सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 34, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 34

४ न्यायकुसुमाञ्जलौ [ प्रथमः-
बोधनी ।
कण्ठतः कुण्ठनम् । अनध्यवसितसव्यभिचारयोर्विरुद्धस्य चार्थतो निरासः । अन्यत्र, सतां श्लेष्मा-
द्यनुपहतघ्राणानां सौरभोद्गारेण विहितप्रीतिः स्वस्मिन् बद्धेच्छो वा । प्रतिप्रमाणैः प्रतितर्कैश्च विम-
प्रकाशः ।
न्यायः = समस्तरूपोपपन्नलिङ्गबोधकवाक्यजातम् , स एवाह्लादकतया प्रसूनम् ; तदेवावान्तर-
वाक्यघटितत्वेन अञ्जलिः । मम चेतः, अविघ्नं यथा स्यादेवं रमयतु = दुःखसामग्रीविहीनं करोतु ।
ईशस्य पदयुगे रमयतु = तदेकाग्रं करोत्विति वा । मनः कीदृशम् ? भृङ्गायमानम् , भृङ्ग इव
मकरन्दे संसारिणां दुःखविगमोपाये सतृष्णम् भ्रमद् = अनुसरत् । दुःखविगमोपायम् इत्य-
र्थात् , तत्र सतृष्णस्य तदन्यानुसरणानौचित्यात् , तत्साधनानुसरणस्यापि तदर्थतया तदनुसरण-
रूपत्वात् । परदुःखं दृष्ट्वा दुःखितस्य कारुणिकस्य तन्निदानोच्छेदे तृष्णा भवत्येवेत्यनुभवसिद्धम् ।
यद्वा, मम चेतो रमयतु = सफलयतु । परोपकारकरणाद् भृङ्गायमानम् उपकारलुब्धम् ।
भ्रमत् = दुःखितमुपकर्तुं व्याप्रीयमाणमित्यर्थः ।
तथापि भूयसो धूमादिविषयस्य न्यायस्य सत्त्वात् किमनेनेत्यत आह—ईशस्य पदयुगे =
प्रकाशिका ।
न रूढ्यर्थ इति भावः । विवक्षितार्थप्रतिपादकत्वमपि न साक्षादिति द्वाराकाङ्क्षायामाह समस्तेति ।
अवान्तरेति । वाक्यपदमत्र प्रकृताभिप्रायम्, अवान्तरघटितत्वमात्रं विवक्षितम्, अन्यथा प्रसूनाञ्ज-
लावनन्वयापत्तेः। प्रकृतन्यायस्य मोक्षजनकत्वात् सुखजनकत्वमसम्भवीत्यन्यथा व्याचष्टे । दुःखस-
मकरन्दः ।
समस्तेत्यादिना विषयशुद्धेरपि लब्धत्वात् पूर्वार्द्धवैय्यर्थम् । तत्त्वेन बोधकस्याभाससाधारणस्य
विवक्षितत्वादिति भावः । केचित्तु एकविशेषाभावस्य पूर्वार्द्धेनैव लब्धत्वादपरविशेषाभावमात्रला-
भार्थं वाक्यपदम् । नचैवमनघत्वमित्याद्यग्रिमग्रन्थविरोधः । अनघपदेन विषयाशुद्धेरप्रतिपादित-
त्वात् , अर्थदोषनिरासार्थमित्यस्यैव वक्तुमौचित्यात् । शब्ददोषद्वैविध्येनार्थदोषनिबन्धनशब्ददो-
षाभावस्य ततः सम्भवादित्याहुः । अनघत्वपदं यत् कवित्वेऽस्ति तद्भिन्नमनघत्वं स्वातन्त्र्येण
लिखितं परग्रन्थे । तत्रापि सामान्यशब्दस्यानघत्वमित्यस्य वक्ष्यमाणस्यार्थदोषरहितत्वमिति विशे-
षपरत्वादित्यर्थः ।
अवान्तरघटितत्वमात्रं प्रयोजकं, वाक्येति प्रकृताभिप्रायकम् । विशिष्टस्य प्रसूनाञ्जलाव-
भावाद् ।
रागित्वनिरासार्थमाह । दुःखेति । तर्हि तत्साधनं नानुसरेदित्यत आह । तत्साधनेति ।
टिप्पणी ।
मपि न्यायस्य न साक्षादतो द्वाराऽऽकाङ्क्षायामाह—समस्तेति । द्वारत्वं प्रतिपत्त्यन्तस्यैव, प्रतिप-
त्तिरत्र मानसी, तज्जनकवाक्यजातमित्यन्तग्रन्थस्तु न्यायपदेन वाक्यसमूहरूपग्रन्थातिरिक्तस्यापि
च प्राप्ततया तद्व्यवच्छेदार्थ इति ध्येयम् । प्रकृत उक्तन्यायस्य मोक्षोपायतवेन सुखजनकत्वमसम्भ-
वीत्यन्यथा व्याचष्टे । दुःखसामग्रीत्यादि । दुःखविगमोपायमिति । अत्र उपाय
पर्यन्तोपादानं मकरन्दसाम्याय उपायानुसरणे तत्र सतृष्णस्येत्यादेः साम्मुख्येन सङ्गमनाय चेति ।
अनुसरणकर्मणोऽनुक्तत्वात्तदाकाङ्क्षायामाह । दुःखेत्यादि । अर्थतस्तल्लाभे हेतुमाह ।
तत्रेत्यादि । दुःखनाशे सतृष्णस्य तत्रानुसरणासम्भवेन तदुपायस्यानुसरणात् उक्तन्यायविरोध
इत्यत आह । तत्साधनेति । तथा च तदुपायस्यानुसरणं न तदन्यानुसरणमिति भावः ।
व्याप्रीयमाणमिति अतिशयेन व्यापारयुक्तमित्यर्थः । तद्विषय उत्पादित इति विषय-