञास्येत तदा तदन्येनागृहीतप्रामाण्येनेव गृह्यत इति नान-
वस्थेति । अवश्यं ज्ञेयत्वाभ्युपगमे दोषमाह- अन्यथा इति । न तावन्मीमांसकस्यापि ज्ञानं
स्वयमेव प्रामाण्यं गृह्णाति स्वस्यैवाग्रहणात् । अतः स्वग्राहिणो ज्ञाततालक्षणफलाद्यनुपपत्तिरूपा
त्प्रमाणाद् गृह्णात इति वक्तव्यं, तत्र चार्थापत्तिप्रामाण्यविषयविज्ञानस्याप्यर्थान्तरेण प्रामाण्यं
ग्रहीतव्यम्, एवं तस्य तस्यापीत्यनवस्था प्रसज्यत इति । ननु मा भूतफलज्ञानप्रामाण्यस्याव-
श्यं ज्ञेयत्वं, मा च भूत् तत्रानवस्था, तथापि प्रमाणसाधनमाश्रित्यानवस्था प्रसज्यत इत्याह-
प्रकाशः।
इत्येव लिङ्गानपेक्षता । तथा सति पिपासोपशमनशक्त्यनुभवस्याप्यलैङ्गिकत्वप्रसङ्ग इत्यर्थः ।
सर्वमेतदिति । झटिति प्रवृत्त्यादिकमित्यर्थः । स चेति । यद्यगृहीतप्रामाण्यमेव ज्ञानं
परप्रामाण्यनिश्चयकमास्थेयं, तदा व्यवसायोऽप्यगृहीतप्रामाण्य एव विषयं निश्चाययतु, किं तत्प्रा-
माण्यग्रहेण । यदि च तस्याप्रामाण्यसंशयान्न तन्मात्रादर्थनिश्चयस्तर्हि प्रामाण्यानुमितेरप्रामाण्य-
संशयान्न ततोऽपि प्रामाण्यनिश्चयः । ततस्तस्या अपि प्रामाण्यनिश्चयावश्यकत्वेनानवस्था । एवं
लिङ्गव्याप्त्यादिज्ञानानामपि प्रामाण्यानिश्चये हेत्वाद्यसिद्धिः, तन्निश्चये चानवस्था । न हि, न लि-
ङ्गादिज्ञाने प्रामाण्यसंशयोऽनुभवविरोधात्, तथा च, परिशेषात् स्वतः प्रामाण्यग्रह इत्यर्थः ।
तद्ग्रहेऽपीति । न तज्ज्ञानप्रामाण्यनिश्चयादेवार्थनिश्चयः, किन्तु न यत्राप्रामाण्यशङ्का करतला-
दिज्ञाने, तत्र व्यवसाय एवार्थनिश्चय इति तत एव निष्कम्पप्रवृत्त्युपपत्तिरिति न प्रामाण्या-
नुमितिलिङ्गादिज्ञानानामपि प्रामाण्यानुसरणमिति नानवस्थेत्यर्थः । तथाप्यनभ्यासद्शापन्न-
ज्ञानप्रामाण्यसंशयेनार्थनिश्चयस्य प्रतिबन्धात् तत्प्रामाण्यानुसरणेऽनवस्थेत्यत आह । न चेति ।
अगृहीतप्रामाण्यमेव ज्ञानं परप्रामाण्यं निश्चाययति, अप्रामाण्यशङ्काकलङ्काभावात् । यत्र
प्रामाण्यज्ञानेऽप्यप्राण्यशङ्कया प्रामाण्यसंशयस्तत्र प्रामाण्यज्ञानप्रामाण्यनिश्चयादेव प्रामाण्य-
निश्चयः । एवं, यावदप्रामाण्यशङ्कं तज्ज्ञानप्रामाण्यनिश्चयादेव तन्निश्चयः । न चैवमन-
वस्था, चरमप्रामाण्यज्ञानस्य ज्ञानाभावाद्धर्मज्ञानाभावेन कोटिस्मरणाभावात् विषयान्तरसञ्चा-
राद्वा प्रामाण्यसंशयानवश्यम्भावादित्यर्थः । अन्यथेति । भाट्टानां प्रामाण्यस्य ज्ञानानुमितिग्राह्यत्वे
प्रकाशिका।
स्वातन्त्र्येण प्रामाण्यग्रह इति प्रवर्त्तकं प्रामाण्यज्ञानं परत एवेति भावः । भट्टानामिति । इदमुप-
मकरन्दः।
अन्यथेतीति । प्रवृत्त्यनुपयोग्याप्यस्तीत्येव यदि प्रामाण्यमवश्यं ज्ञेयं, तदाऽस्य प्राह्यरवेऽ-

स्वतः पक्षेऽपि सा स्यात् । लिङ्गं निश्चितमेव निश्चायकम् , ततस्तन्निश्चयार्थम-
वश्यं लिङ्गान्तरापेक्षायामनवस्थेति चेत् । तत् किमनुपपद्यमानोऽर्थोऽनिश्चित एव
स्वोपपादकमाक्षिपति, येनानवस्था न स्यात् । प्रत्यक्षेण तस्य निश्चय।त्तस्य च
सत्त्वयैव निश्चायकत्वान्नैवमिति चेत् । ममापि प्रत्यक्षेण लिङ्गनिश्चयात्तस्य च स-
त्त्वयैव निश्चायकत्वान्नैवमिति तुल्यम् । लिङ्गज्ञानस्य प्रामाण्यानिश्चये कथं तन्नि-
श्चयः स्यादिति चेत् । अनुपपद्यमानार्थज्ञानस्य प्रामाण्यानिश्चये कथं तन्निश्चय इति
तुल्यम् । न हि निश्चयेन स्वप्रामाण्यनिश्चयेन वा विषयं निश्चाययति प्रत्यक्षम्,
अपि तु स्वसत्तयेत्युक्तमिति चेत् । तुल्यम् । तथापि यदि तल्लिङ्गाभासः स्यात्तदा
का वार्त्तेति चेत् । अनुपपद्यमानोऽप्यर्थो यद्याभासः स्यात् तदा का वार्त्तेति
बोधनी ।
लिङ्गम् इति । प्रवृत्तिसामर्थ्यं तज्जातीयत्वं वा प्रामाण्यलिङ्गं निश्चितमेव सत्प्रवर्तकज्ञानस्य
प्रामाण्यं निश्चाययति, लिङ्गनिश्चयश्च तज्ज्ञानप्रामाण्यनिश्चयादेवेति अवश्यं तदपि लिङ्गान्त-
रेण निश्चितैन निश्चेयं, तन्निश्चयश्च तज्ज्ञानप्रामाण्यनिश्चयादिति । लिङ्गज्ञानप्रामाण्यं निश्चेतु-
मेव परम्परा व्यवतिष्ठते इत्यत्रापि प्रामाण्यस्यावश्यंज्ञेयत्वानभ्युपगमेन सुगमः परिहार इति
मन्वानः परस्यापि समानमेतदित्याह-तत्किम्-इति । निश्चित एवानुपपद्यमानोऽपि स्वोपपा-
दकमाक्षिपति । तन्निश्चयश्च तज्ज्ञानप्रामाण्यनिश्चयात् सोऽप्यनुपपद्यमानार्थान्तरनिश्चयादिति दुस्त-
राऽनवस्थेति । प्रत्यक्षेणेत्यादिशङ्का, तदुत्तरं च सुगमम् । लिङ्गज्ञानस्य-इति । सत्तामा-
त्रावस्थितेन चक्षुरादिना जातेऽपि लिङ्गज्ञाने तत्प्रामाण्यानिश्चये कथं लिङ्गनिश्चयः, प्रामाण्यनिश्च-
यश्च लैङ्गिक इत्येवमनवस्था सुस्थेति । तदन्यत्रापि तुल्यमित्याह- अनुपपद्यमान-इति । न
हिं-इति । अनुपपद्यमानग्राहकं च प्रत्यक्षमिवि शेषः । तदन्यत्रापि तुल्यं लिङ्गग्राहकस्यापि
तुल्यं प्रत्यक्षत्वादित्याह-तुल्यम्-इति । तथापि-इति । सत्तामात्रेण प्रत्यक्षस्य निश्चायकत्वे-
ऽपि तस्य तदाभासाद्विवेचितस्वात्तदवगतं प्रामाण्यलिङ्गं कदाचिदाभासः स्यात् । अतस्तत्प्रा-
माण्यं ज्ञेयमिति । तदप्यनुपपद्यमानग्राहिणोऽपि प्रत्यक्षस्य तुल्यमित्याह-अनुपपद्यमान इति ।
प्रकाशः ।
तस्या अपि प्रामाण्यानुस्मरणेऽनवस्था । प्राभाकराणामपि प्रामाण्यस्य स्वग्राह्यत्वं न स्वग्राह्यं,
स्वग्राह्यत्वस्य स्वरूपप्रामाण्यान्यत्वादिति परग्राह्यत्वेऽप्यनवस्थानात् परिशेषानुमानेन मानान्त-
रेण वा ग्राह्यम्, तथा च तत्प्रामाण्यस्यापि स्वग्राह्यत्वमन्थेनेत्यनवस्थया विषयान्तरसञ्चारो न स्या-
दित्यर्थः । कारणमुखीमनवस्थामाह । लिङ्गमिति । प्रामाण्यसंशयेन लिङ्गस्य सन्दिग्धत्वान्न
प्रकाशिका ।
लक्षणम् । मिश्राणामप्यनुव्यवसायप्रामाण्यग्रहद्वारिका अनवस्था द्रष्टव्या । प्राभाकराणामिति । प्रा-
माण्यग्रहेऽनावश्यकत्वेऽप्यावश्यकत्वमारोप्य मन्मतेऽनवस्थाप्रसङ्गने स्वग्राह्यतानुमितिद्वारिका गुरु-
णामपि सा स्यादित्यर्थः । कारणमुखीमिति । यद्यपि पूर्वमियमाशङ्का परिहृतैव, तथापि तत्र
टिप्पणी ।
बोध्यः । प्राभाकराणामपि प्रामाण्यस्येति । प्रामाण्यस्य यदर्थतथात्वं प्रामाण्यं तस्य
तत्त्वतो ग्राह्यत्वं तद्ग्रहे प्रामाण्यज्ञानप्रामाण्याप्रहादर्थज्ञानप्रामाण्यमप्यप्रतिष्ठितम्भवेदित्यनवस्थेति
भावः । यद्वा यत्रैव प्रामाण्यस्य स्वतोग्राह्यत्वमग्टहीतं भवेत् तत्रैव तस्य स्वतोग्राह्यमप्रामाणिकं
'भवेत्तद्द्ग्रहणानुसरणेऽनवस्था इति । इदमत्र चिन्त्यम् , कालान्तरे पुरुषान्तरेण वा ग्रहे कृत्य-
भावाद् भवत्यनवस्थापरिहार इति । स्वरूपप्रामाण्यात् । स्वस्य रूपं स्वरूपमिति

२३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
तुल्यम् । सोऽपि प्रामाण्यमाक्षिपति-त्युत्सर्गः । स च कचिद्बाधकेनापोद्यत इति
चेत् । लिङ्गेऽप्येवमिति तुल्यम् । तर्हि प्रामाण्यानुमानेऽपि शङ्का तदवस्थैवेति निष्-
फलः प्रयास इति चेत् । एतदपि तादृगेव । अनुपपद्यमानोऽर्थ एवासौ तथाविधः
कश्चिद्, यः स्वप्नेऽपि नाभासः स्यात्ततो नाशङ्केति चेत् । लिङ्गेऽप्येवमिति समः
समाधिः। कः पुनरसावर्थो यः स्वप्नेऽपि नाभासः स्यात्, यदनुपलम्भे विभ्रमावका-
शोयादृगुपलम्भे च तद्बाध्यव्यवस्था । अन्यथा हि, तथाभूतस्यापि व्यभिचारे साऽ-
बोधनी ।
सोऽपि इति । अनुपपद्यमानाभासोऽपि-इति । लिङ्गाभासोऽप्येवमित्याह-लिङ्गेऽपि-इति ।
यदि लिङ्गाभासेनापि प्रामाण्यानुमानं तर्हि तदनुमितप्रामाण्यज्ञानस्याप्यप्रामाण्यशङ्का निवृत्तेति
व्यर्थः प्रामाण्यानुमानप्रयास इत्याह-तर्हि-इति । अर्थापत्तिवादिनोऽपि तुल्यमेतदित्याह-एतद-
पि-इति । ननु यदन्तरेण हि यन्नोपपद्यते न तत् तदन्तरेणा प भवतीति संभवति, तस्मादनुपप-
द्यमानस्याभासत्वं न संभवतीत्याह अनुपपद्यमान इति । तर्हि तद्विनाभूतस्य तेन विनापि
भानासम्भवात् लिङ्गाभासोऽपि न संभवतीत्याह-लिङ्गेऽपि-इति । अत्रान्तरे पार्श्वस्थः पृच्छ-
ति-कः पुनः इति । योऽसौ युवाभ्यामुच्यते नाभासः स्यादिति कोऽसावर्थ इति । उत्तरं यद-
नुपलम्भे इति । यस्य तदितरव्यावर्तकधर्मविशिष्टस्य वस्तुनोऽनुपलम्भे भ्रान्तिर्भवति यादृश-
स्योपलम्भे चासौ न भवति सोऽर्थः स्वप्नेऽपि नाभासः स्यादिति । अनाभासस्योपलक्षणान्तर-
माह-बाध-इति ।
तदितरव्यावर्तकधर्मानुपलम्भोपलम्भाभ्यां हि ज्ञानयोर्बाध्यबाधकव्यवस्थे.ते । यद्वा, यादृशस्यो-
पलम्भे बाधकं व्यवतिष्ठते नातः परं भवति सोऽप्यर्थः । अन्यथेत्यस्य विवरणं तथाभूत-
स्यापि व्यभिचार इति । सापि = बाधकव्यवस्थापि न स्यात् । न ह्युभयोरविशिष्टायां व्यभि-
चारशङ्कायामेकं बाधकमितरद् बाध्यमिति व्यवस्था सिध्येदिति । सापि मा भूत् का नो हानिर्-
प्रकाशः ।
निश्चय इत्यर्थः । भट्टमते ज्ञाततारूपलिङ्गज्ञानस्य प्रामाण्यसंशयान्न तन्निश्चय इति तद्ग्राहकपरम्प-
राप्रामाण्यानुस्मरणेऽप्यनवस्थेत्याह । तत्किमिति । सोऽपीति । मायालिङ्गनि झटिति परित्रा-
जकत्वबुद्धिवदप्रमाऽपि प्रमेत्येव गृह्यत इत्यर्थः । फलमुखामनवस्थामाह । तर्हीति । यद-
नुपलम्भ इति । यस्य विशेषस्य शुक्तित्वादेरनुपलम्भे शुक्तौ रजतभ्रमो यस्य तु शुक्तित्वादे-
रुपलम्भे भ्रमबाधो व्यवतिष्ठते, स लोकसिद्ध इत्यर्थः । यद्यपि यदुपलम्भ इति वक्तुमुचितं, तथापि
वस्तुगत्या विशेषस्य ज्ञानं न भ्रमविरोधि, अपि तु विशेषत्वेनेति दर्शयितुं यादृशित्युक्तम् । एव-
मनभ्युपगमे लोकव्यवहारविरोध इत्याह । अन्यथेति । सा=भ्रमबाध्यव्यवस्था । बाधकस्य व्यभि-
प्रकाशिका ।
सामान्यत आशङ्का, इदानीन्तु विशेषतः प्रश्चान्तरेण दोषान्तरदानाय चेति न पौनरुक्त्यम् ।
मकरन्दः ।
प्यनवस्थेति भावः । मिश्रमतेऽप्यनवस्था द्रष्टव्या । फलमुखीमिति । यद्यपि पूर्वमेवमाशङ्का परि-
हृतैव, तथापि सामान्यतः सा, विशिष्येदानीमाशङ्केति न दोष इत्येके । प्रसङ्गान्तरेण दोषान्तर-
दानाय पुनराशङ्केत्यन्ये ।
टिप्पणी ।
व्युत्पत्तेः प्रामाण्यधर्म्मत्वादित्यर्थः, तथा च ज्ञानेन विषयप्रामाण्यमेव ग्राह्यम् न तु प्रामाण्यध-
र्मभूतं प्रामाण्यमिति भावः । अत्र स्वयंप्रमाण्यान्यत्वादिति पाठः ।

द्वितीयस्तबके ] प्रामाण्यपरतस्त्वोपपादनम् । २३३
पि न स्यात् । मा भूदितिचेन्न, भवितव्यं हि तत्त्वात्तत्त्वविभागेन । अन्यथा व्याघा-
तात् । कथं हि नियामकनिःशेषविशेषोपलम्भेऽपि विपरीतारोपः ? तथाभावे वा
तदतिरिक्तविशेषानुपलम्भे कथं बाधकम् । तदभावे त्वबोधस्य कथं भ्रान्तत्वमिति ।
स्यादेतत् । परतः प्रामाण्येऽपि नित्यत्वाद्भेदानामनपेक्षत्वं, महाजनपरिग्रहाच्च
बोधनी ।
स्याद्-मा भूत इति । भवितव्यम् इति । बाधकज्ञानविषयस्तत्त्वं, बाध्यज्ञानविषयश्चातत्त्वमिति
हि तत्त्वात्तत्त्वव्यवस्था, । ततो बाध्यबाधकव्यवस्वाभावेन तत्त्वात्तत्त्वविभागोऽपि न स्यादिति । मा
भूद्विभागोऽपीत्यन्नाह- अन्यथा इति । मा भूदित्यस्यापि निर्णयस्य तत्त्वभावेन व्याघातादिति ।
यादृशोपलम्भ इत्यादिनोक्तमेवार्थमुपपादयन्नाह-कथं हि-इति । तथाभावे वा इति । निया-
मकनिःशेषविशेषोपलम्भे वेति ।
अथ पूर्वपक्षेकदेश्याह-स्यादेतत् इति । अस्तु परतः प्रामाण्यं प्रमाणानां, तथापि वेदानां
प्रकाशः ।
चारिजातीयत्वे बाध्यबाधकयोरविशेषाद् बाधकत्वमेव न स्यादित्यर्थः । अन्यथेति । लोकमर्या-
दाऽतिक्रमे किमपि न तत्त्वमित्यस्याप्यतत्त्वत्वे कान्त्ययातत्त्वमिति, बाधकरय तत्त्वं बाध्यरयातत्त्व-
मभ्युपेयमित्यर्थः । तथाभावे वेति । यदि नियामकनिःशेषविशेषोपलम्भेऽपि विपरीतारोपः
स्यात् तदा तस्यारोपत्वं न तावद् बाधकं विना निश्चेयम् । सर्वरयारोपत्वप्रसङ्गात् । बाधकात्
तन्निश्चये बाधकाभिमतस्यापि बाध्यतायामबाधकत्वप्रसङ्गात् । अवाध्यत्वे तु कथमशेषविशेषोपलम्भे
समारोपसम्भव इति भावः । एवञ्च प्रामाण्यानुमेयत्वे बहुवित्तव्ययायाससाध्येऽपि गृहीतप्रामाण्यं
न ज्ञानंप्रवर्तकम् । तस्य प्रामाण्यानुमितेः प्रागेव नाशात् । किन्तु तज्ज्ञानसमानविषयमप्रामा-
ण्यशङ्काशून्यं ज्ञानान्तरमेव । न चैवं प्रामाण्यानुमितिरफला, तां विना तत्समानविषयज्ञानेऽप्र-
माण्यसंशयादिति सारम् ।
अस्तु सपक्षतृष्णान्दे प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च परतस्त्वम् । वेदे तु नित्यतया वक्तुरभा-
वान्त्र तत्र गुणाधीनं प्रामाण्यम् । ज्ञप्तिरपि तस्याप्तोक्तत्वं विनाऽपिमहाजनपरिग्रहादेव स्यादित्याह
स्यादेतदिति । सर्गप्रलयसम्भवेन वेदस्य नित्यत्वं महाजनपरिगृहीतत्वञ्चासिद्धमित्याह ।
प्रकाशिका ।
बाधकाभिमतस्यापीति । अशेषविशेषोपलम्भेऽपि विपरीतारोपाभ्युपगमपक्ष इति शेषः ।
ज्ञानान्तरमेवेति । न च प्रामाण्यानुमितिरेव प्रवर्त्तिकास्तु स्वातन्त्र्येण इष्टतावच्छेदकवैशिष्ट्यां-
वगाहित्वादिति वाच्यम् । इदन्तावच्छेदैन तद्वैशिष्ट्यावगाहिनो ज्ञानस्य प्रवर्त्तकत्वात् प्रामाण्यानु-
मितेश्चातथात्वात् । तां विनेति । न चान्यत्र प्रामाण्यनिश्चयेऽन्यत्र कथं तत्संशयप्रतिबन्ध इति
वाच्यम् । यद्धर्मावच्छेदेन यद्धर्मग्रहस्तद्धर्मग्रहस्य तत्कोटिकसंशयविरोधित्वात् । वस्तुतः प्रामा-
ण्यानुमित्युपनीतं प्रामाण्यमेवोत्तरज्ञानुव्यवसाये भासत इति दिक् । कोलाहलयाव्याप्तिकत्वे
मकरन्दः ।
बाधकाभिमतस्यापीति । अशेषविशेषोपलम्भेऽपि विपरीतारोपाभ्युपगमपक्षे इति शेषः
तां विनेति । न चान्यत्र विशेषदर्शनस्य धर्म्यन्तरे शङ्काप्रतिबन्धकत्वेऽतिप्रसङ्ग इति वाच्यम् ।
अन्वयव्यतिरेकाभ्यामनन्यगत्याऽत्रैव तथा कल्पनादित्येके । तद्विषयकत्वावच्छेदेन पूर्वज्ञाने प्रामा-
ण्यग्रहात् तज्ज्ञानत्वमेव विशेषदर्शनमित्यन्ये । वस्तुतस्तु तस्योपनीतभानसामग्रीत्वेन तद्ग्रहा-
नन्तरमुपनीतं प्रामाण्यं तत्र भासत इति न तत्र शङ्केति प्रत्यक्षप्रकाशे विपश्चितम् । अन्यथा तस्य
व्याप्यत्वेनाग्रहे शङ्काविरोधित्वानुपपत्तेरिति ध्येयम् । धूमत्वदर्शनस्यः व्याप्तिसंशयविरोधित्ववत्
पृथगेव तस्य तद्विरोधित्वमित्यप्याहुः ।
२६ न्या० कु०

२३४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यानं
प्रामाण्यमिति को विरोधः ? । न । उभयस्याप्यसिद्धेः । न हि वर्णा एव तावन्नि-
त्याः । तथा हि । इदानीं श्रुतपूर्वो गकारो नास्ति, निवृत्तः कोलाहल इति प्रत्य-
क्षेणैव शब्दध्वंसः प्रतीयते । न हि शब्द एवान्यत्र गतः । अमूर्त्तत्वात् । नाप्या-
वृतः । तत एव संबन्धविच्छेदानुपपत्तेः । नाप्यनवहितः श्रोता । अवधानेऽप्यनु-
पलब्धेः । नाऽपीन्द्रियं दुष्टं, शब्दान्तरोपलब्धेः । नाऽपि सहकार्यन्तराभावः ।
अन्वयव्यतिरेकवतस्तस्यासिद्धेः । नाप्यतीन्द्रियम् । तत्कल्पनायां प्रमाणाभावात् ।

बोधनी ।
वक्तृगुणज्ञानादिनिरपेक्षमेव प्रामाण्यं सिद्ध्यति, नित्यत्वेन तदनपेक्षत्वात् महाजनपरिग्रहाच्च प्रा-
माण्यसिद्धेः, ततः प्रमायाः परतन्त्र्येऽपि नेश्वरसिद्धिरिति भावः । न-इति । नित्यत्वस्य तद-
धीनानपेक्षत्वस्य चासिद्धिः । यद्वा, नित्यत्वस्य परिग्रहस्य च, यद्यपि सिद्धः परिग्रहस्तथापि
नित्यत्वे वेदस्य निर्मूलतया अप्रतर्कल्प एवेति भावः । नित्यत्वासिद्धिमाह-न हि-इति । वर्णा-
नामेवानित्यत्वे कुतस्तत्समुदात्मकस्य पदस्य नित्यत्वं, कुतस्तरां तत्समूहात्मनो वाक्यस्य, कुत-
स्तमां तत्समूहात्मनां वेदानामिति तावच्छब्दस्यार्थः । कथं वर्णानामनित्यत्वमित्यत आह-तथा
हि इति । विशेषतः सामान्यतश्च शब्दानां ध्वंसरूपमनित्यत्वं श्रोत्रप्रत्यक्षेणानुभूयत इति ।
नन्वयं शब्दानुपलम्भ एव, स च ध्वंसं विनाप्युपपत्स्यत इत्यत्राह-न हि इति । अमूर्त्तत्वस्य नि-
ष्क्रियत्वंव्याप्तेरिति । अमूर्त्तत्वादेव शब्दस्येन्द्रियसंबन्धविच्छेदलक्षणमावरणमपि घटादेरिव न
घटत इत्याह-नापि इति । नापि सत्येवेन्द्रियसंबन्धे श्रोतुरनवधानादनुपलब्धिरिन्द्रियदोषाद्वा
संभवतीत्याह-नाप्यनवहितः-इति । नन्वदुष्टेऽपि श्रोत्रेन्द्रिये प्रतिशब्दं तत्सहकारिणो भेदा-
च्छब्दान्तरोपलम्भेऽप्यनुपलम्भः शब्दान्तरस्योपपद्यते, तेन न तदनुपलम्भः सहकार्यन्तराभाव-
दित्यत आह-नापि सहकारि-इति । शब्दोपलम्भं प्रत्यन्वयव्यतिरेकवतः सहकारिणः प्रत्य-
क्षेणासिद्धिरिति । तस्यातीन्द्रियत्वेनानुपलब्धिरित्यत्राह-नापि-इति । श्रुतस्य शब्दस्याभावेनै-
वोत्तरकालमनुपलम्भोपपत्त्यर्थं सहकारिकल्पनायां प्रमाणाभावादिति । तथापि तावत्कल्पने श्व-

प्रकाशः।
उभयस्येति । यद्यपि वर्णानां नित्यत्वेऽप्यर्थप्रत्यायनानुकूलानित्यानुपूर्वीविशेषघटितत्वेन वेदोऽ-
नित्य एवेति तत्र वक्तृगुणापेक्षाऽस्त्येव, तथापि वर्णस्यानित्यत्वव्युत्पादने तत्समूहविशेषवाक्यवि-
शेषरूपस्य तस्य सुतरामनित्यत्वं सिद्ध्यतीत्याशयेन वर्णमात्रस्यानित्यत्वं साधयति । तथा हीति ।
अनभिव्यक्तवर्णत्वव्याप्यजातिविशेषो वर्णसमूह एव कोलाहलः । प्रत्यक्षमेव वर्णस्यानित्यत्वम् ।
योग्यानुपलब्धेः प्रत्यक्षप्रतियोगिकाभावत्वेनैव घटाभावस्येव तदभावस्य प्रत्यक्षत्वादित्यर्थः ।
प्रत्यक्षस्यान्यथासिद्धिं निराकरोति । न हीति । येन सन्नपि नोपलभ्यत इत्यर्थः । तत एव =
अमूर्तत्वादेव । इन्द्रियसम्बन्धविच्छेदो ह्यावरणम् । स च शब्दस्य विभुत्वादाकाशविशेषगुणत्वे
च श्रोत्रसमवायस्य नित्यत्वादयुक्त इत्यर्थः । तत्कल्पनेति । अतीन्द्रियशब्दोपलम्भककल्पनेत्यर्थः ।
ननु प्रतियोगियोग्यता मात्रंनाभावप्रत्यक्षत्वे तन्त्रं, किन्त्वधिकरणयोग्यताऽपि । सा च शब्द-

प्रकाशिका।
तद्विनष्टत्वप्रतीतिर्न वर्णानित्यत्वे प्रमाणमत आह । शब्दस्य विभुत्वादिति भट्टमते । श्रोत्रसमवा-
यस्येति । नित्यप्रतियोगिकसमवायस्य गुरुणापि नित्यत्वाभ्युपगमादिति भावः । विवादविषयत्वं

मकरन्दः।
ननु कोलाहलस्य ध्वन्यात्मकत्वात् तदनित्यत्वेऽपि वर्णानित्यत्वं न सेत्स्यतीत्यत आह ।
अनभिव्यक्तेति । शब्दस्य विभुत्वादिति भट्टमते । अन्यशब्दध्वंसेऽपि कदा चिद्विवादसम्भ-