न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 31, कुल 608 में से
संदर्भ में पढ़ेंमेघठक्कुररचितप्रकाशिका (जलद) युतेन रुचिदत्तोपाध्यायकृतमकरन्दो-
द्भासितेन झोपाख्यधर्म्मदत्तनिर्मितटिप्पण्यन्वितेन वर्द्धमानोपाध्यायकृत-
प्रकाशेन वरदराजकृतबोधन्या च सहितः ।
महामहोपाध्यायश्रीमदुदयनाचार्यप्रणीतः
न्यायकुसुमाञ्जलिः
बोधनी ।
विशदयितुमर्थतत्त्वं विनिहन्तुं चान्तरीयसन्तमसम् ।
मम मनसि सन्निधत्तां नरहरिशवलावकृति ज्योतिः ॥ १ ॥
विश्वं यो विदधात्यदृष्टसचिवः सत्सम्प्रदायो यतः
प्रामाण्यं लभते श्रुतिर्गुणवतो वक्तुर्यतो नान्यतः ।
यस्मिन् बाधकशाङ्कयापि विगतं-माता च मानं च यः
सिद्धो यः श्रुतिनीतिसम्भृतवशस्तैस्तं मन्महे मानतः ॥ २ ॥
प्रकाशः ।
भक्तानां कामदस्तुष्टो रुषा कामं दहन्नपि ।
प्रकाशिका ।
भासयद्भक्तजनताचेतःकमलकोरकान् ।
वन्दे सन्देहतिमिरविच्छेदमिहिरं महः ॥ १ ॥
यः कौशोरे विश्वविख्यातकर्म्मा धर्म्माचार्यः श्रीमहादेवशर्मा ।
तत्सोदर्यो वर्द्धमानस्य सूक्तौ भावं मेघः सम्यगाविष्करोति ॥
कामद इति । कामः = काम्यं काम्यत इति व्युत्पत्त्या, अथ च कामः = कन्दर्पः, कामं
मकरन्दः ।
भूतप्रभूतविकटध्वनिभीतिमत्या मानग्रहं मनसि धर्तुमपारयन्त्या ।
आलिङ्गितो गिरिजया चिरमस्मदादेरङ्गेषु मङ्गलमनङ्गरिपुर्दधातु ॥ १ ॥
कुसुमाञ्जलिमकरन्दः श्रीरुचिदत्तेन भण्यते कृतिना ।
स्तवकोपमर्दभाजां बुधमधुपानां विनोदाय ॥ २ ॥
कामं दहन्नपि कामद इति विरोधाभासः । कामः = काम्यम्, अर्शआदित्वात् कर्म्मणि
टिप्पणी ।
श्रीगणेशाय नमः । भक्तानां कामद इति । काम्यत इति कामः, काम्यम् । कामं