न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 42, कुल 608 में से
संदर्भ में पढ़ें. १२ न्यायकुसुमाञ्जलौ [ प्रथमः-
यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ २ ॥
बोधनी।
हेतुत्वे श्रुतीः प्रमाणयतीति ॥ २ ॥
प्रकाशः।
वाक्यस्य यथा वह्निविषयानुमितिपर्यन्तव्यापारत्वमिति । ईश्वरमननाङ्गतया तत्प्रमाणव्युत्पादन-
मपि प्रयोजनवदिति सूचितम् । ईश्वरमननञ्च मोक्षहेतुः । “तमेव विदित्वाऽतिमृत्युमेति” इति
श्रुत्या स्वात्मज्ञानस्येव ईश्वरज्ञानस्यापि तद्धेतुत्वप्रतिपादनात् । “द्वे ब्रह्मणी वेदितव्ये” इत्यत्र
वेदनमात्रस्याकाङ्क्षितत्वेन प्रकृतत्वात् । श्रोतव्यो मन्तव्य इत्यादेरन्वयाच्च । ईश्वरमननञ्च यद्यपि
मिथ्याज्ञानोन्मूलनद्वारा नोपयोगि, तथापि स्वात्मसाक्षात्कार एवोपयुज्यते । यदाहुः— “स हि
तत्त्वतो ज्ञातः स्वात्मसाक्षात्कारस्योपकरोति” इति । यद्वा, श्रुत्या तद्धेतुत्वे प्रमापिते तदनुपप-
त्त्याऽदृष्टमेव तद्द्वारं कल्प्यते । केचित्तु मोक्षस्यात्र प्रस्तुतत्वात् स्वर्गपदं मुख्यमेव दृष्टान्तार्थमु-
पात्तमित्याहुः । उपास्तीत्यत्र, “ण्यासश्रन्थो युच्” [ पा० सू० ३।३।१०७ ] इति युज्न भवति ।
“क्वचिदपवादविषयेऽप्युत्सर्गः प्रवर्त्तते”—इति न्यायाद्, बहुलवचनाद्वा । यद्वा धातुनिर्देशे
शित्पोऽयं प्रयोगः । तस्य च धातुरूपशब्दाभिधायकत्वेऽप्यर्थे द्विरेफपदवल्लक्षणा ॥ २ ॥
प्रकाशिका ।
तमेवेति। प्रकरणादीश्वरस्यैव तत्पदादुपस्थितेरिति भावः। ननूक्तयुक्त्येश्वरमननस्य मुक्त्यहेतुत्वेऽ-
योग्यतया प्रकृतमपीश्वरमपहाय योग्यतयाऽऽत्मन एव तत्पदेन परामर्शः स्यादिति साशङ्कं प्रमाणमप-
हाय निश्शङ्कमागमं प्रमाणयति। द्वे इति। वेदनमात्रस्येति । वेदनसामान्यस्येत्यर्थः। नन्वीश्वरम-
ननानुपदमेव स्वात्मसाक्षात्कारानुत्पादाददृष्टद्वारा तद्धेतुत्वं वाच्यम्, एवं च लाघवाददृष्टद्वारा मुक्तावेव
तत्कारणमस्तु, उपकारित्वं सहकारितैवास्त्विति तथैव सिद्धान्तयति। यद्वेति । उक्तबाधकान् मुक्त्य-
सम्भव इत्याशङ्कानुद्धारान्नैवं स्यादित्यरुचिं विभावयति। केचिदिति । तस्य चेति । नन्वत्र शित्-
पदे वा लक्षणा उपास् पदे वा ? नाद्यः, तस्य प्रकृतेः स्वबोधकत्वतात्पर्यग्राहकत्वेन उपसर्गवदशक्तत्वात् ,
अन्यथा तत्तद्धातूपसन्धानेनानन्तशक्त्यापत्तेः, स्वपरेणोपास्पदेन सह पौनरुक्त्यापत्तेश्च । नान्त्यः,
तस्यार्थे शक्तत्वादेवेति चेत् । मैवम् । धातुत्वेन रूपेण शित्पो धातुमात्रे शक्तेः, उपास्धातुरिति उपास्तीति
पदात् प्रतीतेः, अत एवोक्तं तस्य च धातुरूपेति । धातुत्वं च क्रियावाचित्वमेव। नचैवं यागपाकादौ
पदे तिप्प्रयोगापत्तिः, केवलस्यासाधुत्वात्, धातुसमभिव्याहारे च तदुपस्थापकत्वादेव । एवं च प्रकृतिप्र-
मकरन्दः।
तमेवेति । प्रकरणादीश्वरस्यैव तत्पदादुपस्थितेरिति भावः । ननूक्तयुक्त्येश्वरज्ञानस्य
मुक्त्यहेतुत्वेनायोग्यतया तदपरामर्शे स्वात्मैव तेन परामृष्यत इति यदि ब्रूयात्तत्राह ।
द्वे इति । नन्वेवमपि मननं नायातमित्यत आह । वेदनमात्रस्येति । वेदनसामान्य-
स्येत्यर्थः । नन्वनुपदं स्वात्मसाक्षात्कारानुत्पत्तेरदृष्टद्वारा तद्धेतुत्वं तस्य वाच्यमेवञ्च तद्द्वारा-
मुक्तावेव तद्धेतुत्वमस्तु लाघवात् , तदुपकारश्च तत्सहकारितयाऽप्युपपद्यत इत्यरुचेराह । यद्वे-
ति । केचित्त्विति । उक्तबाधकान्मुक्त्यसम्भव इत्याशङ्कायां नैवं समाधानमित्यस्वरसो बोध्यः ।
तस्येति । ननु शित्पस्तन्न न लक्षणा, तस्य प्रकृतेः स्वपरत्वतात्पर्यग्राहकत्वमात्रेणोपपत्ता-
वुपसर्गवदशक्तत्वात् । किञ्च, तस्यार्थे शक्तत्वे किं लक्षणया, शब्दशक्तत्वे तस्योपास्पदादेव स्वल-
टिप्पणी ।
किञ्चेत्यादेरुत्तरमाह- ईश्वरमननेति । मोक्षहेतुरत्रापि प्रयोजकत्वमेव हेतुत्वमिति