सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 508, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 508

४७६ न्यायव्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [५ कारिकाव्याख्यायां
करणमिति त्विष्यत एव, प्रमया संबन्धाभावात्। तदाश्रयस्य तु प्रमातृत्वमेत-
देव, यत् तत्समवायः। कारकत्वे सतीति तु विशेषणं पूर्ववन्निर्थकमनुसन्धेयम्।
यद्येवम् 'आप्तप्रामाण्यात्' (न्याय० २. ६. ६७) इति सूत्रविरोधः। तेन हीश्वरस्य
प्रामाण्यं प्रतिपाद्यते, न तु प्रमातृत्वमिति चेन्न। निमित्तसमावेशेन व्यवहार-
समावेशाविरोधात्। प्रमासमवायो हि प्रमातृव्यवहारनिमित्तं, प्रमया स्वयोगव्यव-
च्छेदेन सम्बन्धः प्रमाणव्यवहारनिमित्तं, तदुभयञ्चेश्वरे। अत्रापि कार्य्येति विशे-
षणं पूर्ववदनर्थक मूहनीयम्।
स्यादेतत्—प्रमीयतेऽनेनेति प्रमाणं, प्रमिणोतीति प्रमातेति कारकशब्दत्व-
मनयोः, तथा च कथमकारकमर्थ इति चेत्। न। एतस्य व्युत्पत्तिमात्रनिमित्त-
त्वात्। प्रवृत्तिनिमित्तन्तु यथोपदर्शितमेव व्यवस्थापनात्। अन्यथा अस्मदादिषु
न प्रमातृव्यवहारः स्यात्, सर्वत्र स्वातन्त्र्याभावात्। करणव्यवहारस्त्वन्यत्र
यद्यप्यन्यनिमित्तकोऽपि, तथापीहोक्तनिमित्तविवक्षयैवेति। एवन्तर्हि पञ्चमप्रमा-
णाम्युपगमेऽपसिद्धान्तः। न हि तत् प्रत्यक्षमनुमानमागमो वा, अनिन्द्रियलिङ्ग-
प्रकाशः।
करणत्वमिष्यत एवेत्यर्थः। अस्मदादिप्रमां प्रति तु तत्करणत्वं वर्त्तत एव, तस्य सर्व्वापारत्वा-
दिति भावः॥ तदाश्रयस्येति॥ प्रमासमवायित्वस्यैव प्रमातृत्वात् तत्र तत्कारणान्तर्भावस्य
व्यर्थत्वादित्यर्थः॥ पूर्ववदिति॥ सिद्धयसिद्धयोरुभयोरपि व्यावर्त्याभावादित्यर्थः। यदीश्वरस्य
न प्रमाणत्वमिष्यते, तदा न्यायसूत्रप्रतिपादिततत्प्रमाणत्वविरोध इत्याह यद्येवमिति॥ प्रमया
त्विति॥ चक्षुरादीनामपि चरमसहकारिक्षणे प्रमया अयोगव्यवच्छेदेन सम्बन्धस्य विद्यमान-
त्वादित्यर्थः॥ पूर्ववदिति॥ सिद्धयसिद्धयोरुभयोरपि व्यावर्त्त्याप्रसिद्धेरित्यर्थः॥ सर्वत्रेति॥
यदि प्रमाकर्तृत्वेन प्रमातृत्वं, तदा अस्मदादीनामपि तदभावात् प्रमातृव्यवहारो न भवेत्-तद-
नुकूलप्रयत्नवत्त्वं हि स्वातन्त्र्यम्, तत्कर्तृत्वं सर्वप्रमायामस्मदादीनामपि नास्ति, अस्मदादि-
प्रयत्नं विनाऽप्यस्मदादिप्रमोत्पत्तेरित्यर्थः॥ अन्यत्रेति॥ लोक इत्यर्थः॥ अन्यनिमित्तकोऽ-
प्रकाशिकाः।
प्रमामित्यर्थः। तदनुकूलेति। तदुपादानगोचरतदनुकूलज्ञानेच्छाकृतिमत्त्वलक्षणमित्यर्थः। अस्म-
दादीनामपीति। जन्यात्मविशेषगुणमात्रस्यैवेश्वरमात्रकर्तृकत्वाभ्युपगमादिति भावः॥ ५॥
मकरन्दः।
यदीश्वरस्येति। यद्यपि पूर्वं तज्ज्ञानस्य न प्रामाण्यमित्युक्तं न तु तस्य, तथापि तुल्यन्याय-
तया तदप्युक्तप्रायमेवेति भावः।
तदनुकूलेति। तदुपादानगोचरतदनुकूलज्ञानेच्छाकृतिमत्त्वलक्षणमित्यर्थः। अस्मदादीना-
मिति। जन्यात्मविशेषगुणमात्रस्यैवेश्वरकर्तृकत्वेनाभ्युपगमादिति भावः॥ ५॥
टिप्पणी।
रणस्याभावात्। तदुत्पत्त्यन्तरञ्च विशिष्टवैशिष्ट्यावगाहिघटमहं जानामीत्याकारकं प्रत्यक्षं जायते प्रथमस्या-
नुव्यवसायस्य व्यवसायमादायापलक्षितवैशिष्ट्यावगाहिज्ञानस्यानुव्यवसायरूपमेव वर्त्तमानज्ञानमादाय