न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 58, कुल 608 में से
संदर्भ में पढ़ें२६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ का० अव० अवतरणिकायां
प्रकाशः ।
करूपपरिचेयत्वादिति चेन्न । सिषाधयिषाविरहसहकृतसाधकप्रमाणाभावस्य तत्त्वात् । स च
विशिष्टाभावो यत्र साधकप्रमाणसिषाधयिषे स्तः तत्र विशेषणाभावात् , यत्रोभयाभावस्तत्र विशे-
प्रकाशिका ।
सिषाधयिषेति । अत्र साधकमानं सिद्धिरेव । सिद्धितत्करणान्यतरद्धेति व्याख्यातमन्यत् ।
ननु सिद्धेः प्रतिबन्धकत्वे मानाभावः, न चानुमित्यनन्तरमनुमित्यापत्तिः, द्वितीयानुमिताविष्टा-
पत्तेः, उत्तरकालं च परामर्शाभावात् । न च लिङ्गोपधानपक्षेऽनुमित्यविच्छेदः स्यादिति वाच्यम् ।
तदनभ्युपगमात् । अत्र केचित् । वह्निव्याप्यवत्वमेव यत्र पक्षतावच्छेदकं तत्र पक्षतावच्छेदकस्या-
नुमितौ भानादनुमित्यविच्छेदः सिद्धेरप्रतिबन्धकत्व इति । तदयुक्तम् । तत्र वह्निव्याप्यवत्त्वलिङ्गि-
कानुमितिरापाद्या, धूमलिङ्गिका वा, नाद्यः, तदीयवह्नित्र्याप्यत्वस्यानुमितावभानात् , न द्वितीयः,
धूमत्वस्यानुमितावभानात् । न च वह्निव्याप्यधूमवत्वमेव यत्र पक्षतावच्छेदकं तत्रानन्त्यापत्तिः,
धूमलिङ्गकानुमितिसामग्रीसत्त्वादिति वाच्यम् । यद्धर्मसामानाधिकरण्येन हेतुः परामर्शविषयः
तस्यैव पक्षतावच्छेदकत्वेनानुमितौ भानमिति धूमलिङ्गकप्रथमानुमितेः वह्निव्याप्यधूमवत्त्वावगाहित्वे
तत्सामानाधिकरण्येन धूमवत्त्वानवगाहितया द्वितीयानुमितेः पक्षतावच्छेदकत्वेन वह्निव्याप्यधूम-
वत्त्वानवगाहितया अनुमितिधाराविच्छेदादिति । अत्र वयं ब्रूमः, एवं सति संशयविपर्ययोत्तरप्रत्य-
क्षानुव्यवसायो न स्यादनुमितिसामग्रीसत्त्वात् । सिद्धेः प्रतिबन्धकत्वे तु प्रत्यक्षसत्त्वान्नानुमितिसाम-
ग्रीति भवत्यनुव्यवसायः । नचानुव्यवसाय एव मास्तु, तथा सति तादृशप्रत्यक्षे मानाभावेनासमा-
नविषयेऽनुमितिसामग्र्या बलवत्त्वमित्यपि भज्येत, तस्मादवश्यं सिद्धेरनुमितिप्रतिबन्धकत्वम् । न
च तथा सत्यपि प्रत्यक्षसामग्रीसत्त्वादेव नानुव्यवसाय इति वाच्यम् । इन्द्रियसन्निकर्षविच्छेदकाले
तत्सम्भवात् । न चानुव्यवसायेच्छासहकारादनुव्यवसायसामग्री बलवतीति वाच्यम् । एवमपि
मकरन्दः ।
सिषाधयिषायाश्च विशेषणत्वमेव, तदुत्तरस्मरणलक्षणपरामर्शादनुमितौ विनश्यदवस्थसिषाधयि-
पायास्तथात्वात् ।
ननु सिषाधयिषा तत्पुरुषीयतया तत्कालीनतया तत्साध्यीयत्वादिनिा चावश्यं विशेषणीया ।
अन्यथा व्यधिकरणास्रन्यकालीनामन्ससाध्यलिङ्गपक्षीयाञ्च सिषाधयिषामादाय पक्षतासत्त्वे सिद्ध-
साधनेऽप्यनुमित्यापत्तिः । एवञ्च तादृशसिषाधयिषाया घनगर्जितस्थलादावप्रसिद्धेः कथं तद्घ-
टिता तत्र पक्षतेति चेन्मैवम् । व्यधिकरणाया अन्यकालीनायाश्च तस्यास्तदा तत्पुरुषे विरह एवे-
ति तामादायातिप्रसङ्गाभावात्तल्लिङ्गकतत्साध्यकतत्पक्षकानुमितिगोचरेच्छाया एव विवक्षितत्वात् ,
तादृश्याश्च घनगर्जितस्थलेऽपीश्वरेच्छाया एव प्रसिद्धत्वात् । तादृशानुमित्यसम्भवे पक्षताभावेऽपि
न क्षतिः । नचैवं बाधादेरनुमितिप्रतिबन्धकत्वं न स्यात्, तत्र तादृशानुमित्यसम्भवे पक्षताविर-
हादेव तदनुत्पत्तेरिति वाच्यम् । वाधायनवतारदशायामम्यदा तादृशानुमितिसम्भवे तद्घटितपक्ष-
तास्त्वे तदा बाधादेव प्रतिबन्धकत्वात् । ननु तत्कालिकत्वेनाप्यनुमितिरवश्यं विशेषणीया ।
अन्यथाऽन्यकालिकानुमितिगोचरेच्छामादायातिप्रसङ्गादिति चेत् । अस्तेवं, तथापि पक्षतावि-
रहेऽपि बाधादेव तत्रोपजीव्यत्वात् । अन्यथाऽनुमितिसत्त्वे तद्घटितपक्षताया अप्यावश्य-
कत्वात् । पक्षताविरहादेवानुमित्यभावेऽन्योन्याश्रयात् ।
एतेन सिषाधयिषा न सिद्धित्वप्रकारिकेच्छा, प्रकृते तदभावात् । नापि सिद्धिविषयेच्छा-
मात्रम् , प्रत्यक्षेण जानीयामितीच्छायामपि तदापत्तेः । नाऽप्यनुमितित्वप्रकारिकेच्छा । एकलि-