सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 502, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 502

४९० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां
तु सर्व्वेति चेत्, तुल्यम् । प्रागुत्पन्नज्ञाततास्मरणजनितजिज्ञासः समुन्मीलितनयनः
सञ्जातज्ञानसमुत्पादितप्राकट्यं जिज्ञासुरेव प्रतिपद्यते इत्यतो नानवस्थेति चेत्।
तुल्यमेतत् ॥
ननु ज्ञानं न सविकल्पकग्राह्यं, तस्य निर्विकल्पकपूर्वकत्वाद् निर्विकल्पकगृही-
तस्य तावत्कालानवस्थानात् तस्य तेनैव विनाशात् । नापि केवलनिर्विकल्पक-
वेद्यम् । तस्य सविकल्पकोन्नेयत्वेन तदभावे प्रमाणाभावात् । न च समवायाभाव-
वन्निर्विकल्पकनिरपेक्षसविकल्पकगोचरत्वं ज्ञानस्येति साम्प्रतम् । तयोर्विशेपणां-
शस्य प्राग्ग्रहणादनुमानादिवत्तदुपपत्तेः । प्रकृते तु ज्ञानत्वादेरनुपलब्धेरगृहीत-
प्रकाशः।
सम्भवेऽप्यात्मज्ञाततायां मनःसम्बन्धविच्छेदो न सम्भवतीत्यर्थः ॥ तुल्यमिति ॥ ज्ञानमपि
किञ्चिदुद्भूतत्वाभावात्तद्ग्राहकात्ममनःसंयोगविशेषाभावाद्वा न ज्ञायते इत्यर्थः । पूर्वोत्पन्न-
ज्ञाततायाः सामान्यतोऽग्रहादिदानीन्तन्यापि ज्ञातता ज्ञातेवेति तत्संस्काराधीनज्ञाततासामान्यजिज्ञासा-
यामिन्द्रियसन्निकर्षादिदानीन्तनी ज्ञातता ज्ञायते इत्येवमनवस्थापरीहारो ज्ञानप्रत्यक्षत्वेऽपि तुल्य
इति शङ्कोत्तराभ्यामाह प्रागिति ॥ तावत्कालेति ॥ घटज्ञानस्य तन्निर्विकल्पकाज्ज्ञानत्वविशि-
ष्टज्ञानकाल एव नाशाद् विशेष्यनाशे सति तद्विशेष्यकज्ञानत्वविशिष्टज्ञानानुत्पादः स्यात् । प्रत्यक्ष-
विशिष्टज्ञानस्य स्वसमानकालीनविशेष्यकत्वनियमादित्यर्थः ॥ तस्येति ॥ निर्विकल्पकस्यातीन्द्रिय-
त्वाभ्युपगमेन सविकल्पकैकोन्नेयतया तदभावे तत्र मानान्तराभावादित्यर्थः ॥ समवायेति ॥
समवायवदभाववच्चेत्यर्थः ॥ तयोरिति ॥ समवायाभावयोर्विशेषणयोः सम्बन्धिप्रतियोगिनोर्ज्ञाना-
नन्तरमेव ज्ञानाद्विशिष्टज्ञानसामग्रीनियमेन तथात्वेऽपि ज्ञाने ज्ञानत्वरूपविशेषणस्य पूर्वमज्ञानात्
कथं तद्विशिष्टज्ञानमित्यर्थः। तथाच जानामीति वर्त्तमानज्ञानवैशिष्ट्यज्ञानमात्मनि न जायेतेति
भावः। अत्र किञ्चिज्ज्ञानं निर्विकल्पकैकवेद्यं किञ्चित्सविकल्पकैकवेद्यं किञ्चिच्चावेद्यमेवेत्यऽनियम
प्रकाशिका।
सङ्गतिरिति निपुणेन निरूपणीयम् । उद्भूतत्वाभावादिति । योग्यविशेषगुणत्वेन ज्ञानेऽप्युद्भूत-
त्वस्वीकार इति भावः। मनःसंयोगेति । अन्यतरकर्म्मजत्वव्याप्यजातिविशेषविशिष्टसंयोगाभावा-
दित्यर्थः । इदं च समाधिद्वयमापाततो वस्तुतः फलवलेन विषयान्तरज्ञानसामग्री सुखादिसामग्री
च प्रतिवन्धिकेति कल्पनीयमिति सिद्धान्तो द्रष्टव्यः । ननु विषयस्य पूर्ववर्त्तितामात्रेव साक्षात्कारहेतु-
त्वमिति ज्ञाननाशक्षणे अनुव्यवसायोत्पत्तौ न विरोध इत्यत आह तथाचेति । तथा स्वीका-
रेऽपि जानामीति वर्त्तमानतत्प्रतीतिरनुपपन्नैवेत्यर्थः । निर्विकल्पकैकेति । निर्विकल्पकत्वं च
ज्ञानत्वांशे विषयस्य पूर्वज्ञातत्वेन तदंशे विशिष्टज्ञानसामग्रीसत्त्वादित्यवधेयम् । इदञ्चाग्रे वस्तुतो
मकरन्दः।
नाभवमित्यर्थः । एवञ्चेति । वर्त्तमानज्ञाततासम्बन्धस्यापि तदानीमभावादिति भावः। उद्भूतत्वाभा-
वादिति, प्राचीनमते । निर्विकल्पकैकेति । तज्जन्याग्रिमविशिष्टज्ञानस्यैव तत्र मानत्वान्न पूर्व-
टिप्पणी
सम्भवात् । एतेन ज्ञाततायाः क्षणिकत्वस्य तदभिमतत्वेऽपि न क्षतिः। संयोगविशेषाभावाद्वा न-
ज्ञायत इत्यर्थ इति । इदमापातः, वस्तुतः फलवलेन बहिरर्थज्ञानसामग्र्याः सुखादिसाम-
ग्र्याश्च प्रतिबन्धकत्वकल्पनाद् विषयान्तरसञ्चारसम्भवः । तथा च जानामीति वर्त्तमान-
ज्ञानेति । विषयस्य पूर्ववर्त्तित्वेनैव हेतुत्वे निर्विकल्पकोत्तरं ज्ञानप्रत्यक्षसम्भव इत्यत आह वर्त्त-
मानेति । तथा च विषयस्यावर्त्तमानत्वेन वर्त्तमानाभासो न स्यादिति भावः । किञ्चिज्ज्ञानं
निर्विकल्पकैकेति । प्रथमज्ञानं तस्य सविकल्पकासम्भवात् । किञ्चित् सविकल्पकैकवेद्य-