न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
२०८ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [२० कारिकाव्याख्या]
इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतिताे
मूलत्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता ॥
देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहलः
साक्षात्साक्षितया मनस्यभिरतिं बध्नातु शान्तो मम॥२०॥
इति श्रीन्यायकुसुमाञ्जलौ प्रथमः स्तवकः ॥ १ ॥
बोधनी ।
दयन्नुत्तरोत्तरं समीचीनतरन्यायपरिस्फूर्त्तये स्वचेतसि भगवतः सान्निध्यं प्रार्थयते-इत्येषा-
इति । इति=एवमुपपादितेषा, असमा प्रत्यात्मसमवेतत्वेनासाधारणी विचित्रा धर्माधर्माख्या शक्तिर्नैया-
यिकैर्दैवस्य सहकारिशक्तिरिति व्युत्पादिता । जीवाद्दष्टसापेक्षो भगवान् जगन्ति निर्मिमीत इति तेषां
च स्थितिः । माध्यमिकैस्तु दुरुन्नीतिलतः स्वरूपसामर्थ्याद्देवमियमित्युन्नेतुमशक्यत्वाद् इन्द्रजाला-
दिमायासादृश्यान्मायेति । सांख्यैस्तु मूलकारणत्वात्प्रकृतिरिति, ते हि प्रकरोति प्रपञ्चमिति प्रकृ-
तिशब्दं निराहुः । वेदान्तवादिनस्तु प्रबोधात्तत्त्वसाक्षात्काराद्विभेति तिरोधत्ते इत्यविद्येति । यथा
हि मिथ्याज्ञानं तत्त्वज्ञानेन विनश्यति तथा धर्माधर्मावप्युत्पन्नतत्त्वज्ञानस्य भोगद्वारेण विलीयेते,
ततस्तयोरेवाविद्यात्वादविद्यामात्रविलसितः प्रपञ्च इति तेषामाघोषः । एवं तत्तत्प्रवृत्तिनिमित्तवशेन
मायादिशब्दैरुदिता यस्य सहकारिशक्तिरसौ देवो गुणतयाधिष्ठानमतीत्यावस्थित एवोपरतजगन्नि-
र्माणादिव्यापारः सोऽस्मदीयं समस्तव्यापारं साक्षात् कुर्वन्मम चेतसि संनिधत्तामिति ॥२०॥
उदयनगम्भीरभावप्रकटननिपुणेन वरदराजेन । व्याख्यात एव गहनः कुसुमांजलेः प्रथमखण्डः ॥
इति श्रीमद्दामदेवमिश्रसूनोर्वरदराजस्य कृतौ न्यायकुसुमाञ्जलिटीकायां प्रथमः परिच्छेदः ॥
प्रकाशः
योपाधेः साध्याव्यापकत्वात् ॥ १९ ॥
साधनमात्रसमर्थनेऽपि प्राधान्याददृष्टं स्तबकार्थमुपसंहरन् मायिकाद्यागमविरोधमाह—
इत्येषेति । प्रथम इतिशब्द उपसंहारे । यस्य देवस्य एषा अदृष्टरूपा सहकारिशक्तिः सहकारि-
कारणम् असमा मायेत्युदिता । "यन्मायाप्रभवं विश्व"मित्यत्र मायाशब्देनादृष्टस्याभिधानात् ।
असम्त्वे हेतुः-दुरुन्नीतिः । अदृष्टमाययोर्महाविचारोन्नेयत्वात् । "प्रकृतिप्रभवं विश्व"मि-
त्यत्राप्यागमेऽदृष्टरूपा शक्तिरेव प्रकृतिरुदिता । कुतः ? । मूलत्वात् । मूलकारणमेव प्रकृतिश-
ब्दार्थः । अदृष्टञ्च तथा । अविद्याप्रभवत्वागमे सैवाविद्येत्युदिता । यतः **प्रबोधात्=**तत्त्वज्ञानादुभ-
योरपि भीतिः । अविद्यावज्जनकाद्दष्टस्यापि ततो भयात् । तत्त्वज्ञाने तदनुत्पत्तेः ॥ प्रपञ्चः=
प्रतारणा, तद्रचनायाः **कल्लोलः=**परम्परा, तस्य **कोलाहलः=**किंवदन्ती स विरतो यस्य, स
**शान्तो=**द्वेषादिहीनो मम मनसि । **अभिरतिं=**विजातीयज्ञानानन्तरितचिन्तां स्वविषयाम् ।
**साक्षात् साक्षितया=**तन्न प्रत्यक्षेण साक्षीभवन् । **बध्नातु=**दृढीकरोत्वित्यर्थः ॥ २० ॥
इति श्रीमदामहोपाध्यायश्रीवर्द्धमानविरचिते न्यायकुसुमाञ्जलिप्रकाशे प्रथमः स्तबकः ॥ १ ॥
प्रकाशिका ।
व्याप्तिपरिहाराय मात्रेति । तथा च चेष्टादावेव साधनाव्यापकत्वमिति भावः ॥ १९-२० ॥
इति श्रीभगीरथविरचितायां कुसुमाञ्जलिप्रकाशिकायां प्रथमः स्तवकः ॥ १ ॥
मकरन्दः ।
णाय—मात्रेति । तथा न चेष्टादावेव साधनाव्यापकत्वमिति भावः । न च मात्रपदं विनापी-
श्वरज्ञानादिरूपव्यधिकरणगुणजन्यशब्दजशब्दे साधनाव्याप्तिरिति वाच्यम् । मूर्त्तवृत्तित्वस्य
कार्यविशेषणस्य प्रागेवोक्तत्वात् । अन्यथा तत्रैव व्यभिचारापत्तेरिति ॥ २० ॥
इति श्रीमद्दामहोपाध्यायदेवदत्तारमजमद्दामहोपाध्यायश्रीमद्रुचिदत्तकृतौ
कुसुमाञ्जलिमकरन्दे प्रथमः स्तबकः ॥ १ ॥
श्रीगणेशाय नमः॥
न्यायकुसुमाञ्जलौ
द्वितीयस्तबकः।
तदेवं सामान्यतः सिद्धेऽलौकिके हेतौ तत्साधनेनावश्यं भवितव्यम्। न च
तच्छक्यमस्मदादिभिर्द्रष्टुम्। नचादृष्टेन व्यवहारः। ततो लोकोत्तरः सर्वानुभावी
सम्भाव्यते।
बोधनी।
अथ द्वितीयं परिच्छेदमारभमाणस्तन्निराकरणीयामाशङ्कामुत्थापयितुं यथा साधितपूर्वेणापूर्वे-
णेश्वरसिद्धिस्तद्दर्शयति —तदेवम्—इति। तदिति वाक्योपक्रमे, एवमित्युक्तप्रकारपरामर्शः,
सामान्यतः=सामान्यतो दृष्टेन पूर्वोक्तानुमानेन। अलौकिके हेतौ अदृष्टे सिद्धे कार्यत्वात्तस्य
साधनेन ज्योतिष्टोमादिनाऽवश्यं भवितव्यम्। न च तत्साधनमस्मदादिभिः पिहितलोचनैः
शक्यदर्शनम्। न च तथाऽदृष्टेन तेनानुष्ठानरूपो व्यवहारः सम्भवति। तस्मादतीन्द्रियार्थसा-
क्षात्कारैकक्षमः सर्वोतिशायी कश्चिदस्ति यदुपज्ञोऽयमर्वाचीनानां तद्विषयो व्यवहार इति।
प्रकाशः।
द्वितीयां विप्रतिपत्तिमुत्थापयितुं भूमिकामारचयति। तदेवमिति। तस्य च जन्यतया
तत्कारणयागादिदर्शी कश्चित् स्वीकर्त्तव्य इत्यर्थः। न चेति। यागादिस्वर्गसाधनत्वस्याती-
न्द्रियत्वादित्यर्थः। तद्दर्शने दोषमाह। न चेति। व्यवहारश्च यागादिस्वर्गसाधनताबोधक-
शब्दरूपः, अदृष्टाधिष्ठानरूपश्च। तदुभयमदृष्टसाक्षात्कारं विना न सम्भवतीत्यस्मदादिविलक्षणः
सर्वज्ञः कल्प्यत इत्यर्थः। वेदवाक्यजज्ञानस्य हि प्रामाण्यमनिश्चित्य बहुधनव्ययाऽऽयाससाध्ये
यागादौ प्रवृत्तिर्न स्यात्। प्रामाण्यं च गुणजन्यं, गुणश्च शाब्दे ज्ञाने प्रयोगहेतुवाक्यार्थयथार्थ-
ज्ञानवत्त्वमिति भावः।
प्रकाशिका।
तस्य चेति। यागादिजन्यतया तस्य तत्कारणत्वे यागादिदर्शी कश्चित् स्वीकरणीय इत्यर्थः।
शब्दरूप इति। शब्दप्रयोगस्यापि व्यवहारविशेषत्वादिति भावः। अदृष्टाधिष्ठानेति। कारणस्या-
चेतनस्य चेतनाधिष्ठानं विना कार्याजनकत्वादिति भावः। दुभयमपीति। यद्यपि स्वर्गकामो
यजेतेत्यादिशब्दप्रयोगे नादृष्टज्ञानापेक्षा, एतद्वाक्यार्थस्यादृष्टाघटितत्वात्। तथापि स्वर्गसाधनत
प्रतीत्य तादृशवाक्यप्रयोगः, स्वर्गसाधनताप्रतीतिश्चादृष्टद्वारेवाऽऽशुविनाशियागादेरिति भगवतोऽ-
दृष्टसाक्षात्कार आवश्यकः, ज्ञानान्तरस्य तत्रासंभवादिति भावः। ननु यागादेः स्वर्गसाधनताबोध-
कोऽनादिरेव वेद इति कथमुपदेष्टुरपेक्षेत्याशङ्कयाह। वेदवाक्यजज्ञानेति। तथा चानादित्वे
मकरन्दः।
तस्य चेति। तस्य जन्यतया तत्कारणं यागादिः स्वीकर्त्तव्यः, ततः स्वर्गसाधनत्वेन
तदुपदेशक तथा तथात्वेन तद्दर्शी कश्चित् स्वीकर्त्तव्य इत्यर्थः। तदुभयमिति। यद्यपि तद्विना-
ऽपि तादृशरूपो व्यवहारः सम्भवत्येव, तथाऽप्यतीन्द्रियसाक्षात्कारं विनेत्यर्थ इत्येके। तदीय-
स्वर्गसाधनतासाक्षात्कारोऽदृष्टविषयतानियत इत्याशयेन तयोरुक्तमित्यन्ये। ज्ञानान्तरस्यासम्भवात्
साक्षात्कारं विनेत्युक्तम्। उत्तरग्रन्थमवतारयितुमाह। वेदवाक्यजेति।
२७ न्या० कु०
२१० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्या०]
ननु नित्यनिर्दोषवेदद्वारको योगकर्मसिद्धसर्वज्ञद्वारको वा धर्मसम्प्रदायः
स्यात्, किं परमेश्वरकल्पनयेति चेत्। अत्रोच्यते-
प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् ॥
तदन्यस्मिन्ननाश्वासात्र विधान्तरसम्भवः ॥१॥
बोधनी।
अत्रान्यथासिद्धिं मीमांसकः शङ्कते । नन्विति । नित्यत्वेन पुरुषाद्यनुप्रवेशाभावात् निर्दोषं
स्वतः सिद्धप्रामाण्यं च वेदमेव मूलमवलम्ब्यान्यं धर्मसंप्रदायोऽस्तु, तन्नित्यत्वासिद्धावपि सांख्या-
दिमतावलम्बनेन कर्मयोगसिद्धसाक्षात्कारविषयीकृतधर्माधर्माः कपिलादय एव सन्तु मूलमस्य,
किमनेन परमेश्वरेणानपेक्षितसमुद्रवालुकाकीटसंख्यादिसर्वविषयज्ञानेनेति तदुत्तरत्वेन परिच्छेद-
प्रतिपाद्यमर्थं संकलय्याह-उच्यते-
प्रमायाः-इति । न तावत् स्वतः प्रामाण्यं, प्रमायाः कारणगुणतन्त्रत्वात् । न च वेदस्य
नित्यत्वं शब्दस्यैवानित्यत्वात् । परतन्त्रपुरुषपरतन्त्रतया प्रवाहाविच्छेदलक्षणं नित्यत्वमस्तीति
चेत्तदपि नास्ति सर्गप्रलययोः सम्भवेन प्रवाहस्यैव परिच्छेदात् । न च कपिलादिद्वारा सम्प्रदाय-
सिद्धिः, ततः परमेश्वरादन्यस्मिन् कपिलादौ प्रमाणत्वेन विश्रम्भाभावात् । न हि योगबलप्रभा-
विता भावना प्रमात्मकमेव साक्षात्कारं करोतीति नियमः, ततो नित्यसर्वज्ञसिद्धिरिति ॥ १ ॥
प्रकाशः।
अत्रासिद्धिमाह । नन्विति । वक्तृदोषेणाप्रामाण्यशङ्कया निष्कम्पप्रवृत्तिर्न स्यात् । सा च
नित्यत्वादवक्तृके वेदे नास्तीति तत एव प्रामाण्यं किं वक्तृगुणेनेत्यर्थः । वक्तृगुणजन्यत्वेऽप्यन्य-
यासिद्धिमाह । योगेति । योगकर्मभ्यां ये सिद्धाः सर्वज्ञास्त एव वेदकारा अदृष्ठाधिष्ठातारश्चेति-
न नित्यसर्वज्ञसिद्धिरित्यर्थः । यद्यप्यन्यथासिद्धिरपि प्रमाणाभाव एव पर्यवस्यति, तथापि साक्षात्
प्रमाणाभावोऽग्रे दूष्यः, अन्यथासिद्धिद्वारा त्वत्रेत्यर्थभेदः ।
प्रमामात्रे गुणजन्यत्वसिद्धौ शाब्दप्रमायामपि तज्जन्यत्वसिद्धिर्भविष्यतीत्याशयेनाह । प्रमा-
या इति । अनित्यप्रमाया इत्यर्थः । ननु नित्यत्वाद् वेदानां, कर्तृजन्यत्वेऽपि महाजनपरिग्रहात् ,
प्रामाण्यं निश्चित्य यागादौ प्रवृत्तिर्भविष्यतीत्यत आह । सर्गेति । तथा च वेदमहाजनयोरभा-
वात् केन कस्य परिग्रह इति भावः । द्वितीयामन्यथासिद्धिं निरस्यति । तदन्यस्मिन्निति ।
अनित्यज्ञानवत्त्वेन भ्रमादिशङ्काकलङ्कितत्वेन नित्यसर्वज्ञपूर्वकत्वाद् न प्रकारान्तरसम्भव इत्यर्थः ।
प्रकाशिका ।
प्रामाण्यमेव तस्य न स्यादित्यवश्यमुपदेष्टुरपेक्षेति भावः। अग्रेति। प्रमायां गुणजन्यत्वमेव न,
दोषाभावेनैवान्यथासिद्धेरित्यर्थः । वक्तृगुणजन्यत्वेऽपौरुषेयलक्षणमदृष्टाधिष्ठानेऽपीति द्रष्टव्यम् ।
पर्यवस्यतीति । तथा च द्वितीयपञ्चमयोर्नाभेद इति भावः । अग्रे=पञ्चमस्तबके । अन्यथा-
सिद्धिद्वारा यः प्रमाणाभावः सोऽत्र दूष्योऽन्यथासिद्धिनिराकरणेनेत्यर्थः । ननु नित्यत्वादिति ।
नित्यत्वे प्रमाणसिद्धे दोषाभावादेव प्रामाण्यं महाजनपरिग्रहेण निश्चेयमिति भावः । तथा चेति ।
नित्यत्वञ्च न प्रामाणिकमिति भावः । साध्यस्यार्थानुवादपुरःसरं विरोधमपि हेत्वाभासमाह ।
मकरन्दः ।
अग्रे=पञ्चमस्तबके । अन्यथासिद्धिद्वारा = तन्निराकरणद्वारेत्यर्थः ।
द्वितीयस्तबके ] प्रमास्वतस्त्वखण्डनम् । २११
तथा हि। प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना, कार्यत्वे सति तद्विशेषत्वात् अप्र-
बोधनी।
प्रमापारतन्त्र्यं तावदनुमानेनोपपादयति-तथाहि-इति। प्रमात्वं नामौपाधिकसामान्यविशेषः।
तस्य नित्यत्वेनानुत्पाद्यत्वात्, तदाश्रयो यथार्थानुभवलक्षणो ज्ञानविशेषः प्रमाशब्देन पक्षीक्रियते।
ज्ञप्तिपक्षे च विरोधात् प्रामाण्यशब्देन प्रमाणत्वमेव पक्षीकरिष्यते, सेयं प्रमाऽप्रमासाधारणज्ञानसामा-
न्यहेत्वधीना भवति, कार्यत्वे सति ज्ञानविशेषत्वादप्रमावदिति। व्याप्तिद्वयमत्राभिसंहितं-यो यत्कार्य-
विशेषः स तत्सामान्यहेत्वतिरिक्तहेत्वधीनः, यथा कलमाङ्कुरः, न ह्यङ्कुरविशेषः कलमाङ्कुरोऽङ्कु-
रसामान्यहेतोर्बीजादेव भवति किन्तु तद्विशेषात् कलमबीजात्, कार्यविशेषश्चेयं प्रमा तस्मात्तथेत्येका
सामान्यव्याप्तिः। अपरा च-यो ज्ञानविशेषः स ज्ञानसामान्यातिरिक्तहेतुको यथाऽप्रमेति विशेष-
व्याप्तिरिति। ज्ञानं नाम ज्ञानत्वाभिव्यञ्जिका विषयप्रवणा व्यक्तिः, तद्विशेषत्वमनुभवादीनामिति। अत्र
द्रव्यविशेषस्याकाशादेः, ज्ञानविशेषस्य चेश्वरप्रमाया नित्यत्वाद्धेत्वपेक्षैव नास्ति, दूरेत त्साम-
न्यातिरिक्तहेत्वधीनत्वम्। ततश्च तद्विशेषत्वमनैकान्तिकं मा भूदित्युक्तं-कार्यत्वे सति-इति।
पक्षीकृतस्यापि कार्यत्वेन विशेषणान्नेश्वरप्रमांशे बाधादयः प्रादुष्यन्ति। अनुमानस्य विपक्षे
प्रकाशः।
प्रामाण्यस्य गुणजन्यत्वं साधयति। प्रमेति। हेत्वधीनत्वे ज्ञानहेत्वधीनत्वे च साध्ये सिद्ध-
साधनं स्यात्, अतो ज्ञानहेत्वतिरिक्तहेत्वधीनेति साध्यम्। ननु प्रमाया ज्ञानत्वेन तद्धेतुजन्यत्वेन
बाधः, ज्ञानाजनकजन्यत्वे विरोधः। अप्रमायां तदसिद्धेर्दृष्टान्तासिद्धिः, व्यर्थविशेष्यत्वं च, घटा-
दावपि साध्यसत्त्वेन कार्यत्वस्यैव व्याप्तिमत्त्वात्। व्यर्थविशेषणत्वं च, व्यावत्यैश्वरज्ञानस्य परं
प्रत्यसिद्धेः। नापि ज्ञानसामान्यहेत्वन्यहेतुजन्येति साध्यम्, उक्तदोषात्। ज्ञानसामान्यं च
ज्ञानत्वं वा सर्वज्ञानव्यक्तयो वा ? आद्ये हेत्वसिद्धिः। अन्त्य इन्द्रियादिभिः सिद्धसाधनम्।
नापि ज्ञानत्वावच्छिन्नकार्यत्वान्यकार्यत्वप्रतियोगिककारणजन्येति साध्यम्। ज्ञानत्वस्य नित्या-
नित्यवृत्तितया कार्यत्वानवच्छेदकत्वात्। जन्यत्वेन ज्ञानविशेषणे प्रत्यक्षाद्यात्मकज्ञानविशेषजन-
कैरिनि्द्रयादिभिः सिद्धसाधनम्। अत एव, प्रमात्वं ज्ञानत्वावच्छिन्नकार्यत्वनिरूपितकारणताभिन्न-
कारणताप्रतियोगिकार्यतावच्छेदकं, ज्ञानत्वसाक्षाद्व्याप्यधर्मत्वात्, अप्रमात्ववदिति निरस्तम्।
प्रकाशिका।
ज्ञानाजनकेति। ज्ञानाजनकत्वं च पारिमाण्डल्यादौ प्रसिद्धम्। मिश्रास्तु विरोधः = प्रतिज्ञावि-
रोधः, तथा च ज्ञानहेत्वजन्यत्वे बाधः प्रागुक्तः, इदानीन्तु साध्याप्रसिद्ध्या प्रतिज्ञाया विरोधे
वाक्यार्थबोधाजनकत्वं, पारिमाण्डल्यादेरप्यभावसाक्षात्कारं प्रति प्रत्यासत्तिघटकतया जनकत्वेन
ज्ञानाजनकत्वाप्रसिद्धेरिति विकल्प्य योजयन्ति। हेत्वसिद्धेरिति। ज्ञानत्वकारणाप्रसिद्धेरित्यर्थः।
तथा च साध्याप्रसिद्धिरिति भावः। नित्यानित्येति। अनित्यपदमत्र सम्पातायातम्। एवम-
न्यत्रापीदृशस्थले। ज्ञानत्वसाक्षादिति। ज्ञानत्वसाक्षाद्विभाजकधर्म्मत्वादित्यर्थः। विद्या
चाविद्या चेति प्रथमं विभागादितस्योपपत्तिः, यदि च प्रमात्वं चाप्रमात्वञ्चानुभवत्वव्याप्यमेव
मकरन्दः।
साध्यार्थविवरणपूर्वकं विरोधमपि हेत्वाभासमाह। ज्ञानाजनकेति। एतेन बाघविरोधयोर्-
द्वयत्रापि चरवाद्विकल्प्य विरोधाभिधानमसङ्गतमित्यपास्तम्, एकत्रैव साध्ये दोषद्वयस्योक्तत्वात्।
हेत्वसिद्धिरिति। ज्ञानत्वहेत्वप्रसिद्धिरित्यर्थः। तथा च तद्धटितसाध्यस्याप्रसिद्धिरिति भावः।
ज्ञानत्वसाक्षादिति। ज्ञानसाक्षाद्विभाजकोपाधित्वादित्यर्थः। एतेन, ज्ञानत्वव्याप्यज्ञानान्यान्यत्व-
व्याप्यत्वेन प्रमात्वस्यासिद्धिः। तद्व्याप्यजात्यव्याप्यत्वगर्भत्वे प्रमाऽप्रमान्यतरत्वादौ व्यभिचार
[Page Header]
२१२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्या
प्रकाशः ।
प्रमात्वस्य नित्यानित्यवृत्तित्वात् । अनित्यप्रमात्वं कार्यतावच्छेदकं कार्यमात्रवृत्तित्वधर्मत्वात्, अप्र-
मात्ववदित्यपि नीलघटत्वादनाऽनैकान्तिकम् । तत्र विशेषद्वयकारणेनान्यथासिद्धत्वात् । प्रमा-
ऽप्रमाकार्यवैचित्र्यं च, यथैकजातीयसामग्रीव्यक्तिभेदाद् घटद्वयं जायते तद्वदेव ज्ञानसामग्रीव्य-
क्तिभेदादुपपन्नम् । वैजात्यमपि तुल्यजातीयसामग्रीजन्यत्वेऽपि यमजवैधर्म्यवत् स्यात् । न च
प्रमात्वावच्छिन्नकार्यत्वं कथमननुगतहेतुकमिति वाच्यम् । उक्तयुक्त्या तस्य कार्यतानवच्छेदक-
त्वात् । अनित्यप्रमा प्रमाऽप्रमोभयहेतुभिन्नहेतुजन्या जन्यत्वादप्रमावदिति चेन्न । कारणव्यक्ति-
भेदजन्यत्वेन सिद्धसाधनाद् , अप्रमायां तदसिद्धेश्च । न चाप्रमायां दोषजन्यत्वात्तथा । दोषस्य
पित्तादेः स्वविषयप्रमायामपि हेतुत्वात् । अनित्यप्रमा स्वविरोध्यनुभवप्रतिबन्धकजन्या अनित्या-
नुभवत्वात् , अप्रमावत् । यद्वा, अनित्यप्रमा प्रमाऽप्रमान्यतरप्रतिबन्धकजन्या प्रमाऽप्रमान्य-
तरत्वादप्रमावदिति चेद् , न । प्रमाजनकासाधारणव्यक्तिविशेषस्याऽप्रमाप्रतिबन्धकत्वं प्रमाजन-
कत्वं चेति सिद्धसाधनात् ।
अत्रास्मत्पितृचरणाः । एवमप्रमाऽपि स्वत एव स्याद् , न परतः, प्रमावदसाधारणाका-
रणादेव तदुत्पत्तौ दोषस्य तत्राहेतुत्वापत्तेः । यदि च ज्ञानसामग्र्यां सत्यां विशेषादर्शनादेर्दोष-
स्यान्वयायथनुविधानाद्दोषो हेतुः, तर्हि विशेषादर्शनादेर्गुणस्यानन्वयायथनुविधानात् प्रमायामपि गुणे
हेतुरिति तुल्यम् । अपि च, यत्कार्यं यत्कार्यविजातीयं तत् तत्कारणविजातीयकारणजन्यं, यथा
घटविजातीयः पटः, अन्यथा कार्यवैजात्यस्याकस्मिकत्वापत्तेः । घटज्ञानमपि कार्यं तद्विजातीय-
कार्यकारणविजातीयकारणजन्यमिति न व्यभिचारः । एवं प्रागुक्तानुमानेष्वपि न सिद्धसाधनम् ।
अनुगतस्य प्रमाहेतुत्वेनासाधारणव्यक्तिभेदस्याहेतुत्वात् । एवमनित्यप्रमात्वमनित्यज्ञानत्वावच्छि-
न्नकार्यताप्रतियोगिककारणताभिन्नकारणताप्रतियोगिककार्यतावच्छेदकम् , अनित्यज्ञानत्वव्याप्य-
कार्यतावच्छेदकधर्मत्वाद् , अप्रमात्ववदित्यनित्यप्रमायामप्रमासाधारणहेतुव्यावृत्तानुगतहेतुसिद्धिः।
प्रकाशिका ।
तदाऽभिमतं तदा ज्ञानपदममुभवपरमिति स्मर्त्तव्यम् । प्रमात्वस्येति । त्वन्मत इति शेषः तथा च
बाध इति भावः । इदं च दूषणं ज्ञानपदस्यानित्यज्ञानपरत्वे, यथाश्रुते ज्ञानत्वस्य नित्यवृत्तितया
कार्यतानवच्छेदकत्वेन साध्याप्रसिद्धिरेव दूषणम् पूर्वहेतोरत्र पक्षेऽसम्भवाच्च हेत्वन्तरमाह । कार्य-
मात्रेति । वैजात्यं=वैचित्र्यम् । दोषस्य=पित्तोदेरिति । वस्तुतोऽप्रमाया उभयरूपतया न
तादृशहेतुजन्यत्वमिति भावः । अप्रमाप्रतिबन्धकत्वमिति । अनेनानुमानेन सिद्धस्यैव प्रतिब-
न्धकत्वं विषयीक्रियतामित्यर्थान्तरमिति भावः। घटज्ञानमिति । घटविषयकानित्यज्ञानमित्यर्थः।
न च तत्रानुगतकारणासम्भवः। अनुगतभोगजनकादृष्टसत्त्वात् न प्रकृतेऽपि तेनैवार्थान्तरं दृष्टस्यैव-
सम्भवाच्च उक्तव्याप्तिबलेन प्रमात्वस्य कार्यतावच्छेदकत्वे सिद्धे विशेषप्रकारकप्रतीत्यर्थमाह ।
एवमनित्यप्रमात्वमिति । अनित्यज्ञानत्वे , व्यभिचार इत्यनित्यज्ञानत्वव्याप्येति ।
व्याप्यत्वञ्च भेदमात्रम् । अन्यद्वैयर्थ्यादिति ध्येयम् । अनुगतहेतुसिद्धिरिति ।
यद्यपि प्रमामात्रेऽनुगतगुणोऽसम्भवी, एवमप्रमायामनुगतो दोषोऽसम्भवीति बाधदृष्टान्तासि-
द्धयादिः, न चानित्यसाक्षात्कारिप्रमात्वमेव पक्षः, तत्तत्प्रमात्वमेव दृष्टान्त इति वाच्यम् । तत्रा-
प्यनुगतस्य हेतोरभावाद् बाधतादवस्थ्यात् । न च भूयोऽवयवेन्द्रियसन्निकर्षादिरेवानुगतो गुण
मकरन्दः ।
इत्यपास्तम् । प्रमात्वस्येति । त्वन्मते इति शेषः ।
घटज्ञानमिति । घटविषयकानित्यज्ञानमित्यर्थः । न च तदवच्छिन्नकार्यनिरूपितकारणा-
न्तरमेव । अनुगतभोजकादृष्टस्य सत्त्वात् । न चैवं प्रकृतानुमाने तेनैवार्थान्तरं , दृष्टस्यैव सम्भ-
वादित्याहुः । अनुगतहेतुसिद्धिरिति । ननु गुणत्वस्यानुगतस्य निर्वक्तुमशक्यत्वादिनिरत्य-
द्वितीयस्तवके ] प्रमास्वतस्त्वखण्डनम् । २१३
मावत् । यदि च तावन्मात्राधीना भवेदप्रमापि प्रमैव भवेत् । अस्ति हि तत्र
ज्ञानहेतुः। अन्यथा ज्ञानमपि सा न स्यात् । ज्ञानत्वेऽप्यतिरिक्तदोषानुप्रवेशाद-
प्रमेति चेत्। एवं तर्हि दोषाभावमधिक्रमासाद्य प्रमापि जायेत नियमेन तदपेक्ष-
णात्। अस्तु दोषाभावोऽधिको, भावस्तु नेष्यते इति चेत्। भवेदप्येवं, यदि
बोधनी ।
बाधकं तर्कमाह-यदि-इति । तावन्मात्राधीना = ज्ञानसामान्यहेतुमात्राधीनेति । कुत इत्यत
आह-अस्ति हीति । यदि तत्र ज्ञानहेतुर्न स्यात् तदा कारणाभावेन कार्यं ज्ञानमपि न स्यादि-
त्याह-अन्यथा-इति । ज्ञानत्वेऽपि-इति । ज्ञानत्वाभ्युपगमेन तद्धेत्वभ्युपगमं सूचयति-
एवं तर्हि-इति । यदि दोषान्वयादप्रमा स्यात् तर्हि तद्विरोधिनी प्रमा दोषाभावादेव भवेदित्यधिक-
हेतुरङ्गीकृतः स्यादिति। अस्तु-इति । एवमनित्यस्यापि वेदस्य प्रामाण्यं सिद्ध्यतीति भावः। भवे-
प्रकाशः।
यदीति । यद्यप्यप्रमायां प्रमात्वापादने प्रमावृत्ति ज्ञानमात्रहेत्वधीनत्वं व्यधिकरणम्, तथापि
प्रमात्वं यदि ज्ञानसामग्रीमात्रप्रयोज्यवृत्ति स्याद् अप्रमावृत्ति स्याद् अप्रमात्ववदित्यापादनीयम् ।
अप्रमायाः प्रमित्यजनकदोषजन्यत्वान्नापादकमसिद्धमित्याह । ज्ञानत्वेऽपीति । तर्हि प्रमात्व-
मपि न ज्ञानमात्रसामग्रीप्रयोज्यम्, अतिरिक्तदोषाभावापेक्षादित्याह । एवन्तर्हीति । युक्तञ्चै-
तत् । अन्यथा प्रमासामग्र्यामधिकदोषानुप्रवेशादप्रमाऽपि प्रमाविशेषः स्यात्, वृक्षसामग्र्या-
मधिककारणानुप्रवेशाच्छिंशपा वृक्षविशेष इवेति भावः। अस्त्विति । न चैवमप्रमित्यजनकज-
न्यत्वे परतस्त्वमिति वाच्यम्। आगन्तुकाभावानपेक्षज्ञानसामग्रीजन्यत्वमेव स्वतस्त्वमिति विव-
क्षितत्वात् । तथा च गुणजन्यत्वेन प्रमाया नेश्वरसिद्धिः। भवेदप्येवमिति । ननु पीतः शङ्ख
इत्यत्र विशेषदर्शनेऽपि भ्रमाद्व्यभिचारेण न विशेषदर्शनं भ्रमहेतुः, यत्र वा विशेषदर्शनमपि
भ्रमस्तत्र तज्जन्यज्ञानस्यापि भ्रमत्वान्न विशेषदर्शनं प्रमात्वप्रयोजकम् । मैवम् । यद्विशेषदर्शनं
प्रकाशिका।
इति वाच्यम् । तत्तत्साक्षात्कारे तत्तदवयवानामनुगतत्वाभावाद् यथार्थपरामर्शादेरपि तत्तद्विष-
याननुगमेनाननुगतत्वात् । एतेन विशेष्यवृत्तिविशेषणज्ञानमेव प्रमामात्रेऽनुगतो गुणो ग्राह्यः,
यथार्थज्ञानं वेत्यनित्यप्रमात्वमेव पक्ष इत्यपास्तम् । विषयाननुगमेनाननुगतत्वात् । तथापि
घटप्रमायां घटवृत्तिविशेषणज्ञानं घटाप्रमायां घटावृत्तिविशेषणज्ञानं जनकमिति तत्तत्प्रमात्वत-
त्तदप्रमात्वयोरेव पक्षदृष्टान्तत्वे । एवं विशेषयोः कार्यकारणभावग्रहे शाब्दप्रमायामपि विशेषत
एव कार्यकारणभावग्रहे तदनुरोधादीश्वरसिद्धिरित्यत्र तात्पर्यम्। यद्यपि घटविशेष्यकत्वे सति घटत्व
प्रकारकत्वमित्येव घटप्रमात्वमित्यर्थवशसम्पन्नमेतदुभयमिति न विशिष्टनियामकगुणसिद्धिः, न वा
घटप्रमात्वं जन्यतावच्छेदकं नीलघटत्ववदिति । तथापि समूहालम्बनव्यावृत्तय एकावच्छिन्नापरस्यैव
मकरन्दः।
प्रमात्वावच्छिन्ने कथममुगतहेतुसिद्धिरिति चेन्न । अनित्यप्रमात्वपदेनानित्यसाक्षात्कारिप्रमात्वादे-
रेव विवक्षितत्वात् । तत्र च भूयोऽवयवेन्द्रियसन्निकर्षस्यानुगतहेतुसत्त्वादित्येके । शाब्दप्रमायां
ग्राह्यविशेषस्य वाक्यार्थस्य प्रमा हेतुरिति प्रमासामान्ये ग्राह्यप्रमासामान्यमीश्वरस्यैव गुणः । यदि-
शेषयोरिति न्यायात्। न च ग्राह्यमात्रस्यातिप्रसक्ततया यत्र यद् ग्राह्यं तत्र तत्प्रमा हेतुर्वाच्यः ।
तथा च तद्ग्राह्यप्रमायां 'तद्ग्राह्यप्रमा हेतुरित्यननुगम एवेति वाच्यम्। एवं तत्साक्षात्कारे तदि-
न्द्रियसन्निकर्षो हेतुरिति विशेषेऽप्यननुगमापत्तेः । यदि च विशेषे विशेषस्य प्रयोजकत्वेऽपि सा-
मान्ययोरपि तथात्वं, तदा प्रकृतेऽपि तुल्यमित्यन्ये । स्वाविषयकप्रमाजनकत्वम् गुणत्वम् । स्वा-
२४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
नियमेन दोषैर्भावरूपैरेव भवितव्यम्, न त्वेवम् । विशेषादर्शनादेरभावस्यापि
दोषत्वात् । कथमन्यथा ततः संशयविपर्ययौ । ततस्तदभावो भाव एवेति कथं
स नेष्यते ।
बोधनी ।
दपि-इति । भावात्मनोऽधिकस्यानङ्गीकारो भवेदपीति । कथमन्यथा-इति । विशेषाद-
र्शनस्यादोषत्वे कथं ततो विशेषादर्शनादप्रमात्मकौ संशयविपर्ययौ स्यातामिति वक्रकोटरादेः
शुक्तिकात्वस्य विशेषस्यादर्शने हि तयोरुत्पत्तिरिति । सन्तु तर्ह्यभावा अपि दोषाः ततः किमित्य-
त्राह-ततः-इति । अभावात्मनो दोषस्याभावो भाव एवेति । कथं स भावः प्रमाहेतुर्नेष्यत इति ।
प्रकाशः।
हि भ्रमविरोधि तदभावोऽप्रमाहेतुः । प्रत्यक्षभ्रमे च प्रत्यक्षविशेषदर्शनं विरोधि दिङ्मोहादौ
गौरोऽहमिति भ्रमे च तथा दर्शनात् । तच्च दोषात् तत्र नास्ति, प्रमारूपमेव च विशेषदर्शनं
गुण इति तदभाव एव दोषः ।
ननु विशेषादर्शनं न दोषः, किन्तु विशेषदर्शनप्रतिबन्धकाः पित्तादयो दोषाः, आवश्यक-
त्वात् । न च तेषां नानात्वेन विशेषदर्शनप्रतिबन्धकतयाऽनुगमे लाघवाद्विशेषादर्शनमेव हेतुरिति
वाच्यम् । क्वचित् कश्चिद्दोष इत्यनुगमात् । अन्यथा पित्तादितोऽप्यप्रमा न स्यात्, अननुग-
मात् । पित्ताद्युत्कर्षेण भ्रमोत्कर्षाच्च । पित्तादेरदोषत्वे चं विशेषप्रमैव कुतो न भवति । यदि च
विशेषस्य विशेषान्तरादर्शनात्, तदाऽनवस्था । किञ्च, विशेषदर्शनं न प्रमामात्रे, न वा प्रत्यक्ष-
प्रमायां हेतुः, व्यभिचारात् । तत्रैव तद्धेतुत्वेनानवस्थानाच्च ।
प्रकाशिका ।
प्रमात्वशरीरत्वेन तस्य नार्थवससम्पन्नेतेतिबोध्यम्। प्रत्यक्षविशेषदर्शनमिति। प्रत्यक्षविपरी-
तदर्शनमित्यर्थः। केचित्तु विशेषपदेनात्र व्याप्यविशेषोऽप्युक्तः स च प्रतिबन्धहूपफलोन्नेयः, प्रति-
बन्धकाननुगमस्तु न दोषाय । अत एव शङ्खे प्रत्यक्षे सति श्वैत्ये न पीतत्वारोपः, फालपृष्टत्वप्रत्यक्षे
सति शुक्तौ न रजतत्वारोप इत्याहुः। क्वचित् कश्चिदिति । विशेषस्याप्यननुगतत्वेन स्वयाप्यनुगते-
रेवानुसरणीयत्वादिति भावः। अन्यथेति। यद्यपि विशेषादर्शनमेव दोष इति वादिनोऽत्रेष्टापत्तिः,
तथापि विशेषाप्रमापि पित्तादित एवेत्यभिप्रायेणेदम् । अत एवाग्रे भावाविष्करणं पित्तादेरदोष-
त्वे चेति । भ्रमोत्कर्ष इति । उत्कर्षश्चात्र बहुकालावच्छिन्नसजातीयधारानुवृत्तिलक्षणः ।
मकरन्दः।
विषयकभ्रमजनकत्वञ्च दोषत्वमिति तदुभयं निर्वाह्यम् । एवञ्च तत्तत्प्रमादौ यथार्थपरामर्शत्वादीनां
हेतुत्वप्रहानन्तरं प्रमासामान्यं प्रत्युक्तगुणत्वेन कारणत्वग्रहः । एवं दोषत्वेनापीत्याहुः । विस्त-
रस्तु प्रत्यक्षप्रकाशे । प्रत्यक्षविशेषदर्शनमिति । प्रत्यक्षविपरीतदर्शनमित्यर्थः ।
टिप्पणी ।
क्वचित् कश्चिद् दोष इति । क्वचिद् भ्रमविशेषजातीये कश्चिद् दोषजातीयः कारणमेतावदेवा-
नुगमस्येष्टत्वात् । तवापि विशेषदर्शनस्य व्याप्यव्यापकभेदेनैकरूपतायाः सर्वत्रासम्भवादित्यर्थः ।
अप्रमा न स्यादिति । विशेषप्रमा न स्यात्, तत्र विशेषादर्शनस्यानवस्थाभयेनाहेतुत्व
स्यानुपदं वक्ष्यमाणत्वात् । एतेन विशेषादर्शनहेतुतामते पित्तादेरहेतुत्वाद्विपारितिरिति शङ्का
निरस्ता। उक्तपित्तादेर्हेतुत्वं व्यवस्थापयति । पित्ताद्युत्कर्षेणेति । यस्योत्कर्षेण यस्योत्कर्षः,
तत् तत्कारणम्, अकारणोत्कर्षस्य प्रयोजकत्वेऽतिप्रसङ्गादिति भावः । पित्तादेर्भ्रमकारणत्वसाधक-
मनिष्टप्रसङ्गमाह । पित्तादेरदोषत्वे चेत्यादि । दोषो हि प्रमाप्रतिबन्धको भ्रतजनकर्श, स चेद्
विशेषादर्शनाभावस्तदानवस्थेत्याह । यदीत्यादि ।
द्वितीयस्तबके ] प्रमाश्वतस्त्वखण्डनम् । २१५
स्यादेतत् । शब्दे तावद्विप्रलिप्सादयो भावा एव दोषाः, ततस्तदभावे स्वत
बोधनी ।
अस्त्वेव प्रत्यक्षे विशेषादर्शनादेरभावस्य दोषत्वं, न तु प्रमाणान्तर इत्याह-स्यादेतत्
इति । शब्दे तावद्भावात्मकदोषाभावे सति स्वत एवातिरिक्तभावानापेक्षाज् ज्ञानकरणादेव शब्दा-
त्प्रमोत्पद्यत इति दृष्टम् । शब्दे तावदेवम्, अनुमानादावपि तथा द्रष्टव्यमिति तावच्छब्दस्यार्थः ।
प्रकाशः ।
मैवम् । प्रमामात्राहितृत्वेऽपि संशयविपर्ययोत्तरप्रमायां तस्य हेतुत्वात् । तत्र विशेषाद-
र्शनस्य दोषत्वेनान्यत्रापि तथात्वात् । पित्ताद्युत्कर्षस्यापि भूयोविशेषादर्शनप्रतिबन्धकत्वेनान्यथा-
सिद्धत्वात् ।
ननु प्रत्यक्षप्रमादौ गुणजन्यत्वेऽपि वेदे भ्रमाद्यभावचतुष्टयं प्रमाहेतुः । लोके भ्रमाद्यभाव
एव प्रमोत्पत्तेः । न तु वक्तृवाक्यार्थयथार्थज्ञानवरदादिगुण इत्याह-
स्यादेतदिति । लिङ्गसादृश्यादिश्रभरूपदोषाभावमात्राज्ञानुमित्यादिः प्रमेति लिङ्गसादृ-
श्यादियथार्थज्ञानमपि गुणस्तद्धेतुरिति शाब्दप्रमायामपि दोषाभावे सति यथार्थवाक्यार्थज्ञानं
प्रकाशिका ।
संशयविपर्ययोत्तरप्रमायामिति । विशेषादर्शनप्रयोज्यसंशयविपर्ययोत्तरप्रमायामित्यर्थः ।
तेन नान्धकारकालीनघटसंशयोत्तरप्रत्यक्षे आलोकममवधानमात्रजन्ये व्यभिचारः। ननु संशयोत्तरं
यत्र न प्रत्यक्षं तत्र संशयानुनुत्तरप्रत्यक्षसामग्रीसत्त्वे तत्प्रत्यक्षमेव कुतो न जायते तदसत्त्व
तत एव न प्रत्यक्षमिति न विशेषदर्शनं कारणम् कार्यव्यतिरेकप्रयोजकव्यतिरेकाप्रतियोगित्वादिति
चेत् । न । तदनुत्तरकालीनप्रत्यक्षं प्रति तदनुत्तरकालीनस्य कारणतया तदभावादेव तादृशप्रत्यक्षसां-
मग्रीविरहात् । न च विशिष्टाभाव एव विशेषादर्शनविशिष्टग्राह्यसंशयाभावरूपः कारणमस्तु न तु
विशेपदर्शनं कारणम् । अत एव न सिद्धयुत्तरानुमितौ सिषाधयिषाविशेषसामग्रीति वाच्यम् ।
विशेषादर्शनोत्तरजायमानप्रत्यक्षस्य विशेषविषयत्वनियमेन तत्र विशेषणज्ञानतया विशेषादर्शनस्य
जनकत्वे विशेषरूपेणापि तस्यैव कारणता कल्प्यते तद्धर्मिणः कारणत्वकल्पनात् । अत एव निश्चयो-
त्तरसंशयं प्रति प्रामाण्यसंशयः कारणं कोटिज्ञानत्वेन तत्र तस्य कारणतावश्यकत्वात् , सिषाधयिषा
तु न केनापि रूपेणानुमिति प्रति कारणत्वेन क्लृप्तेति न तत् प्रतिवन्दिरिति दिक् । ननु निर्हेतुकं
मूलेऽभिधानं स्वत इति न युक्तमात्माश्रयादतो व्याचष्टे । ननु प्रत्यक्षप्रमादाविति । शाब्द-
प्रमायां गुणकारणत्वापेक्षायामनुमितिप्रमादौ तदुपपादनमर्थान्तरमत आह । लिङ्गेति ।
मकरन्दः ।
संशयविपर्ययोत्तरेति । यद्यपि संशयोत्तरप्रत्यक्षमात्रे विशेषदर्शनं न हेतुः, अन्धकारे
घटसंशयोत्तरप्रत्यक्षस्य तद्दिनाऽप्यालोकसमवधानमात्रेणैवोपपत्तेः । तथापि यत्र विशेषादर्शनादि
दोषाधीनः संशयस्तदुत्तरप्रत्यक्षे तस्य हेतुत्वम् । उक्तस्थले च व्यञ्जकाभावाधीनः स इति भावः ।
ननु तत्रापि विशेषदर्शनं न हेतुः, संशयानुत्तरप्रत्यक्षसामग्रीसत्त्वे तदुत्पत्त्यापत्तेः । तदसत्त्वे तद्व्य
तिरेकादेव तद्व्यतिरेक इति किं विशेषसामग्र्यन्तरकल्पनया ? । अत एव सिद्धयुत्तरानुमितित्वा-
वच्छिन्ने सिषाधयिषा न विशेषसामग्री, किन्तु तद्विरहविशिष्टसिद्धयभावः सामान्यसामग्री । तद्
भावादेव तदा नानुमितिरिति चेत् । तर्हि तद्वदेव विशेषादर्शनविरहविशिष्टसंशयाभावः सामान्य-
सामग्रीत्यत्रैव तात्पर्यमित्याहुः । विस्तरस्त्वनुमानप्रत्यक्षप्रकाशयोरनुसन्धेयः ।
लिङ्गसादृश्येति । यद्यपि परामर्शादिरूपसामान्यसामग्रीविरहादेव तत्र नानुमित्यादिः,
२१६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१ कारिकाव्याख्यायां
एव शाब्दी प्रमेति चेन्न । अनुमानादौ लिङ्गविपर्यासादीनां भावानामपि दोषत्वे
तदभावमात्रेण प्रमाऽनुत्पत्तेः । अन्यत्र यथा तथाऽस्तु, शब्दे तु विप्रलिप्सार्य-
भावे वक्तृगुणापेक्षा नास्तीति चेन्न । गुणाभावे तदप्रामाण्यस्य वक्तृदोषापेक्षा
नास्तीति विपर्ययस्यापि सुवचत्वात् । अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेकौ
बोधनी ।
न-इति । अनुमाने लिङ्गविषयविपर्यासविरुद्धत्वादीनां भावानां दोषत्वे सत्त्वेऽपीत्यपिशब्दो भिन्न-
क्रमः, अवधारणे वा । भावरूपदोषाभावमात्रेण लैङ्गिकज्ञानहेतोर्हृत्संशचाराद् दृष्टव्यभिचारालि-
ङ्गाद्य्याप्तिलक्षणगुणाभावे प्रमाद्यनुत्पत्तेस्तवापीष्टत्वात् । न च व्याप्तिरप्यनुमितिज्ञानमात्रे हेतुर्न प्रमाया
इति युक्तम् । व्याप्त्यभावेऽपि मैत्रीतनयत्वादेवानुमितिज्ञानोत्पत्तेः । अत्रादिशब्दाभ्यामर्थापत्तिमनु-
पपद्यमानविपर्यासञ्च संगृह्णाति । अन्यत्र-इति । अनुमानादावतिरिक्तभावापेक्षाऽस्तु मा वा, न हि
नस्तत्र निर्भरः, शब्दे तु दोषाभावे सत्यपि न स्वतः प्रम्रोत्पत्तौ गुणापेक्षाऽस्तीति नः समीहित
वेदप्रामाण्योपयोगादिति । तदेतदनिष्टप्रसङ्गमुद्भाव्य शङ्कितं, तत्समान्धिमन्त्रापि समीकुर्वन्
परिहरति—गुणाभाव इति तुल्यत्वादित्यन्तेन । तर्हि पौरुषेयवाक्ये गुणान्वयव्यतिरेकदर्शनात्
तदधीनमस्तु प्रामाण्यम्, अपौरुषेये तु वेदे तदसम्भवादोषाभावमात्राधीनं प्रामाण्यमङ्गीकर्त्तव्यमि-
प्रकाशः ।
गुणे हेतुरित्याह । अनुमानादाविति । ननु यथार्थवाक्यार्थज्ञानादौ गुणे सत्यपि करणापा-
टवाद् यत्रान्यमभिधित्सिते अन्यद् ब्रूते तत्र वाक्यं न प्रमाणम्, दोषाभावस्य तु प्रमाहेतुत्वे
करणापाटवान्न सोऽस्तीति तत्र न प्रामाण्यमुपपद्यते इति शङ्कते । अन्यत्रेति । वक्तृदोषे
सत्यपि भ्रान्तविप्रलम्भकवाक्ये संवादात् प्रामाण्यदर्शनाद्दोषोऽपि नाऽप्रामाण्यप्रयोजकः ।
तात्पर्यविषये त्वप्रामाण्यमेवेति प्रामाण्येऽपि तुल्यमिति परिहरति । गुणाभाव इति ।
प्रकाशिका ।
तथा च दृष्टान्तार्थ तदुपपादनमिति भावः । न च लिङ्गादिज्ञानाभावदशायां सामान्यसामग्रीविर-
हादेव न प्रमेति वाच्यम् । एवं सति यत्र सामान्यमित्यादिन्यायेन यथार्थपरामर्शादेव प्रमाहे-
तुत्वे सिद्धेऽनुमित्यादिदृष्टान्तेन शाब्देऽपि गुणजन्यत्वमुपपादितमेवेति शङ्खैवेयं तुच्छेत्यतस्तां
दीपयति । ननु यथार्थेति । तात्पर्थ्यविषये त्विति । यद्यपि न भ्रान्तप्रतारकस्थले तात्प-
र्यविषयघटसत्तांशे प्रामाण्यं तथाप्यन्यथानुबुद्धमन्यथा बोधयामीति यत्तत्र तात्पर्यं तद्विषयीभूतदु-
ग्धांशेऽप्रामाण्यमस्त्येवेति भावः। प्रामाण्येऽपि तुल्यमिति । यद्यपि करणापाटवस्थले तात्पर्यविषये-
न प्रामाण्यं तात्पर्यस्यैवाभावादिति न तौल्यार्थः । तथापि भ्रान्तप्रतारकस्थलेऽपि नाप्रमाजनकत्वं व-
स्तुत इति । यद्युपनीतभानस्थलेनैव पूर्वग्रन्थे मयाप्येवमुपगन्तव्यमिति तुल्यार्थः, वस्तुतः करणापा-
टवस्थले प्रकृतवाक्यार्थयथार्थज्ञानाभावादेवाप्रामाण्यं भ्रान्तप्रतारकवाक्यस्थले चाहार्यसंसर्गज्ञानस्यैव
यथार्थस्य सत्त्वात् प्रामाण्यमित्यभिसन्धिः । ननु युज्यतां तथैव विभाग इत्युपेक्षाज्ञानादपि प्रवृत्ति-
मकरन्दः ।
तथापि यत्सामान्ये यत्सामान्यमिति न्यायात् प्रमात्वस्यानुमित्यादिविशेषे सत्यपरामर्शादिविशेषस्य
हेतुत्वमिति भावः । तात्पर्यविषये त्विति । अघटे घटत्वं तत्तात्पर्यविषयस्तत्र च प्रमा नो-
त्पन्नेवेत्यर्थः । प्रामाण्येऽपीति । यद्यपि तात्पर्यविषयीभूतेऽर्थे करणापाटवस्थलेऽपि प्रामाण्य-
मेवेति न तौल्यार्थस्तत्र प्रामाण्याभावात्, तथापि प्रकृतवाक्यार्थगोचरयथार्थज्ञानलक्षणो गुण-
एव तत्र नास्तीति भावः ।
३. तृतीय स्तबक: बौद्ध प्रत्यक्ष-अनुमान खण्डन एवं ज्ञान-प्रामाण्य
द्वितीयस्तवके ] प्रामाण्यस्वतस्त्वखण्डनम् । २१७
स्त इति चेन्न । प्रामाण्यं प्रत्यपि गुणानां तयोः सत्त्वात् । पौरुषेयविषये इय-
मस्तु व्यवस्था, अपौरुषेये तु दोषनिवृत्त्यैव प्रामाण्यमिति चेन्न । गुणनिवृत्त्याऽ-
प्रामाण्यस्यापि सम्भवात् । तस्या अप्रामाण्यं प्रति सामर्थ्यं नोपलब्धमिति चेत् ।
दोषनिवृत्तेः प्रामाण्यं प्रति क्व सामर्थ्यमुपलब्धम् ? । लोकवचसीति चेत् ।
तुल्यम् । तदप्रामाण्ये दोषा एव कारणं, गुणनिवृत्तिस्त्ववर्जनीयसिद्धसन्निधिरिति
चेत् । प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत् । गुणानां दोषोत्सारणप्रयुक्तः सन्नि-
धिरिति चेद्, दोषाणामपि गुणोत्सारणप्रयुक्त इत्यस्तु । निःस्वभावत्वमेवमपौरु-
षेयस्य वेदस्य स्यादिति चेत्, आत्मानमुपालभस्व । तस्माद्यथा द्वेषरागाभावा-
विनाभावेऽपि रागद्वेषयोरनुविधाननियमात् प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषका-
रणकत्वं, न तु निवृत्तिप्रयत्नो द्वेषहेतुकः, प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुवि-
बोधनी ।
र् ह-पौरुषेय-इति । तदेतत्परिहरन् प्रसङ्ग तावदाह-गुणनिवृत्ति-इति । तत्समाधि-
माशङ्क्य साम्यापादनेन परिहरति-तस्याः-इति । यदि लोकवचसि दोषनिवृत्तेः प्रामाण्ये
हेतुत्वमुपलब्धं तर्हि गुणनिवृत्तेरप्रामाण्यहेतुत्वमपि तत्रैवोपलब्धमिति शङ्कोत्तराभ्यामाह-
लोक-इति । ननु तस्य लोकवचसऽप्रामाण्ये दोषा एव कारणमनन्यथासिद्धान्वयव्यतिरेकत्वात्,
गुणनिवृत्तिस्तु विरोधिदोषसंनिधाननान्तरीयकेत्याह -तदप्रामाण्य-इति । तर्हि प्रामाण्यकार-
णेषु गुणेषु सत्सु तद्विरोधिनां दोषाणां निवृत्तिरप्यवर्जनीयसंनिधिरिति स्यादित्याह-प्रामाण्यं
प्रति-इति । यदि गुणानामन्यत्रोपक्षयेण प्रमायामहेतुत्वं तर्हि दोषाणामपि तथात्वे नाप्र-
मायामहेतुत्वं भवेदिति शङ्कोत्तराभ्यामाह -गुणानाम्-इति । ननु प्रामाण्याप्रामाण्योरथैवं
वक्तृगुणदोषाधीनत्वे सति वक्तृविधुरस्य वेदस्योभयोरप्यभावेन प्रामाण्याप्रामाण्योरन्यतरस्व-
भावत्वमपि न स्यादित्याह - निःस्वभावत्वम् इति । आत्मानम् इति । अपौरुषेयं वेद-
मातिष्ठमानमिति शेषः, न तु गुणवद्वक्तृत्वेन वेदस्य प्रामाण्यमङ्गीकुर्वतोऽस्मानिति भावः ।
उक्तमर्थं दृष्टान्तमुखेन विशदयन्नुपसंहरति-तस्मात्-इति । द्वेषरागाभावाविनाभावेऽपीत्यस्य
प्रकाशः ।
निःस्वभावत्वमिति । वेदे प्रमाणत्वाप्रमाणत्वप्रयोजकगुणदोषयोरभावादित्यर्थः । तस्मादिति ।
यथा प्रवृत्तौ द्वेषाभावहेतुकत्वे निवृत्तौ रागाभावहेतुकत्वे सत्यपि उपेक्षाज्ञानादपि प्रवृत्तिनिवृत्ती स्या-
तामिति रागद्वेषयोः प्रवृत्तिनिवृत्तिहेतुत्वमेकैकभावाऽन्यथासिद्ध., तथा प्रमाऽप्रमयोरपि गुण-
दोषौ, न तु दोषाभावगुणाभावावित्यर्थः ।
प्रकाशिका ।
प्रसङ्गेन पूरयित्वा व्याचष्टे । यथा प्रवृत्ताविति । न च तत्रोक्तातिप्रसङ्गात्तथास्तु प्रकृते तु न
किञ्चिदनिष्टमिति वाच्यम् । प्रकृतेऽपि सुषुप्तिदशायामेव प्रमाद्युत्पत्तिप्रसङ्गस्यानिष्टत्वात् परामर्शो-
द्बोध सामान्यसामग्रीत्वे तद्विशेषस्यैव प्रमाहेतुत्वादित्युक्तत्वात् । रागद्वेषयोरिति । न च प्र-
वृत्त्यभाव एव निवृत्तिरिति नाक्तविभागसङ्गतिरिति वाच्यम् । वैपरीत्यापत्तेः । न च सुषुप्तिदशायाम-
प्येवं प्रवृत्तिप्रसङ्गे तत्कार्यचेष्टापत्तिरिति वाच्यम् । शरीरमनःसंयोगाभावेनैव तद्विरहोपपत्तेः । न
चैवं सुषुप्तिदशायां प्रवृत्तोऽयमिति व्यवहारप्रसङ्ग इति वाच्यम् । निवृत्तव्यवहारस्यापि तदाभावेन
मकरन्दः ।
रागद्वेषयोरिति । अत्रेदं चिन्त्यम् । प्रवृत्तिविरह एव निवृत्तिरिति न प्रयत्नद्वैविध्यं,
मानाभावात् । न च वैपरीत्यापत्तिः । सुषुप्तिदशायामपि निवृत्तिविरहस्य सत्त्वेन प्रवृत्तिह्याप्य-
२८ न्या० कु०
२१८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
धाने द्वेषाभावहेतुक इति विभागो युज्यते, विशेषाभावात्, तथा प्रकृतेऽपि ।
तथापि वेदानाम्पौरुषेयत्वे सिद्धे, मपेतवक्तृदोषत्वादेव प्रामाण्यं सेत्स्यति, ततः
सिद्धे प्रामाण्ये गुणाभावेऽपि तदिति दोषाभाव एव हेतुरकारणं गुणा इति चेन्न ।
अपेतवक्तृगुणत्वेन सत्प्रतिपक्षत्वप्रसङ्गात् । स्वत एव प्रामाण्यनिश्चयः, किन्तु
शङ्कामात्रमनेनापनीयते दोषनिबन्धनत्वात्तस्य तदभावेऽभावात्, अतो नेदमनु-
बोधनी ।
प्रवृत्तिनिवृत्तप्रयत्नयोरित्यनेन संबन्धः, न त्वित्यस्य युज्यते इत्यनेन । विशेषाभावादिति । द्वेषानु
विधायिनो निवृत्तिप्रयत्नाद्रागानुविधायिनः प्रवृत्तिप्रयत्नस्यैतदनुविधायित्वे विशेषाभावादिति । न
चात्र द्वेषाभाव एव प्रवृत्तेः कारणमिति युक्तम्, उपेक्षाज्ञानादपि प्रवृत्तिप्रसङ्गात् । तथा प्रकृते
प्रामाण्यविषयेऽपि दोषगुणाभावाविनाभावेऽपि प्रामाण्याप्रामाण्योरन्यथासिद्धगुणदोषानुविधान-
नियमात्तद्धेतुक्त्वम् । न त्वप्रमा दोषहेतुका, प्रमा तु सत्यपि गुणानुविधाने दोषाभावहेतुकेति-
विभागो युक्त इति ।
नन्वस्तु गुणानुविधानं प्रामाण्यस्य तथापि न तद्धैतुकत्वमित्याह—तथापि—इति ।
वेदानां प्रामाण्यमपौरुषेयत्वं च तावत्सिद्धं तेन दोषाभावमात्रेण प्रामाण्यं सेत्स्यतीति सिद्ध्य-
त्येव ततो गुणाभावेऽपि दोषाभावादेव वेदे तत्प्रामाण्यं दृष्टमिति व्यभिचारादकारणं गुणाः-
सर्वत्र दोषाभावस्तु कारणमव्यभिचारादिति । न-इति । न तावद्यापि वेदानाम्पौरुषेयत्वेन
प्रामाण्यमिति सिद्धं, येन तत्र गुणव्यभिचारो निर्दिश्येत । लोकाधीननिर्णयो हि वेदो लोके चान्य-
भिचाराद् गुणः प्रामाण्यहेतुरिति स्थितम्, तत्र यदि वेदस्यापौरुषेयत्वमाश्रित्य दोषाभावात् प्रामा-
ण्यमुच्येत तदा गुणाभावादप्रामाण्यमपि वक्तुं शक्यत इति । स्वतः-इति । न तावद्वेदानां
प्रामाण्यमपेतदोषवक्तृत्वेनानुमीयते, स्वतो बोधजनकत्वेन निश्चिते प्रामाण्ये हेत्वन्तरादप्रामाण्य-
शङ्कायां तन्निराकरणमात्रमप्रामाण्यकारणदोषाभावावधारणेन क्रियते । तदाहुः—
तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धौ प्रमाणता ।
अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते । ( श्लो० वा, ) इति ।
प्रकाशः ।
नन्वन्यत्र गुणस्य प्रमाहेतुत्वेऽपि वेदस्यापौरुषेयतया वक्तृगुणाभावाद्दोषाभावमात्रप्रयुक्तमेव
प्रामाण्यमिति प्रामाण्ये गुणस्य व्यभिचाराद् न हेतुत्वं, किन्तु दोषाभावस्यैवेत्याह । तथा
पीति । सिद्धिर्ज्ञप्तिः । सिद्धेः=निश्चिते । वेदाः प्रमाणम् , अपेतवक्तृदोषत्वादित्यनुमानादि
त्यर्थः । अत्र वेदा न प्रमाणम् , अपेतवक्तृगुणत्वादिति सत्प्रतिपक्षमाह । अपेतेति । ज्ञान-
ग्राहकादेव प्रमात्वं स्वीक्रियते, दोषाधीना तु शङ्का अपेतवक्तृदोषत्वादेव निरस्येत्याह ।
स्वत एवेति । तथापि गुणाभावहेतुकोऽप्रमाण्यसंशयस्तदवस्थ एवेत्याह । गुणनिवृत्तोति ।
तस्या इति । दोषसहितगुणनिवृत्तेरेवाऽप्रमात्वहेतुत्वादित्यर्थः । दोषेति । गुणसहितदोषनिवृ-
त्तेरेव प्रमात्वप्रयोजकत्वादित्यर्थः ।
ननु तथापि शुकादिवाक्यं भ्रान्तप्रतारकवाक्यं च संवादि कथं प्रमाणं, गुणाजन्यत्वात् ।
मकरन्दः ।
चेष्टादिकार्योत्थापत्तेः । न च तदा निवृत्तिरेवेति वाच्यम्, तदा तत्कारणद्वेषाभावेन तदभावात्
द्वेषाभावश्च तत्कारणदुःखसाधनत्वज्ञानाभावादिति ॥
द्वितीयस्तबके ] प्रामाण्यस्वतस्त्वखण्डनम् । २१६
मानवत् सप्रतिसाधनोकर्तुमुचितमिति चेत् । न । गुणनिवृत्तिनिबन्धनायाः
शङ्कायाः सुलभत्वात् । तस्याः केवलाया अप्रामाण्यं प्रत्यनङ्गत्वान्न शङ्केति चेद्,
बोधनी ।
ततो नेदमपेतवक्तृदोषत्वं सप्रतिसाधनीकर्तुं युक्तमिति । न-इति । दोषाभावे तद्दोषनिबन्ध-
नाप्रामाण्यशङ्कानिवृत्तावपि प्रामाण्यहेतुगुणनिवृत्तिनिबन्धनायास्तस्याः स्वस्यत्वात् । न हि स्वतः
प्रामाण्यनिश्चय इत्यग्रे निवेदयिष्याम इति भावः । तस्या-इति । न तावद्दोषसंसर्गमन्तरेण
प्रकाशः ।
धूमभ्रमाद्धिमत्येव वह्नयनुमितिर्वा कथं प्रमा, यथार्थलिङ्गज्ञानाजन्यत्वात् । न च वह्नयन्तरमेव
तद्विषयः । प्रत्यभिज्ञानात् । गोत्वायैकव्यक्तिके तदभावाच्च । उच्यते । शुकादिवाक्ये भ्रान्त-
प्रतारकवाक्ये च प्रमाणशब्दत्वेनातोक्तत्वाद्देववदीश्वरस्यैव यथार्थवाक्यार्थज्ञानं गुणो हेतुः, तस्य
कार्यमात्रकर्तृत्वात् । शुकादिवाक्ये वेदतुल्यतया दोषाभावादिनाऽपि मन्तव्यत्वात् । न चैवं
शब्दाभासोच्छेदः, तस्यापीश्वरकर्तृकत्वादिति वाच्यम् । तद्वाक्यार्थस्यासत्त्वेनेश्वरज्ञानाविषय-
त्वात् । एवं लिङ्गाभासजन्यप्रमायामपीश्वरस्यैव यथार्थलिङ्गज्ञानं गुणः ।
एवं प्रमाया गुणजन्यतया शाब्दप्रमाया अपि गुणजन्यतया वेदे वक्तृन्तरस्याभावात् तदा-
प्रकाशिका ।
तुल्यत्वात् । ईश्वरस्यैवेति । भ्रान्तप्रतारकवाक्य आहार्यसंसर्गज्ञानमेव यथार्थं गुणः सम्भवति
तथापि शुकादिवाक्यसाधारण्यार्थमिदमेवोक्तम् । केचित्तु भ्रान्तप्रतारकस्यैव वाक्यं भ्रान्तप्रतारक-
वाक्यं तथा च भ्रान्त एवान्यस्मिन् वक्तव्ये यत्रान्यद् वदति तत्संवादिवाक्यमत्र तत्पदेनोक्तमित्याहुः।
न च भ्रान्तप्रतारकवाक्ये गुणसत्त्वेऽपि दोषसत्त्वात् कथं प्रमेति वाच्यम् । भ्रमस्य भिन्नविषय-
त्वात् । प्रतारणायाश्च सद्वस्तुप्रतिपादनेच्छायास्तत्राभावात् । एवं लिङ्गाभासेति । अत्रापि
शुकादिवाक्यसाधारण्यार्थमीश्वरज्ञानानुधरणम् । वस्तुतः पक्षतावच्छेदकविरोधिसाध्यनिष्ठप्रकृत-
हेतुप्रतियोगिकव्यापकतानिषयत्वमेव परामर्शप्रयोजकमिति कूटलिङ्गपरामर्श एव तत्र गुणः । अत
एवायथार्थरूपपरामर्परूपदोषसत्त्वात् कथं प्रमेति निरस्तम् । निरुक्तयथा विरोघिन एवायाथार्थ-
याप्रमाप्रयोजकत्वात् । प्रकृते च तदभावादितिदिक । शाब्दप्रमाया अपीति । यद्यपि शाब्दप्र-
मकरन्दः ।
भ्रान्तप्रतारकवाक्य इति । अत्राहार्यारोपं विना प्रतारणाया अभावात् स एव विषया-
बाधात् प्रमारूप इति तमादाय यद्यपि गुणजन्यत्वमप्रत्यूहं तथापि समाधिसौकर्यादेतदुक्तम् ।
यद्वा, भ्रान्तप्रतारकस्येव वाक्यं भ्रान्तप्रकारकवाक्यं, तथा च बाधितमन्यदवगत्या-
न्यदबाधितं यन्न दैववशाद् ब्रूते, तत्र भगवदनुद्देशेर्गुणत्वमिति वयं पश्यामः । अत एवो-
क्तगुणजन्यत्वेऽपि भ्रमादिदोषजन्यत्वादप्रामाण्यमपि स्यादित्यपास्तम् । भ्रमस्य भिन्नविषयत्वेन
तद्वाक्याजनकत्वात् , प्रतारणायाश्चाभावात् । केचित्तु विप्रलिप्सा विसंवादिप्रवृत्तिजनकेच्छा,
टिप्पणी ।
वह्नयन्तरमेव तद्विषय इति । धूमसंसर्ग्यैव वह्निर्धूमलिङ्गकानुमितौ विषयः स च
वह्निस्तत्र नास्त्येव यश्चास्ति स धूमसंसर्गिबह्नेर्विभिन्न एवेत्यर्थः । यद्यपि वह्नित्वेन गृही-
तवह्निव्याप्तिकस्य लिङ्गस्य वह्निमास्यानुमितौ सामर्थ्यम् तथा च तत्रत्यवह्निभाने न क्षतिः ।
तथाप्येतद्दूरे सत्येव, यः पूर्वं धूमसम्बन्धित्वेन गृहीतः, तस्यैव धूलिपटलेन धूमत्वेन
गृहीतेनानुमितौ भाने तद्वहेर्धूमसंबन्धिनिभिन्नत्वस्य प्रत्यभिज्ञानबाधितत्वादित्युत्तरं सौक-
र्यार्थमाह । प्रत्यभिज्ञानेति । विशिष्टबुद्धौ विशेषणज्ञानस्य हि हेतुत्वमनभ्युपगम्येदम् ।
२२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१ कारिकाव्याख्यायां
दोषनिवृत्तेरपि केवलायाः प्रामाण्यं प्रत्यनङ्गत्वान्न तया शङ्कानिवृत्तिरिति
तुल्यमिति ।
एवं प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्य
बोधनी ।
केवलाया गुणनिवृत्तेप्रामाण्यहेतुत्वं लोके दृष्टं, न चापौरुषेये दोषः सम्भवति । तेन गुणनिवृत्ति-
मात्रेण नाप्रामाण्यशङ्केति । दोषनिवृत्तेरपि इति । गुणसहिताया एव दोषव्यावृत्तेः प्रामा-
ण्यहेतुत्वं लोके दृष्टमिति न दोषनिवृत्तिमात्रेणाप्रामाण्यशङ्का निवर्त्तत इति ।
यच्च ज्ञानानां स्वरूपात्स्वग्राहकाद्वा प्रामाण्यं ज्ञायते नान्यस्माद् गुणसंवादादिज्ञानादिति
स्वतःप्रामाण्यमुक्तं परैस्तदपि निराकुर्वन्नुपसंहरञ् ज्ञप्तिरपि परत इत्याह। एवम् इति। स्वविष-
प्रकाशः।
श्रयेश्वरसिद्धिरित्युक्तम् । सम्प्रति प्रमात्वग्रहोऽपि न स्वतः, अपि तु परत इति वैदिकप्रमाया
अपि तत्त्वमातोक्तवाक्यजन्यत्वेन ग्राह्यमिति ततोऽपीश्वरः सिद्ध्यतीत्याह—
एवमिति । अत्र यद्यपि ज्ञानप्रामाण्यं ज्ञानग्राहकसामग्रीग्राह्यं न वेति न संशयः, परतः
पक्षेऽपि ज्ञानस्यापि पक्षतया प्रमात्वानुमितौ ज्ञानग्राहकत्वात्, अप्रामाण्यस्यापि स्वतो ग्राह्यत्वा-
पत्तेश्च । तथापि तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यं न वेति संशयः । स्वतः पक्षे प्रामाण्यवत
एव ज्ञानस्य ग्रहात् । परतः पक्षे ज्ञात एव ज्ञानेऽनुमित्या प्रामाण्यग्रहात् । तत्र तेनैव प्रामाण्य-
ग्रह इति प्राभाकराः । ज्ञानस्यातीन्द्रियतया तदनुमित्या तद्ग्रह इति भाट्टाः । मनसैव ज्ञानस्व-
रूपयत् तत्प्रामाण्यग्रह इति मुरारिमिश्राः । त्रितयसाधारणं च स्वतस्त्वं निरुक्तमेव ।
पूर्वपक्षस्तु, यद्यपि विशेष्यावृत्त्यप्रकारकत्वम्, अगृहीतग्राह्यत्वं वा, प्रभाकरपक्षे स्मृत्यन्यज्ञा-
नत्वं विशिष्टज्ञानत्वं वा प्रामाण्यं नानुव्यवसायग्राह्यम्, विशेषणज्ञानं विना विशिष्टज्ञानाभावात् ।
तथापि तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यं ग्राह्यम्, निष्कम्प-प्रवृत्त्यर्थत्वाल्लाघवाच्च । तच्च
ज्ञानग्राहकसामग्रीग्राह्यमेव । तथा हि । विशेष्ये तद्धर्मवत्त्वं तत्प्रकारकत्वं च व्यवसायस्यानु-
प्रकाशिका ।
यायां यथार्थयोग्यताज्ञानमेव गुणः सम्भवतीति न तदर्थं वक्तुरपेक्षा वेदे, तथापि विशेष्यवृत्तित्वि-
शेषणज्ञानं गुणः प्रमासामान्यप्रयोजक इत्यभावत्वप्रकारकप्रथमाभावप्रमायामीश्वरीयमभावत्वज्ञानं
तदंशप्रमात्वनिष्पत्तये गुण इत्याशयेनेदमुक्तम् । सम्प्रतीति । तथा च प्रमायाः परतन्त्रत्वा-
दिति कारिकायां परतन्त्रत्वमुत्पत्तिज्ञप्त्यो विवक्षितमिति ध्येयम् । तज्ज्ञानविषयकेति । पक्षश्च ज्ञान-
प्रामाण्यमित्यनुषज्यते । अनुव्यवसायेन गृह्यत इति । तज्ज्ञानविषयकसमानाधिकरणसमानका-
मकरन्दः ।
यापि यथार्थैव दोषः, तादृशी च तत्र नास्त्येवेत्याहुः । वस्तुतो गुणविरह एव दोषः, स च तत्र
नास्तीति । अत एव लिङ्गाभासजन्यप्रमायामीश्वरयथार्थलिङ्गज्ञानजन्यत्वेऽप्ययथार्थलिङ्गज्ञानरूप-
दोषजन्यतया व्याप्तावकाश एवं भ्रमत्वमपि स्यादित्यपास्तम् । एतदपि सम्प्रदायानुरोधादुक्तम् ।
वस्तुतोऽसङ्कीर्णबाधस्थले बाधानवतारकाले यथार्थपरामर्शाद्यद्यप्यथार्थानुमित्युत्पत्तेर्बाधितत्वप्रमा
गुणः, तद्भ्रमो दोषः । शब्दे च वाक्यार्थभ्रमो दोषस्तत्प्रमा गुणः, योग्यताभ्रमो दोषस्तत्प्रमा-
गुण इति वा विवक्षितमिति सर्वमवदातम् ।
तज्ज्ञानविषयकेति । पक्षश्च ज्ञानप्रामाण्यमित्यनुषज्यते प्रत्यक्षाकाशे चैतदनुसन्धेयम् ।
टिप्पणी ।
तत्र तेनैवेति । ज्ञानस्यातीन्द्रियेति । ज्ञानत्वेन ज्ञाततात्वे सामान्यतो व्याप्तिज्ञानादेव
तज्ज्ञानानुमितिरिति कारणीभूतज्ञाने तज्ज्ञानस्य विषयत्वान्न निरुक्तस्वतस्त्वानुपपत्तिरिति
भावः । व्यवसायस्यानुव्यवसायेनात । ज्ञानविषयकज्ञानेनेत्यर्थः । तेन गुरुमतस्यापि
द्वितीयस्तबके ] प्रामाण्यपरतस्त्वोपपादनम् । २२१
बोधनी ।
यनान्तरीयस्यार्थक्रियादेः कारणगुणस्य वा विज्ञानान्निश्चितप्रामाण्यैः प्रवर्त्तकज्ञानैः सह संजातीय-
त्वानुसंधानमभ्यासद्दशापत्तिः, तद्दशापन्नानां ज्ञानानामनंतरेणाप्य ऽक्रियादिविज्ञानं तजातीयानुस-
न्धानादेव प्रामाण्यं निश्चीयते, तेन तत्र संशयिकत्वमसिद्धं भवेदित्यत उक्तम्-अनभ्यासदशा-
याम्-इति। न च व्यभिचारव्यावर्त्तनायैव हेतोर्विशेषणम्। रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वा-
दित्युक्तानसिद्धिपरिहारार्थमपि दृष्टत्वादिति। तज्जातीयत्वानुसंधानदशायां हि जाते ज्ञानेऽपि निश्चि-
तेऽपि तत्स्वरूपे प्रामाण्यं प्रति संशेरते ज्ञातारः किमिदं प्रमाणमप्रमाणं वेति। तस्माज् ज्ञानस्वरू-
पाद् स्वग्राहकाद्वा न प्रामाण्यनिश्चयः, किन्तु परतोऽर्थक्रियादिविज्ञानाद्, यथैवाप्रामाण्यनिश्चयः परतो
प्रकाशः ।
व्यवसायेन गृह्यते । ज्ञानस्य विषयन्निरूप्यतया ज्ञानवित्तिवेद्यो विषय इति व्यवसाये भासमाने
धर्मधर्मिवत्तद्वैशिष्ट्यमपि विषयः, व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् । अत एव रजतत्वेन पुरो-
वर्तिनं जानामीति तदाकारः । अन्यथा, पुरोवर्तिनं रजतञ्च जानामीति तदाकारापत्तिः । अप्रा-
माण्यं तु परतो ज्ञायते, तदभाववत्त्वस्य भ्रमांगुलिखितत्वेनानुव्यवसायाविषयत्वात् । न चैव-
मनुव्यवसायस्य यावद्व्यवसायविषयविषयकत्वे भ्रान्तभ्रान्तिज्ञसङ्करः, बाधानवतारदशायामिष्ट-
त्वात् , तदवतारे तस्यैव प्रतिबन्धकत्वादिति ।
तत्र सिद्धान्त्याह । एवमिति । अनभ्यासदशायामिति भागासिद्धिवारणार्थम् , न तु
व्यभिचारनिरासार्थम् । परतो ज्ञेयत्वस्य केवलान्वयित्वात् । ननु स्वस्याप्यन्यापेक्षया परत्वाद्
भट्टमते ज्ञाताऽनुमितिग्राह्यत्वाच्च सिद्धसाधनम् । परतो ग्राह्यत्वेऽपि कदाचित् स्वतो ग्राह्यत्वावि-
रोधाद् , अर्थेन व्यभिचारश्च । तस्य तज्ज्ञानग्राह्यस्य ज्ञानप्रामाण्यसन्देहेन सन्दिह्यमानत्वात् ।
न च ज्ञानत्वेन हेतुर्विशेषणीयः । ज्ञानविषयकज्ञानप्रामाण्यसन्देहाहि-ज्ञानरूपार्थसन्देहेऽपि
प्रकाशिका ।
लीनज्ञानेनेत्यर्थः । तेन सार्वसाधारण्यम् । व्यवसायरूपेति । व्यवसायविषयं प्रत्येव प्रत्यासत्तिक-
थनमिदम्, एतदभावेऽपि ज्ञानत्वादिभानादिति स्मर्त्तव्यम्। भागासिद्धिवारणार्थं पक्षविशेषणं बोद्धव्य-
मितिशेषः । नन्विति । हेतुविशेषणमिति शेषः। न च ज्ञानत्वेनेति । न चैवं स्वरूपासिद्धिर्दृष्टान्ता-
सिद्धी इति वाच्यम् । ज्ञानधर्मत्वेनेत्यर्थात् । न चैवं ज्ञानरूपार्थे व्यभिचारप्रदर्शनमग्रेतनं विरुद्धमिति
वाच्यम् । तत्रापि ज्ञानपदेन ज्ञानत्वमभिधानात् । केचित्तु ज्ञानत्वेनेत्यस्य ज्ञानाविषयप्रतीत्यविषय-
मकरन्दः ।
भागासिद्धिरिति । पक्षविशेषणं बोध्यमिति शेषः । न त्विति । हेतुविशेषणमिति शेषः ।
न च ज्ञानत्वेनेति । ज्ञानाविषयप्रतीत्यविषयत्वेनेत्यर्थः । यथाश्रुते स्वरूपासिद्धिप्रसङ्ग इति
बोध्यम् । यत्तु ज्ञानधर्मत्वेनेत्यर्थ इति तन्न। ज्ञानरूपार्थेऽनुपदं व्यभिचारोपदर्शनविरोधात् ।
टिप्पणी ।
संग्रहः । अत एवेति । वैशिष्ट्यस्यापि विषयत्वादेव । ननु स्वतो ग्राह्यत्वं परतो-
ग्राह्यत्वञ्च परस्परविरुद्धमिति स्वतो ग्राह्यत्वमङ्गीकर्तॄणामसिद्धमेव परतो ग्राह्यत्वमत आह ।
परत इति । तथा च न तयोर्विरोध इति । स्वाश्रयानतिरिक्तज्ञानग्राह्यत्वस्य परतस्त्वस्वरूपत्वाद्
भट्टेति । अविरोधादिति । परतो ग्राह्यत्वस्य स्वतो ग्राह्यत्वासिद्धत्वं कल्पयितुन्न शक्यत
इति भावः । तज्ज्ञानप्रामाण्यं तज्ज्ञानेन गृह्यत इत्येवं साधने त्वाह-अर्थेन व्यभि-
चारश्चेति । तज्ज्ञानग्राह्यस्येति । अनेन साध्यव्यतिरेको दर्शितः । न च ज्ञानत्वेनेति ।
ज्ञानाविषयकप्रतीत्यविषयोऽत्र ज्ञानपदार्थः। तेन प्रामाण्यस्य ज्ञानत्वाभावेन स्वरूपासिद्धिरिति शङ्काया
२२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
प्रकाशः ।
तस्य निश्चितत्वेन तथापि व्यभिचारात् । उच्यते । अनभ्यासदशोत्पन्नज्ञानप्रामाण्यं न
स्वाश्रयग्राह्यं तदन्यग्राह्यं वा, स्वाश्रये सत्यपि तदुत्तरतृतीयक्षणवृत्तिसंशयविषयत्वात् ,
प्रकाशिका ।
त्वेनेत्यर्थः । अतो न पक्षदृष्टान्तासिद्धि। न वाग्रे दर्शितव्यभिचारविरोध इत्याहुः । अनभ्यासद-
शोत्पन्नेति । इदं च भागासिद्धिवारणाय पक्षविशेषणम् हेतोरन्यतरोप लक्षणम् । न स्वाश्रयेति ।
न यावत्स्वाश्रयग्राह्यमित्यर्थः, तेन योगिज्ञानादिग्राह्यत्वमादाय न बाघः, सर्वविशेष्यकत्वे सति सर्व-
प्रकारकत्वन्तु प्रामाण्यमपक्ष एवेति न निरुक्तसाध्येऽप्यंशतो बाघः । तदन्येति । यावत्स्वाश्रयग्रा-
ह्यत्वे सति स्वाश्रयातिरिक्ताग्राह्यत्वं साध्यम् । तेन यथाश्रुतेऽनुमितिमादाय-सिद्धसाधनं मात्रपदप्र-
वेशे योगिज्ञानमादाय बाध इति दूषणं निरस्तम् । स्वाश्रयीभूतास्मदादिज्ञानव्यक्त्यतिरिक्तमात्रग्रा-
ह्यत्वं साध्यम् । तेन नोक्तदोषावकाश इति कश्चित् । स्वाश्रये सत्यपीति । अपिशब्दो विपक्ष
बाधकसूचनाय सतिसप्तमीमहिम्ना सामानाधिकरण्यं लभ्यते तेन स्वाश्रयसमानाधिकरणस्वाश्र-
मकरन्दः ।
ज्ञानत्वे व्यभिचारोपदर्शनपरं तदिति ज्ञानधर्मपरत्वेऽप्यदोष इत्यन्ये । मनभ्यासदशापन्नेति ।
कर्त्तव्यहेतुर्यावति तावंत एव पक्षत्वमभिमतम् । अनभ्यासदशापन्नेऽपि सर्वत्र न संशय इति
यथाश्रुते भागासिद्धितादवस्थ्यापत्तेरिति ।
न स्वाश्रयेति । न यावत्स्वाश्रयग्राह्य मित्यर्थः । तेन योगीश्वरज्ञानस्य सर्वप्रामाण्याश्रयतया
तद्ग्राह्यत्वेन न बाधः । यद्यपि सर्वविषयकज्ञानमात्रवृत्तिप्रामाण्यांशे बाधः । तथापि तस्य पक्ष-
बहिर्भाव एवेति बोध्यम् । तदन्येति । स्वाश्रयान्येत्यर्थः । ननु परेषामपि प्रामाण्यस्यानुमिति-
ग्राह्यत्वाभ्युपगमेन सिद्धसाधनम् । न च स्वाश्रयातिरिक्तमात्रग्राह्यत्वमित्यर्थः, उक्तन्यायेन प्रामा-
ण्यमात्रस्यैव स्वाश्रयीभूतयोगीश्वरज्ञानादिग्राह्यतया बाधापत्तेरिति चेन्न । स्वाश्रयपदेन स्वाश्रय-
त्वावच्छिन्नं न विवक्षितं, येनोक्तदोषः स्यात् , किन्तु स्वाश्रयीभूतास्मदादिज्ञानव्यक्तिः, तदति-
रिक्तमात्रग्राह्यमित्यर्थः ।
स्वाश्रये सत्यपीति । विपक्षबाधक तर्कसूचनायापिशब्दः, सतिसप्तमीमहिम्ना च स्वाश्रयसा-
मानाधिकरण्यं पक्षविशेषणं लभ्यते । तथा च स्वाश्रयसमानाधिकरणस्वाश्रयाधिकरणक्षणावधिकतृ-
टिप्पणी ।
निराशः प्रामाण्यस्याप्युक्तज्ञानत्वात् । तस्य निश्चितत्वेनेति । ज्ञानरूपार्थस्य प्रामाण्याश्रयत्वे
नाभिमतज्ञानज्ञानग्राह्यत्वेन निश्चितत्वेनेत्यर्थः । न स्वाश्रयग्राह्यमिति । भट्टं प्रति साधने च
स्वाश्रयविषयकयावद्ग्राह्याभावः साध्यः । तेन नेश्वरज्ञानमादाय स्वमते बाधः, मीमांसकमात्रं
प्रत्येव साधनीयत्वेन गुरुमते स्वाश्रययावद्ग्राह्यत्वस्यैव सत्त्वेन न सिद्धसाधनम् विशिष्य स्वाश्रय-
विषयकज्ञानाजन्यज्ञानविषयत्वस्य विषयेऽपि सत्त्वाविरोधादित्यर्थः । तदन्यग्राह्यं चेति ।
मीमांसकसामान्यं प्रत्येव साधनस्य प्रस्तुतत्वेन प्रभाकरमते स्वाश्रयेणापि ग्रहणाद्
भट्टादिकम्प्रत्येव तथात्वे जन्यस्वाश्रयातिरिक्तमात्रग्राह्यत्वमित्यर्थः । नातो भट्टादिमते
स्वाश्रयातिरिक्तानुमित्यनुव्यवसायग्राह्यत्वेऽपि सिद्धसाधनम् । यद्वा भट्टादिमतेऽनुमित्य-
नुव्यवसाययोः स्वातन्त्र्येणापि व्यवसायविषययावद्ग्राहकतवेन तयोस्तदंशे व्यवसायसमाना-
कारकत्वा स्वाश्रयत्वेनैव सिद्धसाधनाभावान्मात्रपदन्न देयम् , स्वमते च प्रामाण्यानुमितिर्न
व्यवसायसमानाकारिका व्यवसायविषयवह्निमत्पर्वतादेराधेयतया विशेष्यत्वे प्रकारत्वात्
पर्वतादौ बह्वयधिकरणत्वादरेव वा प्रमात्वघटकत्वादिति । संशयविषयत्वादिति । स्वाश्रय-
द्वितीयस्तबके ] प्रामाण्यपरतस्त्वोपपादनम् । २२३
प्रकाशः ।
प्रामाण्यसंशयाजन्यसंशयविषयत्वाद्वा, अप्रामाण्यवत् । अर्थे निश्चितेऽपि न निश्चयानन्तरतृतीय-
क्षणेऽर्थसंशयो न वा प्रामाण्यसंशयं विनेति नार्थेन व्यभिचारः । स्वशब्दस्य सम्बन्धिशब्दत्वेन
समभिव्याहृतपरत्वान्न स्वस्य परत्वम् । यथोक्तं, "यावद्व्यवसायोल्लिखितप्रकारविशिष्ट एव धर्म्य-
नुव्यवसाये भासते" तन्न । तथा हीदं रजतञ्च जानामीति नानुव्यवसायः, बहिर्विशेष्यके मनसो-
ऽस्वातान्त्र्यात् , किं स्विदमिदन्त्वेन रजतत्वेन जानामीति । तत्रेदन्त्वरजतत्वे प्रकारत्वेन, तत्प्र-
कारकज्ञानवत्त्वञ्चात्मनि भासते, अन्यथा प्रकारवाचितृतीयाऽर्थोऽसम्भवः । न च रजतत्ववैशिष्ट्यमेव
तृतीयार्थः, व्यवसायेऽपि तदुल्लेखापत्तेः । अतः, इदन्त्वरजतत्ववैशिष्ट्यं पुरोवर्तिनो नानुव्यव-
सायविषय इति कुतः स्वतः प्रामाण्यग्रहः ।
ननु परतः प्रामाण्यपक्षेऽपि परस्य शब्दादेरभावेऽनुमानं वाच्यम् , तच्च लिङ्गाभावादसं-
भवि । समर्थप्रवृत्तिजनकत्वं लिङ्गमिति चेन्न । कारणतावच्छेदकरूपग्रहं विना तद्ग्रहात् । तद्
प्रकाशिका ।
यावधिकतृतीयक्षणवृत्तिसंशयविषयत्वादिति हेतुः पर्यवस्यति, यत्र विशेष्ये तादृशसंशयकोटित्वं तत्र
विशेष्ये न स्वाश्रयग्राह्यमिति सामान्यव्याप्त्येदेमनुमानमभिप्रेतमतो न रूपं गुण इति ज्ञानानन्तरं ज्ञानं
गुणो न वेति यथोक्तसंशयकोटौ गुणत्वे व्यभिचारः । वस्तुतो यज्ज्ञानव्यक्त्यनन्तरं तृतीयक्षणे नैतादृ-
शसंशयः, तद्व्यक्त्युत्तरतृतीयक्षणवृत्तिसंशयविषयत्वादित्येव हेतुरतो नोक्तक्रमेण गुणत्वे व्यभिचा-
रशङ्का । एतेन यत्र धर्मोत्पत्तिपूर्वमेव धर्मिज्ञानकोटिस्मरणे दैवात् तत्र ज्ञानोत्पत्तेरनन्तरं प्रामाण्य-
संशयः, तदनन्तरमर्थसंशय इत्यर्थे हेतोर्व्यभिचार इत्यपास्तम् । अतादृशव्यक्तिविशेष्योत्तरतृतीय-
क्षणवृत्तिसंशयविषयत्वस्यैव हेतुत्वात् । प्रामाण्येति । स्वाश्रयविशेष्यकप्रामाण्यसंशयजन्यसंशययो-
ग्यत्वादित्यर्थः । समर्थप्रवृत्तिजनकत्वमिति । न च जनकतावच्छेदकप्रामाण्याग्रहे कथं जनकता
ग्रह इति वाच्यम् । उक्तग्राहक सत्त्वे तृणारणिमणिन्यायेन व्यक्तावपि तद्ग्रहसम्भवात् । ज्ञाने प्रवृ-
त्तिजनकत्वं प्रवृत्तौ समर्थत्वं गृह्यत इति विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति न्यायेन विशि-
मकरन्दः ।
तीयक्षणवर्त्तिद्विमात्रकोटिकसंशयकोटित्वादित्यर्थः । तेन यत्र रूपं गुण इति ज्ञाने गुणत्वतदभाव-प्रा-
माण्यतदभावकोटिकः समूहालम्बनः संशयः, तत्र गुणत्वे हेत्वभावादेव न व्यभिचारः । यत्र च
गुणत्वतदभावमात्रकोटिकः संशयः, तत्र तादृशसंशयविषयप्रामाण्याश्रयज्ञानग्राह्यत्वाभावरूपसाध्य-
सत्त्वादेव न व्यभिचार इति । यद्वा, तादृशतदधिकरणकसंशयकोटित्वादिति हेतुः । तथा च यत्र-
तादृशतदधिकरणकसंशयकोटित्वं तत्र तन्निष्ठतया न स्वाश्रयग्राह्यत्वमिति सामान्यतो व्याप्तिरभि-
मता । एवञ्च गुणत्वस्य रूपनिष्ठतया स्वाश्रयेण ग्रहेऽपि स्वाश्रयनिष्ठतयाऽग्रहेण विशिष्टाभावसत्त्वात्
तत्र न व्यभिचार इति । के चित्तु यद्व्यवसायविषयकोटिको यद्व्यवसायधर्मिकश्च सन्देहस्तृतीय-
क्षणे जायते तत्प्रामाण्यस्यैव पक्षत्वात् तत्प्रामाण्याश्रयग्राह्यत्वाभावो गुणत्वेऽस्त्येवेति न व्यभि-
चार इत्याहुः ।
प्रामाण्यसंशयेति । स्वाश्रयविशेष्यकप्रामाण्यसंशयायोग्यत्वादित्यर्थः । विस्तरस्तु प्रत्यक्ष-
प्रकाशेऽनुसन्धेयः । समर्थेति । न च जनकतावच्छेदकस्य प्रामाण्यस्याग्रहे कथं तद्ग्रह इति
वाच्यम् । उक्तग्राहक सत्त्वे तृणारणिमणिन्यायेन व्यक्तावपि तद्ग्रहसम्भवात् । यद्वा, ज्ञानवृत्तिप्रवृ-
टिप्पणी ।
समानाधिकरणस्वाश्रयावधिकतृतीयक्षणवर्त्तिसंशयविषयत्वादिति पर्यवसितो हेत्वर्थः । न
स्वस्य परत्वमिति । न प्रामाण्यमात्रपरत्वमित्यर्थः । तेन दृष्टान्तेऽप्रामाण्ये न साध्यवैकल्यम् ।
व्यवसायेऽपीति । रजतत्वेनेदमिति व्यवसायस्याप्यभिलापापत्तेः । कारणतावच्छेदकरूपं-
२२४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ १ कारिकान्याख्यायां
प्रकाशः ।
यदि प्रमात्वमेव, तदाऽऽत्माश्रयः । अन्यच्चेत्, तदेव प्रामाण्ये लिङ्गमस्तु, उपजीव्यत्वात् ।
न च तृणारणिमणिन्यायेन व्यक्तावेव कारणत्वं गृहीत्वा समर्थप्रवृत्तिजनकत्वग्रहः, ग्राहकाभा-
वात् । न च प्रत्यक्षमेव तद्ग्राहकम् । तद्धि न बहिरिन्द्रियजन्यम् । आन्तरत्वात् । नापि मान-
सम् । तद्धि समर्थप्रवृत्तेः प्रागुत्तरकालं वा ? नाद्यः । समर्थप्रवृत्तेरभावात्तद्वैशिष्ट्याग्रहात् ।
नान्त्यः । ज्ञानस्य नष्टत्वेन मनसा प्रत्यासत्त्यभावात् । नाऽपि तज्जातीयत्वं लिङ्गम् । तद्धि
करचरणवति शरीरज्ञानत्वादि । तत्र करचरणाद्यन्तरवति करचरणाद्यन्तरवत्त्वज्ञाने व्यभिचारः ।
तत्रापि शरीरांशे प्रमात्वमेवेति चेत्, तर्हि, करचरणादीति व्यर्थम् । शरीरभ्रमेऽपि कस्याश्चि-
च्छरीरव्यक्तेर्भानात्, तत्र तस्य प्रामाण्यात् । अन्यथा शरीरत्वस्यैव भानायोगात् । करचरणा-
दिशून्ये यच्छरीरत्वेन ज्ञानं तद्व्यावृत्त्यर्थं तदिति चेत् । करचरणादिमत्त्वमुपलक्षणं विशेषणं वा ?
नाद्यः । व्यावृत्तोपलक्ष्याभावात् । नान्त्यः । विषयतया हि न ज्ञानविशेषणत्वं करचरणवत्प्र-
कारकज्ञानविषयत्वस्य व्यभिचारात्, अशरीरेऽपि तादृशभ्रमसम्भवात्, शरीरज्ञाने तदसिद्धे-
श्च । विषयविशेष्यत्वे च करचरणवद्विषयकशरीरज्ञानत्वस्य व्यभिचारात् । शरीरभ्रमस्यापि।
टिप्पणी ।
विनेति । अवच्छेदकरूपग्रहं विनेत्यर्थः । तदाऽऽत्माश्रय इति । जनकताया जनकताव-
च्छेदकरूपत्वाभिमानेनात्माश्रय इत्यन्यथान्योऽन्याश्रयो बोध्यः । आन्तरत्वादिति । कार्यकार-
णयोः प्रवृत्तिप्रमयोर्बहिरिन्द्रियाग्राह्यत्वेन तत्कार्यकारणभावस्यापि तत्त्वादित्यर्थः । वैशिष्ट्या-
ग्रहादिति । सम्बन्धग्रहस्य सम्बन्धिग्रहसापेक्षत्वेन प्रवृत्तेरग्रहे तत्सम्बन्धस्य कारणत्वघट-
कस्य कार्यकारणभावस्य वा ग्रहीतुमशक्यत्वादित्यर्थः । ज्ञानस्य नष्टत्वेन इति। प्रवृत्त्युत्तर-
क्षणस्य प्रमातृतीयक्षणत्वेन तदानीं तत्र विशेष्यसन्निकर्षाभावादित्यर्थः । करचरणवतीति ।
अत्र सप्तम्या विषयत्वमात्रपरत्वमभिप्रायोऽवासेयः । इदं ज्ञानं शरीरप्रमात्त्ववत् करचरणादिम-
द्विषयकशरीरज्ञानत्वादित्यनुमाने तच्छरीरे तच्छरीरवृत्तिकरचरणज्ञानस्य भ्रमत्वेन साध्याभाववत्त्व-
मभिमत्य दोषमाह । तत्रेति उक्तज्ञानस्य भ्रमत्वेऽपि करचरणादिमत्त्वांश एव न तु शरीरांशे,
विशेष्यांशे सर्वज्ञानस्य प्रमात्वाभ्युपगमात् , साध्यञ्च शरीरप्रमात्वमेवेति कुतो व्यभिचार
इत्याशङ्कते । तत्रापि शरीरांश इति। शरीरभ्रमेऽपीति । शरीरत्वविशिष्टशरीरविषयकभ्र-
मेऽपीत्यर्थः, न तु शरीरत्वत्वेन भ्रमेऽपीत्यर्थः, तस्य शरीरविषयकस्यापि सम्भवात् । करचरणा-
दीति । शरीरप्रमात्वञ्च शरीरत्ववति शरीरत्वप्रकारकज्ञानत्वं तदेव साध्यं, हेतुघटकं शरीरज्ञानञ्च
न शरीरत्वविशिष्टविषयकज्ञानत्वं किन्तु शरीरत्वप्रकारकज्ञानत्वमेव तस्य च स्थाण्वादौ शरीरभ्रमे
सत्त्वेन व्यभिचारः स्यादिति करचरणादिमद्विशेष्यकत्वमुपादेयमित्याह । करेत्यादि । व्यावृत्तो-
पलक्ष्याभावादिति । अविद्यमानेन येन यदितरतो व्यावर्त्यते तदुपलक्षणमुपरञ्जकञ्चोच्यते
दशाविशेषे करचरणादिशून्यस्या शरीरव्यावृत्तस्याभावात् कथमुपलक्षणं स्यादिति भावः। विषतया
हीति करचरणवतीत्यत्र सप्तम्या आधेयत्वमर्थः, प्रकारतया करचरणवद्वृत्तिशरीरत्वप्रकारकज्ञानत्वं
हेतुः पद्यवसितः। करचरणवत्प्रकारकेति । “करचरणवत्प्रकारकशरीरत्वज्ञानस्य व्यभिचा-
रादिति” क्वचित् पाठः। विषयत्वस्य व्यभिचारादिति । विषयतया शरीरत्वप्रकारप्रमाव्यभि-
चारादित्यर्थः । तथा च स्थाणुविषयके करचरणादिमदिदं शरीरमिति भ्रमेऽपि हेतोः सत्त्वेन साध्यस्य
तत्राभावात् व्यभिचार इति भावः । शरीरज्ञानेऽपीति । इदं शरीरमिति प्रमायाः करायप्रका-
रकत्वेन तत्र भागासिद्धेरिति भावः । शरीरज्ञानत्वस्येति । करचरणवद्विषयकत्वे सति शरी-
रत्वप्रकारकज्ञानत्वस्येत्यर्थः । शरीरभ्रमस्यापीति । स्थाणुशरीरयोः शरीरत्वस्यानुगत
द्वितीयस्तवके ] प्रामाण्यपरतस्त्वोपपादनम् । २२५
प्रकाशः ।
वस्तुतः करादिमद्विषयकत्वात् । न च करचरणशून्ये यच्छरीरत्वेन ज्ञानं न भवतीति विवक्षितम् ।
तृतीयार्थस्य विषयत्वे स्वरूपासिद्धेः । शरीरज्ञानस्य तच्छून्यशरीरत्वादिविषयकत्वनियमात् ।
अत्राहूः । समर्थप्रवृत्तिजनकत्वं प्रवृत्त्युत्तरकालं संस्कारोपनीतज्ञाने प्रमेयत्वाभिधेयत्वव्या-
प्तिवद् गृह्यते । यद्वा पूर्वं पृथिवीज्ञाने पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितौ कदाचित् तत्रैव
गन्धस्य तद्विरोधिविरहस्य साक्षात्कारे पुनः स्मृतिरूपे पृथिवीज्ञाने सति तत्सन्निकृष्टेन प्रत्य-
भिज्ञान इव विशेषणज्ञानजनितसंस्कारापेक्षेण मनसा गन्धवत्त्वेनेवाय निश्चय इत्याकारेण सुरभि
चन्दनमिति चान्नुपवज्ज्ञानजननान्न ग्राहकाभावादत्वसिद्धिः । तज्जातीयत्वमपि करचरणबद्वि-
शेप्यकशरीरत्वप्रकारकज्ञानकत्त्वादि । शरीरभ्रमे करचरणवतो विशेषणत्वात् । प्रथमं च प्रामा-
ण्यानुमितिः केवलव्यतिरेकिणा ।
प्रकाशिका ।
ष्टविशेषणकहेतुग्रहसम्भवाच्च ।
पुनः स्मृतिरूप इति । अत्र केचित् । पृथिवीज्ञानि = पृथिवीज्ञानज्ञाने । अन्यथा पृथिवी-
वीस्मरण एव गन्धवद्विशेष्यकत्वनिश्चयलाभे पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितावित्यस्य वैय-
र्थ्यापत्तेः । एवं च ततः सन्निकृष्टेनेत्यस्य तत्स्मृतिरूपसन्निकर्षवतेत्यर्थ इति व्याचक्षते ।
वस्तुतो गन्धवद्विशेष्यकत्वोपनयार्थमेव पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसायोपयोगः । एवं
च पृथिवीत्वपदं गन्धवत्त्वपरम् , एवं च पृथिवीज्ञाने जाते तद्विषये गन्धवत्त्वपरिच्छेदे गन्धव-
त्त्वप्रकारकनिश्चयत्वानुव्यवसितौ स्मृतिरूपे पृथिवीज्ञाने तत्सन्निकृष्टेन मनसा स्मृत्युपनीतगन्धव-
मकरन्दः ।
त्तिसामान्यजनकत्वमेक हेतुप्रविष्टम् , तथा चोपनोते ज्ञाने प्रवृत्तिजनकत्वे प्रवृत्तौ च समर्थत्वमुप-
नीतं गृह्यत इत्यथोद्दिशिष्टवैशिष्ट्यरूपहेतुग्रह उपपद्यत इति ।
स्मृतिरूपे पृथिवीज्ञाने इति । पृथिवीज्ञानज्ञाने इत्यर्थः । अन्यथा पृथिवीस्मरण एव
गन्धवद्विशेष्यकत्वनिश्चयलाभे पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितावित्यनर्थकमापद्येत । एवञ्च
तत्सन्निकृष्टेनेत्यस्य स्मृतिरूपसविषयकसहकारिणेत्यर्थः । तथा च स्मृत्युपनीते पूर्वानुभव एव
गन्धवद्विशेष्यकत्वनिश्चय इति तद्विशेष्यकपृथिवीत्वप्रकारकज्ञानत्वाद हेतुग्रह इति भावः ।
टिप्पणी ।
प्रकारकभ्रमस्यापीत्यर्थः । तृतीयार्थस्य विषयत्व इति । विषयत्वरूपत्वे, सप्तम्या अपि तत्त्व
इत्यपि वाच्यम् । अभिधेयत्वव्याप्तिवद् गृह्यते इति । प्रमादिघटिते तत्र नियमेनोपनया-
पेक्षासम्भवात् । तद्विरोधिविरहस्येति । गन्धविरोधीशीतोष्णस्पर्शादिग्रहे गन्धसाक्षात्-
कारे शङ्खपीतत्वसाक्षात्कार इव दोषजत्वशङ्कया प्रामाण्यसंशये गन्धवद्विशेष्यकत्वांशपरिच्छेदो
न स्यात्तस्य तत्र विरोधित्वात् अतः सर्वथैव तदभावदार्थ्याय गन्धविरुद्धत्वेन ये ये गृहीतास्त-
त्कालमुपस्थिताश्च तेषामभावसाक्षात्कारपर्यन्तानुसरणमिति भावः । पृथिवीज्ञाने स-
तीति । पृथिवीज्ञानज्ञाने सतीत्यर्थः । गन्धवत्त्वे चाद्यनिश्चय इति । गन्धवद्विशेष्यकपृ-
थिवीत्वप्रकारकोऽयं निश्चय इत्यर्थः । इत्याकारेण सुरभिचन्दनमितीति । अभेदे तृतीया
ततश्च तज्ज्ञानेत्यत्रान्वेति । करचरणवद्विशेष्यकेति । करचरणवनिष्ठविशेष्यतानिरूपित-
शरीरत्वप्रकारतानिरूप कज्ञानत्वादिरूपं निर्वक्तुं शक्यत इत्यर्थः । शरीरभ्रमे चेति । स्थाणुत्वा-
दिना शरीरभ्रमे न तु शरीरत्वेन शरीरप्रकारकभ्रम इत्यर्थः । तत्र व्यभिचारस्याप्रसक्तत्वाद्धेतोः
सत्त्वाच्च करचरणवतोऽविशेषणत्वादिति न विद्यते ज्ञाने विवक्षितशरीरत्वरूपविशेषणं यत्र
तत्त्वादित्यर्थः । अन्यथा विशेषणत्वोक्त्या विशेष्यत्वमेव व्यावत्त्यं स्यात्तस्य शरीरादेः सखण्डत्वे-
२६ न्या० कु०
२२६ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [१ कारिकाव्याख्यायां
प्रकाशः ।
ननु न् प्रामाण्यप्रसिद्धिं ना ऽव्याप्त्यग्रहात् कथमनुमानं ? अथ, व्याघातात् प्रमातद्विषय-
सिद्धौ सामान्यतः साध्यप्रसिद्ध्या न तदप्रसिद्धिः, विशिष्यानिर्णयाच्च नान्वयिवासाधारणत्वे
इति चेत्, तर्हि, कस्यापि प्रथमं स्वार्थे प्रामाण्यानुमितिर्न स्यात् । प्रामाण्यनिषेधरूपस्य परकीय-
व्याघातस्य तदाऽनुपस्थितेः । स्वयं प्रामाण्यनिषेधस्य च तद्धीपूर्वकत्वात् । मैवम् । प्राग्भवीय-
संस्काराद्विशेष्यावृत्त्यप्रकारकत्वं तद्वति तत्प्रकारकज्ञानत्वं वा प्रामाण्यमात्रं स्मृतं, पृथिवीज्ञानादौ
साध्यभानं सर्वनाममहिम्ना पक्षधर्मताबलात् पृथिवीज्ञानस्य विशेष्यावृत्त्यप्रकारकत्वादौ पर्यवस्यति
स्वतः प्रामाण्यनिषेधे प्राथमिकप्रामाण्यज्ञानस्यान्यथोपपादयितुमशक्यत्वादिति साम्प्रदायिकाः ।
अस्मत्पितृचरणास्तु, - प्रथमं प्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणा साध्यम् । तत एव
निष्कम्पप्रवृत्तेरुपपत्तेः । तदेव वा सिद्ध्यत् पक्षधर्मताबलेन तद्वति तत्प्रकारकनिश्चयत्वादिक-
प्रकाशिका ।
द्विशेष्यकत्वग्रह इति न हेत्वसिद्धिरिति समुदयार्थः । सर्वनाममहिम्नेति । इदं च दृष्टान्ततयो-
क्तम् । तेन यथा शाब्दबोधे सर्वनाममहिम्ना विशेषविषयता तथानुमानिके पक्षधर्मताबलात्तथे-
त्यर्थः । ननु देवदत्तत्वादिप्रकारं ज्ञानं जन्मान्तरे नानुभूतं तद्वति तत्प्रकारकत्वञ्चैकं नास्त्येवेति न त-
त्रोक्तगतिः, किंच प्रकारान्तरसत्त्वेऽनुपपत्तिरपि प्राग्भवीयसंस्कारोद्बोधिका नास्तीत्यनुशयेनाह । अ-
स्मत्पितृचरणास्त्विति । तदेवेति । यद्यपि पक्षधर्मताबलेन व्यापकत्वेन गृहीतस्य धर्मस्य पक्ष-
सम्बन्धमात्रं सिद्ध्यति न तु तत्समनियतधर्म्मान्तरमपि तथाप्यग्रिमव्यतिरेकिणा तत्सिद्धिरित्यत्र (१)
तात्पर्यम् । अयं च प्रकारः क्वचित् सम्भवतीत्युपन्यस्तो न तु सार्वत्रिकः । एतेन प्रमेयत्वप्रकारकज्ञाने
नायं कल्पः, तत्राप्रामाण्याप्रसिद्धेः । किञ्चायमपि कल्पोऽप्रामाण्यप्रसिद्धौ, तत्प्रसिद्धिश्च जन्मान्तरी-
यसंस्कारादुपपाद्या तथा च प्रामाण्यप्रसिद्धिरपि तथैवास्तु किमनेन कल्पेनेत्यादि दूषणं निरवका-
मकरन्दः ।
सर्वनाममहिम्नेत्यनेनानुपपत्तिविशेषः पक्षधर्मतासहकारी विवक्षित इति नानुमाने तदुप-
योग इति दूषणमनवकाशमित्येके । दृष्टान्तपरतया तदित्यन्ये । ननु तद्वत्त्वस्यैकस्याभावाद् देव-
दत्तादिज्ञानप्रामाण्यं जन्मान्तरे नानुभूतमिति तत्र नोक्तगतिसम्भवः । गत्यन्तरसत्त्वे प्राग्भवीय-
संस्कारोद्बोधे मानाभावश्चेत्यनुशयादाह । प्रथममिति । तत एवेति । अप्रामाण्यशङ्काविधू-
ननस्य ततोऽपि भावादिति भावः । तदेवेति । यद्यपि पक्षधर्मतावलादप्यखण्डाभावस्य पक्षी-
यत्वं व्यापकतानवच्छेदकप्रकारेण सिद्ध्यति, न तु तद्वत्तत्यादिकं, तथापि तदनन्तरमर्थात्तत्सिद्धिरि-
त्यत्र तात्पर्यम् । अत्र चाप्रसिद्धाभावोऽपि प्रतियोगिप्रसिद्ध्या व्यतिरेकव्याप्तिग्रहे सति सिद्ध्येत् ।
न चाप्रामाण्यं प्रसिद्धं, प्रामाण्यवत्तस्याप्यतीन्द्रियत्वात् । तदर्थं प्राग्भवीयसंस्काराद्यनुसरणं च
प्रामाण्यानुमानार्थमेव तदनुसरणमर्हं, लाघवादावश्यकत्वाच्च । प्रमेयमित्यादिज्ञाने चाप्रामाण्या-
टिप्पणी ।
नासम्भवदिति । अथ व्याघातादिति । परेण प्रमातद्विषयनिषेधोद्भावनात् ; तद्वति तत्
प्रकारकत्वमादाय पक्षधर्म्मताबलेनेति व्यापकस्य तत्तद्रूपेणागृहीतस्य भानेऽनुभवानुरोधाद्या-
लाघवज्ञानादेः सामर्थ्यं कल्प्यते तथा निरुक्तव्याप्तिग्रहकालीनपक्षधर्मताग्रहस्याप्यनुभवानुरोधाद्
विशेष्ये विशेषणमिति रीत्या निरुक्तप्रामाण्यभाने सामर्थ्यकल्पनादिति भावः । निर्द्धम्मितावच्छे-
(१) अप्रामाण्याभावविशेष्यकप्रथमानुमितेरितरबाधविधया द्वितीये तत्प्रकारकानुमितौ
प्रामाण्यभाने पक्षधर्मतासहकारित्वमिति भावः ।
द्वितीयस्तवके ] प्रामाण्यपरतस्त्वोपपादनम् । २२७
प्रकाशः ।
मादाय सिद्ध्यति । तथा हि । अयं पृथिवीत्वेनानुभवो न पृथिवीत्वाभाववति पृथिवीत्वप्रकारकः;
गन्धवद्विषयकप्रयत्नजनकपृथिवीत्वप्रकारकज्ञानत्वात् यन्नैवं तन्नैवम् । यथा पृथिवीभ्रमः।
एवञ्च पृथिवीभ्रमे पृथिवीत्वाभाववति पृथिवीत्वप्रकारकत्वसमर्थप्रवृत्तिजनकत्वाभावयोर्व्याप्तिग्रहा-
दप्रामाण्यव्यापकहेत्वभावाभावरूपाद्धेतोराप्रामाण्याभावरूपं साध्यं सिद्ध्यति । यद्व्यापकतया
हेत्वभावो गृहीतस्तदभाव एव हि हेतुना साध्यते । यत्र त्वभावव्यापकता हेत्वभावस्य ज्ञायते,
तत्र साध्यप्रसिद्धिरनुमानाङ्गम् , तां विना तदभावात् यत्र च भावव्यापकता हेत्वभावस्य, तत्र न
साऽङ्गम्, तां विनाऽपि व्यतिरेकव्याप्तिग्रहात् । विशेषणज्ञानं विना कथं प्रामाण्यविशिष्टानुमिति-
रिति चेत् । प्रथमं न कथम्चित् । ज्ञाने प्रामाण्यमित्यनुमित्यनन्तरं तेनैव हेतुना तत्र प्रामाण्य-
विशिष्टानुमितिः, अभावविशेष्यकज्ञानानन्तरम् , अभाववद् भूतलमिति ज्ञानवत् । एवं तदभाववति
तत्प्रकारकत्वव्यतिरेकः सिद्धस्तद्वति तत्प्रकारकत्वमादाय पक्षधर्मताबलेन सिद्ध्यतीतिं तत्त्वचिन्ता-
प्रकाशिका ।
शम् । अप्रामाण्यशङ्काविरहस्य क्वचिदेव संभव इत्याशयेनैतत्कल्पावतारात् । अयमिति । अनु-
भवपदं निश्चयपरम् तल्लाभायैव च हेतुनिष्ठनिश्चयपदं न तु हेतुप्रविष्टं वैयर्थ्यात् । निष्प्रकारक-
त्वेनान्यप्रकारकत्वेन वार्थान्तरवारणाय तृतीयान्तम् । पृथिवीभ्रमपक्षैकदेशतो बाधः स्यादिति तद्वार-
णाय अयमिति । पृथिवीविशेष्यक इत्यर्थः । पृथिवीत्वाभाववतीति । अत्र पृथिवीत्वाभाववद्वि-
शेष्यकत्वाभावमात्रं साध्यमन्यथा वैयर्थ्यात् । अप्रामाण्यस्याभावरूपत्वेन व्याप्त्यवेन च व्यर्थविशेष-
णतायाः दुष्परिहरत्वात् पृथिवीत्वप्रकारजलंज्ञाने व्यभिचार इति गन्धवद्विषयकेति । अत्र पृथिवि-
त्वमिति ज्ञानस्यापि प्रवर्त्तकतया तत्र व्यभिचार इति पृथिवीत्वप्रकारकेति । पृथिवीत्वप्रकारत्वा-
वच्छेदेन तादृशप्रयत्नजनकत्वं हेतुरतो न जलपृथिव्याविति समूहालम्बने व्यभिचारः । निश्चयपद-
न्तु निरुक्तमेवेति । कदाचिदपोताति । न च कदाचित् दोषात् प्रामाण्यसंशयेऽपि तद्विरहदशायां
स्वतःप्रामाण्यग्रहे बाधकाभावः, दोषात् कदाचिद्रजतत्वसंशयेऽपि कदाचिद्रजतत्वग्रहवदिति वाच्यम् ।
स्वप्रकाशपक्षस्य सामग्रीविरहादनुपपत्तेः । ज्ञाततायाश्चाप्रामाणिकतया तल्लिङ्गकानुमितेरप्रसिद्धेः ।
मनंसश्चोपनयसहकृतस्य बहिरर्थग्राहकत्वेऽपि उपनायकज्ञानगोचरस्य ज्ञानस्य स्वातन्त्र्येण बहिरर्था-
विषयकत्वात् । अनुव्यवसायस्य व्यवसायप्रामाण्यग्रहोत्तरकालीनस्याप्रवर्त्तकत्वेन तथा कल्पनात् ।
उपनायकज्ञानविषयत्वन्तु क्वचिदेवेत्यत्रादृष्टमेव नियामकम् । एवं च ज्ञानोपनीतप्रामाण्यग्रहेऽपि न
मकरन्दः ।
भावेऽनुमानासम्भवे तत्र प्रकारान्तरानुसरणे स एव प्रकारः सर्वत्रानुस्रियतामित्यादि दूषणं प्रत्यक्ष-
प्रकाशे द्रष्टव्यम् ।
अयमिति । अनुभवपदं निश्चयपरम् । तेन संशयव्यावृत्तसाध्यसिद्धिः, स्मृतेरपि प्रवृत्तेस्त-
त्पाधारण्येत्येत्याहुः । निष्प्रकारकत्वेनार्थान्तरवारणाय तृतीयान्तम् । पृथिवीत्वाभाववति नेत्येव
साध्यम् । व्यतिरेकव्याप्तौ साध्याभावस्य व्याप्त्यत्वेन तत्र नीलधूमवदधिकस्य व्यर्थत्वात् । अप्रा-
माण्यस्य भावरूपतया साध्याभावस्याखण्डत्वेन न वैयर्थ्यमित्यस्याप्यसम्भवादिति ध्येयम् । पृथिव-
वीत्वभ्रमे व्यभिचारवारणाय जनकान्तम् । अत्र पृथिवीत्वमिति निश्चयस्य पृथिवीत्वाभाववत्पृथिव-
वीत्वविशेष्यकस्य पृथिवीप्रवर्त्तकत्वाभ्युपगमपक्षे तत्र व्यभिचार इत्यत उक्तं, पृथिवीत्वप्रका-
रकेति । निश्चयपदं च निश्चयपक्षतासूचनार्थमविवक्षितार्थंकम् । विस्तरः प्रत्यक्षप्रकाशे ।
टिप्पणी ।
दकसंशयस्याभावाद् धम्मितावच्छेदकः कश्चिद् वाच्यस्तंस्य च विशेषणत्वात्तज्ज्ञानमपेक्षितं स्यात्-